Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · Mantharā's Counsel
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
मन्थरा
त्वभ्यसूयैनामुत्सृज्याभरणं
च
तत्
।
उवाचेदं
ततो
वाक्यं
कोपदुःखसमन्विता
॥
2
▾
Meaning
Keep
हर्षं
किमिदमस्थाने
कृतवत्यसि
बालिशे
।
शोकसागरमध्यस्थं
नात्मानमवबुध्यसे
॥
3
▾
Meaning
Keep
मनसा
प्रहसामि
त्वां
देवि
दुःखार्दिता
सती
।
यच्छोचितव्ये
हृष्टाऽसि
प्राप्येदं
व्यसनं
महत्
॥
4
▾
Meaning
Keep
शोचामि
दुर्मतित्वं
ते
का
हि
प्राज्ञा
प्रहर्षयेत्
।
अरेः
सपत्नीपुत्रस्य
वृद्धिं
मृत्योरिवागताम्
॥
5
▾
Meaning
Keep
भरतादेव
रामस्य
राज्यसाधारणाद्भयम्
।
तद्विचिन्त्य
विषण्णास्मि
भयं
भीताऽद्धि
जायते
॥
6
▾
Meaning
Keep
लक्ष्मणो
हि
महेष्वासो
रामं
सर्वात्मना
गतः
।
शत्रुघ्नश्चापि
भरतं
काकुत्स्थं
लक्ष्मणो
यथा
॥
7
▾
Meaning
Keep
प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि ।
राज्यक्रमो विप्रकृष्टस्तयोस्तावद्यवीयसोः ॥
8
▾
Meaning
Keep
विदुषः
क्षत्रचारित्रे
प्राज्ञस्य
प्राप्तकारिणः
।
भयात्प्रवेपे
रामस्य
चिन्तयन्ती
तवात्मजम्
॥
9
▾
Meaning
Keep
सुभगा
खलु
कौसल्या
यस्याः
पुत्रोऽभिषेक्ष्यते
।
यौवराज्येन
महता
श्वः
पुष्येण
द्विजोत्तमैः
॥
10
▾
Meaning
Keep
प्राप्तां
सुमहतीं
प्रीतिं
प्रतीतां
तां
हतद्विषम्
।
उपस्थास्यसि
कौसल्यां
दासीव
त्वं
कृताञ्जलिः
॥
11
▾
Meaning
Keep
एवं
चेत्त्वं
सहास्माभिस्तस्याः
प्रेष्या
भविष्यसि
।
पुत्रश्च
तव
रामस्य
प्रेष्यभावं
गमिष्यति
॥
12
▾
Meaning
Keep
हृष्टाः
खलु
भविष्यन्ति
रामस्य
परमाः
स्त्रियः
।
अप्रहृष्टा
भविष्यन्ति
स्नुषास्ते
भरतक्षये
॥
13
▾
Meaning
Keep
तां
दृष्ट्वा
परमप्रीतां
ब्रुवन्तीं
मन्थरां
ततः
।
रामस्यैव
गुणान्देवी
कैकेयी
प्रशशंस
ह
॥
14
▾
Meaning
Keep
धर्मज्ञो
गुरुभिर्दान्तः
कृतज्ञः
सत्यवाक्छुचिः
।
रामो
राज्ञः
सुतो
ज्येष्ठो
यौवराज्यमतोऽर्हति
॥
15
▾
Meaning
Keep
भ्रातॄन्भृत्यांश्च
दीर्घायुः
पितृवत्पालयिष्यति
।
सन्तप्यसे
कथं
कुब्जे
श्रुत्वा
रामाभिषेचनम्
॥
16
▾
Meaning
Keep
भरतश्चापि
रामस्य
ध्रुवं
वर्षशतात्परम्
।
पितृपैतामहं
राज्यं
प्राप्नुयात्पुरुषर्षभः
॥
17
▾
Meaning
Keep
सा
त्वमभ्युदये
प्राप्ते
वर्तमाने
च
मन्थरे
।
भविष्यति
च
कल्याणे
किमर्थं
परितप्यसे
॥
18
▾
Meaning
Keep
यथा
मे
भरतो
मान्यस्तथा
भूयोऽपि
राघवः
।
कौसल्यातोऽतिरिक्तं
च
सोऽनुशुश्रूषते
हि
माम्
॥
19
▾
Meaning
Keep
राज्यं
यदि
हि
रामस्य
भरतस्यापि
तत्तथा
।
मन्यते
हि
यथाऽऽत्मानं
तथा
भ्रातॄंस्तु
राघवः
॥
20
▾
Meaning
Keep
कैकेय्या
वचनं
श्रुत्वा
मन्थरा
भृशदुःखिता
।
दीर्घमुष्णं
विनिश्वस्य
कैकेयीमिदमब्रवीत्
॥
21
▾
Meaning
Keep
अनर्थदर्शिनी
मौर्ख्यान्नात्मानमवबुध्यसे
।
शोकव्यसनविस्तीर्णे
मज्जन्ती
दुःखसागरे
॥
22
▾
Meaning
Keep
भविता
राघवो
राजा
राघवस्यानु
यः
सुतः
।
राजवंशात्तु
कैकेयी
भरतः
परिहास्यते
॥
23
▾
Meaning
Keep
न
हि
राज्ञः
सुताः
सर्वे
राज्ये
तिष्ठन्ति
भामिनि
।
स्थाप्यमानेषु
सर्वेषु
सुमहाननयो
भवेत्
॥
24
▾
Meaning
Keep
तस्माज्ज्येष्ठे
हि
कैकेयि
राज्यतन्त्राणि
पार्थिवाः
।
स्थापयन्त्यनवद्याङ्गि
गुणवत्स्वितरेष्वपि
॥
25
▾
Meaning
Keep
असावत्यन्तनिर्भग्नस्तव
पुत्रो
भविष्यति
।
अनाथवत्सुखेभ्यश्च
राजवंशाच्च
वत्सले
॥
26
▾
Meaning
Keep
साहं
त्वदर्थे
सम्प्राप्ता
त्वं
तु
मां
नावबुध्यसे
।
सपत्निवृद्धौ
या
मे
त्वं
प्रदेयं
दातुमिच्छसि
॥
27
▾
Meaning
Keep
ध्रुवं
तु
भरतं
रामः
प्राप्य
राज्यमकण्टकम्
।
देशान्तरं
वा
नयिता
लोकान्तरमथाऽपि
वा
॥
28
▾
Meaning
Keep
बाल
एव
हि
मातुल्यं
भरतो
नायितस्त्वया
।
सन्निकर्षाच्च
सौहार्दं
जायते
स्थावरेष्वपि
॥
29
▾
Meaning
Keep
भरतस्याप्यनुवशः
शत्रुघ्नोऽपि
समागतः
।
लक्ष्मणश्च
यथा
रामं
तथासौ
भरतं
गतः
॥
30
▾
Meaning
Keep
श्रूयते
हि
द्रुमः
कश्चिच्छेत्तव्यो
वनजीविभिः
।
सन्निकर्षादिषीकाभिर्मोचितः
परमाद्भयात्
॥
31
▾
Meaning
Keep
गोप्ता
हि
रामं
सौमित्रिर्लक्ष्मणं
चापि
राघवः
।
अश्विनोरिव
सौभ्रात्रं
तयोर्लोकेषु
विश्रुतम्
॥
32
▾
Meaning
Keep
तस्मान्न
लक्ष्मणे
रामः
पापं
किञ्चित्करिष्यति
।
रामस्तु
भरते
पापं
कुर्यादिति
न
संशयः
॥
33
▾
Meaning
Keep
तस्माद्राजगृहाद्देव
वनं
गच्छतु
ते
सुतः
।
एतद्धि
रोचते
मह्यं
भृशं
चापि
हितं
तव
॥
34
▾
Meaning
Keep
एवं
ते
ज्ञातिपक्षस्य
श्रेयश्चैव
भविष्यति
।
यदि
चेद्भरतो
धर्मात्पित्र्यं
राज्यमवाप्स्यसि
॥
35
▾
Meaning
Keep
स
ते
सुखोचितो
बालो
रामस्य
सहजो
रिपुः
।
समृद्धार्थस्य
नष्टार्थो
जीविष्यति
कथं
वशे
॥
36
▾
Meaning
Keep
अभिद्रुतमिवारण्ये
सिंहेन
गजयूथपम्
।
प्रच्छाद्यमानं
रामेण
भरतं
त्रातुमर्हसि
॥
37
▾
Meaning
Keep
दर्पान्निराकृता
पूर्वं
त्वया
सौभाग्यवत्तया
।
राममाता
सपत्नी
ते
कथं
वैरं
न
यातयेत्
॥
38
▾
Meaning
Keep
यदा
हि
रामः
पृथिवीमवाप्स्यति
प्रभूतरत्नाकरशैलपत्तनाम्
।
तदा
गमिष्यस्यशुभं
पराभवं
सहैव
दीना
भरतेन
भामिनि
॥
39
▾
Meaning
Keep
यदा
हि
रामः
पृथिवीमवाप्स्यति
ध्रुवं
प्रनष्टो
भरतो
भविष्यति
।
अतो
हि
सञ्चिन्तय
राज्यमात्मजे
परस्य
चैवाद्य
विवासकारणम्
॥
Previous
←
The Poison of Mantharā
Next
The Strategy of the Two Boons
→