Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Awakening of Ayodhyā
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
गते
पुरोहिते
रामः
स्नातो
नियतमानसः
।
सह
पत्न्या
विशालाक्ष्या
नारायणमुपागमत्
॥
2
▾
Meaning
Keep
प्रगृह्य
शिरसा
पात्रीं
हविषो
विधिवत्तदा
।
महते
दैवतायाज्यं
जुहाव
ज्वलितेऽनले
॥
3
▾
Meaning
Keep
शेषं
च
हविषस्तस्य
प्राश्याशास्यात्मनः
प्रियम्
।
ध्यायन्नारायणं
देवं
स्वास्तीर्णे
कुशसंस्तरे
॥
4
▾
Meaning
Keep
वाग्यतः
सह
वैदेह्या
भूत्वा
नियतमानसः
।
श्रीमत्यायतने
विष्णोः
शिश्ये
नरवरात्मजः
॥
5
▾
Meaning
Keep
एकयामावशिष्टायां
रात्र्यां
प्रतिविबुध्य
सः
।
अलङ्कारविधिं
कृत्स्नं
कारयामास
वेश्मनः
॥
6
▾
Meaning
Keep
तत्र
शृण्वन्सुखा
वाचः
सूतमागधवन्दिनाम्
।
पूर्वां
सन्ध्यामुपासीनो
जजाप
यतमानसः
॥
7
▾
Meaning
Keep
तुष्टाव
प्रणतश्चैव
शिरसा
मधुसूदनम्
।
विमलक्षौमसंवीतो
वाचयामास
च
द्विजान्
॥
8
▾
Meaning
Keep
तेषां
पुण्याहघोषोऽथ
गम्भीरमधुरस्तदा
।
अयोध्यां
पूरयामास
तूर्यघोषानुनादितः
॥
9
▾
Meaning
Keep
कृतोपवासं
तु
तदा
वैदेह्या
सह
राघवम्
।
अयोध्यानिलयः
श्रुत्वा
सर्वः
प्रमुदितो
जनः
॥
10
▾
Meaning
Keep
ततः
पौरजनः
सर्वः
श्रुत्वा
रामाभिषेचनम्
।
प्रभातां
रजनीं
दृष्ट्वा
चक्रे
शोभयितुं
पुरीम्
॥
11
▾
Meaning
Keep
सिताभ्रशिखराभेषु
देवतायतनेषु
च
।
चतुष्पथेषु
रथ्यासु
चैत्येष्वट्टालकेषु
च
॥
12
▾
Meaning
Keep
नानापण्यसमृद्धेषु
वणिजामापणेषु
च
।
कुटुम्बिनां
समृद्धेषु
श्रीमत्सु
भवनेषु
च
॥
13
▾
Meaning
Keep
सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च ।
ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥
14
▾
Meaning
Keep
नटनर्तकसङ्घानां
गायकानां
च
गायताम्
।
मनःकर्णसुखा
वाचः
शुश्रुवुश्च
ततस्ततः
॥
15
▾
Meaning
Keep
रामाभिषेकयुक्ताश्च
कथाश्चक्रुर्मिथो
जनाः
।
रामाभिषेके
सम्प्राप्ते
चत्वरेषु
गृहेषु
च
॥
16
▾
Meaning
Keep
बाला
अपि
क्रीडमानाः
गृहद्वारेषु
सङ्घशः
।
रामाभिषेकसम्युक्ताश्चक्रुरेव
मिथः
कथाः
॥
17
▾
Meaning
Keep
कृतपुष्पोपहारश्च
धूपगन्धाधिवासितः
।
राजमार्गः
कृतः
श्रीमान्पौरै
रामाभिषेचने
॥
18
▾
Meaning
Keep
प्रकाशीकरणार्थं
च
निशागमनशङ्कया
।
दीपवृक्षांस्तथा
चक्रुरनुरथ्यासु
सर्वशः
॥
19
▾
Meaning
Keep
अलङ्कारं
पुरस्यैवं
कृत्वा
तत्पुरवासिनः
।
आकाङ्क्षमाणा
रामस्य
यौवराज्याभिषेचनम्
॥
20
▾
Meaning
Keep
समेत्य
सङ्घशः
सर्वे
चत्वरेषु
सभासु
च
।
कथयन्तो
मिथस्तत्र
प्रशशंसुर्जनाधिपम्
॥
21
▾
Meaning
Keep
अहो
महात्मा
राजायमिक्ष्वाकुकुलनन्दनः
।
ज्ञात्वा
यो
वृद्धमात्मानं
रामं
राज्येऽभिषेक्ष्यति
॥
22
▾
Meaning
Keep
सर्वे
ह्यनुगृहीताः
स्म
यन्नो
रामो
महीपतिः
।
चिराय
भविता
गोप्ता
दृष्टलोकपरावरः
॥
23
▾
Meaning
Keep
अनुद्धतमना
विद्वान्धर्मात्मा
भ्रातृवत्सलः
।
यथा
च
भ्रातृषु
स्निग्धस्तथास्मास्वपि
राघवः
॥
24
▾
Meaning
Keep
चिरं
जीवतु
धर्मात्मा
राजा
दशरथोऽनघः
।
यत्प्रसादेनाभिषिक्तं
रामं
द्रक्ष्यामहे
वयम्
॥
25
▾
Meaning
Keep
एवंविधं
कथयतां
पौराणां
शुश्रुवुस्तदा
।
दिग्भ्यो
विश्रुतवृत्तान्ताः
प्राप्ता
जानपदा
जनाः
॥
26
▾
Meaning
Keep
ते
तु
दिग्भ्यः
पुरीं
प्राप्ताः
द्रष्टुं
रामाभिषेचनम्
।
रामस्य
पूरयामासुः
पुरीं
जानपदा
जनाः
॥
27
▾
Meaning
Keep
जनौघैस्तैर्विसर्पद्भिः
शुश्रुवे
तत्र
निस्वनः
।
पर्वसूदीर्णवेगस्य
सागरस्येव
निस्वनः
॥
28
▾
Meaning
Keep
ततस्तदिन्द्रक्षयसन्निभं
पुरं
दिदृक्षुभिर्जानपदैरुपागतैः
।
समन्ततः
सस्वनमाकुलं
बभौ
समुद्रयादोभिरिवार्णवोदकम्
॥
Previous
←
The Rite of the Fast
Next
The Poison of Mantharā
→