Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Rite of the Fast
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
सन्दिश्य
रामं
नृपतिः
श्वोभाविन्यभिषेचने
।
पुरोहितं
समाहूय
वसिष्ठं
चेदमब्रवीत्
॥
2
▾
Meaning
Keep
गच्छोपवासं
काकुत्स्थं
कारयाद्य
तपोधन
।
श्रीयशोराज्यलाभाय
वध्वा
सह
यतव्रतम्
॥
3
▾
Meaning
Keep
तथेति
च
स
राजानमुक्त्वा
वेदविदां
वरः
।
स्वयं
वसिष्ठो
भगवान्ययौ
रामनिवेशनम्
॥
4
▾
Meaning
Keep
उपवासयितुं
रामं
मन्त्रवन्मन्त्रकोविदः
।
ब्राह्मं
रथवरं
युक्तमास्थाय
सुदृढव्रतः
॥
5
▾
Meaning
Keep
स
रामभवनं
प्राप्य
पाण्डुराभ्रघनप्रभम्
।
तिस्रः
कक्ष्या
रथेनैव
विवेश
मुनिसत्तमः
॥
6
▾
Meaning
Keep
तमागतमृषिं
रामस्त्वरन्निव
ससम्भ्रमः
।
मानयिष्यन्स
मानार्हं
निश्चक्राम
निवेशनात्
॥
7
▾
Meaning
Keep
अभ्येत्य
त्वरमाणश्च
रथाभ्याशं
मनीषिणः
।
ततोऽवतारयामास
परिगृह्य
रथात्स्वयम्
॥
8
▾
Meaning
Keep
स
चैनं
प्रश्रितं
दृष्ट्वा
सम्भाष्याभिप्रसाद्य
च
।
प्रियार्हं
हर्षयन्राममित्युवाच
पुरोहितः
॥
9
▾
Meaning
Keep
प्रसन्नस्ते
पिता
राम
यौवराज्यमवाप्स्यसि
।
उपवासं
भवानद्य
करोतु
सह
सीतया
॥
10
▾
Meaning
Keep
प्रातस्त्वामभिषेक्ता
हि
यौवराज्ये
नराधिपः
।
पिता
दशरथः
प्रीत्या
ययातिं
नहुषो
यथा
॥
11
▾
Meaning
Keep
इत्युक्त्वा
स
तदा
राममुपवासं
यतव्रतम्
।
मन्त्रवित्कारयामास
वैदेह्या
सहितं
मुनिः
॥
12
▾
Meaning
Keep
ततो
यथावद्रामेण
स
राज्ञो
गुरुरर्चितः
।
अभ्यनुज्ञाप्य
काकुत्स्थं
ययौ
रामनिवेशनात्
॥
13
▾
Meaning
Keep
सुहृद्भिस्तत्र
रामोऽपि
सुखासीनः
प्रियंवदैः
।
सभाजितो
विवेशाऽथ
ताननुज्ञाप्य
सर्वशः
॥
14
▾
Meaning
Keep
प्रहृष्टनरनारीकं
रामवेश्म
तदा
बभौ
।
यथा
मत्तद्विजगणं
प्रफुल्लनलिनं
सरः
॥
15
▾
Meaning
Keep
स
राजभवनप्रख्यात्तस्माद्रामनिवेशनात्
।
निःसृत्य
ददृशे
मार्गं
वसिष्ठो
जनसंवृतम्
॥
16
▾
Meaning
Keep
बृन्दबृन्दैरयोध्यायां
राजमार्गाः
समन्ततः
।
बभूवुरभिसम्बाधाः
कुतूहलजनैर्वृताः
॥
17
▾
Meaning
Keep
जनबृन्दोर्मिसङ्घर्षहर्षस्वनवतस्तदा
।
बभूव
राजमार्गस्य
सागरस्येव
निस्वनः
॥
18
▾
Meaning
Keep
सिक्तसंमृष्टरथ्या
च
तदहर्वनमालिनी
।
आसीदयोध्या
नगरी
समुच्छ्रितगृहध्वजा
॥
19
▾
Meaning
Keep
तदा
ह्ययोध्यानिलयः
सस्त्रीबालाबलो
जनः
।
रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं
रवेः
॥
20
▾
Meaning
Keep
प्रजालङ्कारभूतं
च
जनस्यानन्दवर्धनम्
।
उत्सुकोऽभूज्जनो
द्रष्टुं
तमयोध्यामहोत्सवम्
॥
21
▾
Meaning
Keep
एवं
तं
जनसम्बाधं
राजमार्गं
पुरोहितः
।
व्यूहन्निव
जनौघं
तं
शनै
राजकुलं
ययौ
॥
22
▾
Meaning
Keep
सिताभ्रशिखरप्रख्यं
प्रासादमधिरुह्य
सः
।
समीयाय
नरेन्द्रेण
शक्रेणेव
बृहस्पतिः
॥
23
▾
Meaning
Keep
तमागतमभिप्रेक्ष्य
हित्वा
राजासनं
नृपः
।
पप्रच्छ
स
च
तस्मै
तत्कृतमित्यभ्यवेदयत्
॥
24
▾
Meaning
Keep
तेन
चैव
तदा
तुल्यं
सहासीनाः
सभासदः
।
आसनेभ्यः
समुत्तस्थुः
पूजयन्तः
पुरोहितम्
॥
25
▾
Meaning
Keep
गुरुणा
त्वभ्यनुज्ञातो
मनुजौघं
विसृज्य
तम्
।
विवेशान्तःपुरं
राजा
सिंहो
गिरिगुहामिव
॥
26
▾
Meaning
Keep
तदग्र्यरूपं
प्रमदाजनाकुलं
महेन्द्रवेश्मप्रतिमं
निवेशनम्
।
विदीपयंश्चारु
विवेश
पार्थिवः
शशीव
तारागणसङ्कुलं
नभः
॥
Previous
←
The Father's Urgency
Next
The Awakening of Ayodhyā
→