Leave

Vālmīki Rāmāyaṇa · The Two Divine Bows

Tap a verse for its meaning

  1. 1
    राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम् ।धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥
  2. 2
    तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया ।तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं ॥
  3. 3
    तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः ।पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥
  4. 4
    तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे ।द्वन्द्वयुद्धं वीर्यश्लाघ्यमहं तव ॥
  5. 5
    तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ॥
  6. 6
    शान्तस्त्वं ब्राह्मणश्च महायशाः ।बालानां मम पुत्राणामभयं दातुमर्हसि ॥
  7. 7
    भार्गवाणां कुले जातः ।सहस्राक्षे प्रतिज्ञाय शस्त्रं ॥
  8. 8
    स त्वं धर्मपरो भूत्वा काश्यपाय ।दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः ॥
  9. 9
    मम सर्वविनाशाय महामुने ।न चैकस्मिन्हते रामे सर्वे वयम् ॥
  10. 10
    ब्रुवत्येवं दशरथे जामदग्न्यः । तद्वाक्यं राममेवाभ्यभाषत ॥
  11. 11
    इमे द्वे धनुषी श्रेष्ठे लोकाभिविश्रुते ।दृढे बलवती मुख्ये सुकृते ॥
  12. 12
    अतिसृष्टं सुरैरेकं युयुत्सवे ।त्रिपुरघ्नं नरश्रेष्ठ भग्नं यत्त्वया ॥
  13. 13
    इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः ।तदिदं वैष्णवं राम धनुः ॥
  14. 14
    समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ।तदा तु देवताः सर्वाः पृच्छन्ति स्म ॥
  15. 15
    विष्णोश्च ।अभिप्रायं तु विज्ञाय देवतानां पितामहः ॥
  16. 16
    विरोधं जनयामास तयोः सत्यवतां वरः ।विरोधे च महद्युद्धमभव ॥
  17. 17
    शितिकण्ठस्य विष्णोश्च ।तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् ॥
  18. 18
    महादेवः स्तम्भितोऽथ त्रिलोचनः ।देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः ॥
  19. 19
    याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ।जृम्भितं तद्धनुर्दृष्ट्वा शैवं ॥
  20. 20
    अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ।धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः ॥
  21. 21
    देवरातस्य राजर्षेर्ददौ हस्ते ।इदं च वैष्णवं राम धनुः परपुरञ्जयम् ॥
  22. 22
    ऋचीके भार्गवे प्रादाद्विष्णुः सन्न्यासमुत्तमम् ।ऋचीकस्तु पुत्रस्याप्रतिकर्मणः ॥
  23. 23
    पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः । पितरि मे तपोबल समन्विते ॥
  24. 24
    अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ।वधमप्रतिरूपं तु पितुः श्रुत्वा ॥
  25. 25
    क्षत्रमुत्सादयन्रोषाज्जातं जातमनेकशः । चाखिलां प्राप्य महात्मने ॥
  26. 26
    यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ।दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः ॥
  27. 27
    स्थितोऽस्मि तस्मिं सुसुखं ।अद्य तूत्तमवीर्येण त्वया राम महाबल ॥
  28. 28
    श्रुत्वातु धनुषो भेदं ततोऽहं द्रुतमागतः ।तदिदं वैष्णवं राम पितृपैतामहं महत् ॥
  29. 29
    क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ।योजयस्व धनुःश्रेष्ठे शरं परपुरञ्जयम् ।यदि शक्नोसि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ॥