Leave

Vālmīki Rāmāyaṇa · The Coming of Bhārgava Rāma

Tap a verse for its meaning

  1. 1
    अथ रात्र्यां व्यतीतायां विश्वामित्रो ।आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥
  2. 2
    पूरयित्वा च कुमारांश्च सराघवान् ।विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ॥
  3. 3
    आपृष्ट्वाथ जगामाशु राजा दशरथः पुरीम् ।गच्छन्तं तं तु राजानमन्वगच्छ ॥
  4. 4
    अथ राजा विदेहानां ददौ कन्याधनं बहु ।गवां शतसहस्राणि बहूनि ॥
  5. 5
    कम्बलानां च मुख्यानां च ।हस्त्यश्वरथपादातं दिव्यरूपं स्वलङ्कृतम् ॥
  6. 6
    ददौ तासां दासीदासमनुत्तमम् ।हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥
  7. 7
    ददौ कन्याधनमनुत्तमम् ।दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम् ॥
  8. 8
    प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ।राजाप्ययोध्याधिपतिः सह पुत्रै ॥
  9. 9
    ऋषीन्सर्वान्पुरस्कृत्य जगाम सबलानुगः ।गच्छन्तं तं नरव्याघ्रं सर्षिसङ्घं सराघवम् ॥
  10. 10
    स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः ।भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥
  11. 11
    तान्दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत ।असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥
  12. 12
    किमिदं हृदयोत्कम्पि मनो मम विषीदति ।राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ॥
  13. 13
    उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम् ।उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ॥
  14. 14
    मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम् ।तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥
  15. 15
    कम्पयन्मेदिनीं सर्वां पातयंश्च महाद्रुमान् ।तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः ॥
  16. 16
    चावृतं सर्वं सम्मूढमिव तद्बलम् ।वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ॥
  17. 17
    ससञ्ज्ञा इव तत्रासन्सर्वमन्यद्विचेतनम् ।तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ॥
  18. 18
    ददर्श भीमसङ्काशं जटामण्डलधारिणम् ।भार्गवं जामदग्न्यं तं राजाराजविमर्दिनम् ॥
  19. 19
    कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम् ।ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः ॥
  20. 20
    स्कन्धे चासाद्य परशुं धनुर्विद्युद्गणोपमम् ।प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा शिवम् ॥
  21. 21
    तं दृष्ट्वा भीमसङ्काशं ज्वलन्तमिव पावकम् ।वसिष्ठप्रमुखाः सर्वे ॥
  22. 22
    सङ्गता मुनयः सर्वे सञ्जजल्पुरथो मिथः ।कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥
  23. 23
    पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः ।क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥
  24. 24
    एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम् ।ऋषयो रामरामेति वचो मधुरमब्रुवन् ॥
  25. 25
    प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान् ।रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥