Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Poison of Mantharā
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
ज्ञातिदासी
यतोजाता
कैकेय्यास्तु
सहोषिता
।
प्रासादं
चन्द्रसङ्काशमारुरोह
यदृच्छया
॥
2
▾
Meaning
Keep
सिक्तराजपथां
रम्यां
प्रकीर्णकुसुमोत्कराम्
।
अयोध्यां
मन्थरा
तस्मात्प्रासादादन्ववैक्षत
॥
3
▾
Meaning
Keep
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलङ्कृताम् ।
वृतां छन्नपथैश्चापि शिरःस्नातजनैर्वृताम् ॥
4
▾
Meaning
Keep
माल्यमोदकहस्तैश्च
द्विजेन्द्रैरभिनादिताम्
।
शुक्लदेवगृहद्वारां
सर्ववादित्रनिस्वनाम्
॥
5
▾
Meaning
Keep
सम्प्रहृष्टजनाकीर्णां
ब्रह्मघोषाभिनादिताम्
।
प्रहृष्टवरहस्त्यश्वां
सम्प्रणर्दितगोवृषाम्
॥
6
▾
Meaning
Keep
प्रहृष्टमुदितैः
पौरैरुच्छ्रितध्वजमालिनीम्
।
अयोध्यां
मन्थरा
दृष्ट्वा
परं
विस्मयमागता
॥
7
▾
Meaning
Keep
प्रहर्षोत्फुल्लनयनां
पाण्डुरक्षौमवासिनीम्
।
अविदूरे
स्थितां
दृष्ट्वा
धात्रीं
पप्रच्छ
मन्थरा
॥
8
▾
Meaning
Keep
उत्तमेनाभिसम्युक्ता
हर्षेणार्थपरा
सती
।
राममाता
धनं
किं
नु
जनेभ्यः
सम्प्रयच्छति
॥
9
▾
Meaning
Keep
अतिमात्रप्रहर्षोऽयं
किं
जनस्य
च
शंस
मे
।
कारयिष्यति
किं
वापि
सम्प्रहृष्टो
महीपतिः
॥
10
▾
Meaning
Keep
विदीर्यमाणा
हर्षेण
धात्री
तु
परया
मुदा
।
आचचक्षेऽथ
कुब्जायै
भूयसीं
राघवश्रियम्
॥
11
▾
Meaning
Keep
श्वः
पुष्येण
जितक्रोधं
यौवराज्येन
राघवम्
।
राजा
दशरथो
राममभिषेचयितानघम्
॥
12
▾
Meaning
Keep
धात्र्यास्तु
वचनं
श्रुत्वा
कुब्जा
क्षिप्रममर्षिता
।
कैलासशिखराकारात्प्रासादादवरोहत
॥
13
▾
Meaning
Keep
सा
दह्यमाना
कोपेन
मन्थरा
पापदर्शिनी
।
शयानामेत्य
कैकेयीमिदं
वचनमब्रवीत्
॥
14
▾
Meaning
Keep
उत्तिष्ठ
मूढे
किं
शेषे
भयं
त्वामभिवर्तते
।
उपप्लुतमघौघेन
किमात्मानं
न
बुध्यसे
॥
15
▾
Meaning
Keep
अनिष्टे
सुभगाकारे
सौभाग्येन
विकत्थसे
।
चलं
हि
तव
सौभाग्यं
नद्याः
स्रोत
इवोष्णगे
॥
16
▾
Meaning
Keep
एवमुक्ता
तु
कैकेयी
रुष्टया
परुषं
वचः
।
कुब्जया
पापदर्शिन्या
विषादमगमत्परम्
॥
17
▾
Meaning
Keep
कैकेयी
त्वब्रवीत्कुब्जां
कच्चित्क्षेमं
न
मन्थरे
।
विषण्णवदनां
हि
त्वां
लक्षये
भृशदुःखिताम्
॥
18
▾
Meaning
Keep
मन्थरा
तु
वचः
श्रुत्वा
कैकेय्या
मधुराक्षरम्
।
उवाच
क्रोधसम्युक्ता
वाक्यं
वाक्यविशारदा
॥
19
▾
Meaning
Keep
सा
विषण्णतरा
भूत्वा
कुब्जा
तस्या
हितैषिणी
।
विषादयन्ती
प्रोवाच
भेदयन्ती
च
राघवम्
॥
20
▾
Meaning
Keep
अक्षय्यं
सुमहद्देवि
प्रवृत्तं
त्वद्विनाशनम्
।
रामं
दशरथो
राजा
यौवराज्येऽभिषेक्ष्यति
॥
21
▾
Meaning
Keep
सास्म्यगाधे
भये
मग्ना
दुःखशोकसमन्विता
।
दह्यमानाऽनलेनेव
त्वद्धितार्थमिहागता
॥
22
▾
Meaning
Keep
तव
दुःखेन
कैकेयि
मम
दुःखं
महद्भवेत्
।
त्वद्वृद्धौ
मम
वृद्धिश्च
भवेदत्र
न
संशयः
॥
23
▾
Meaning
Keep
नराधिपकुले
जाता
महिषी
त्वं
महीपतेः
।
उग्रत्वं
राजधर्माणां
कथं
देवि
न
बुध्यसे
॥
24
▾
Meaning
Keep
धर्मवादी
शठो
भर्ता
श्लक्ष्णवादी
च
दारुणः
।
शुद्धभावेन
जानीषे
तेनैवमतिसन्धिता
॥
25
▾
Meaning
Keep
उपस्थितं
प्रयुञ्जानस्त्वयि
सान्त्वमनर्थकम्
।
अर्थेनैवाद्य
ते
भर्ता
कौसल्यां
योजयिष्यति
॥
26
▾
Meaning
Keep
अपवाह्य
स
दुष्टात्मा
भरतं
तव
बन्धुषु
।
काल्ये
स्थापयिता
रामं
राज्ये
निहतकण्टके
॥
27
▾
Meaning
Keep
शत्रुः
पतिप्रवादेन
मात्रेव
हितकाम्यया
।
आशीविष
इवाङ्केन
बाले
परिहृतस्त्वया
॥
28
▾
Meaning
Keep
यथा
हि
कुर्यात्सर्पो
वा
शत्रुर्वा
प्रत्युपेक्षितः
।
राज्ञा
दशरथेनाद्य
सपुत्रा
त्वं
तथा
कृता
॥
29
▾
Meaning
Keep
पापेनानृतसान्त्वेन
बाले
नित्यसुखोचिते
।
रामं
स्थापयता
राज्ये
सानुबन्धा
हता
ह्यसि
॥
30
▾
Meaning
Keep
सा
प्राप्तकालं
कैकेयि
क्षिप्रं
कुरु
हितं
तव
।
त्रायस्व
पुत्रमात्मानं
मां
च
विस्मयदर्शने
॥
31
▾
Meaning
Keep
मन्थराया
वचः
श्रुत्वा
शयनात्सा
शुभानना
।
उत्तस्थौ
हर्षसम्पूर्णा
चन्द्रलेखेव
शारदी
॥
32
▾
Meaning
Keep
अतीव
सा
तु
संहृष्टा
कैकेयी
विस्मयान्विता
।
एकमाभरणं
तस्यै
कुब्जायै
प्रददौ
शुभम्
॥
33
▾
Meaning
Keep
दत्त्वा
त्वाभरणं
तस्यै
कुब्जायै
प्रमदोत्तमा
।
कैकेयी
मन्थरां
दृष्ट्वा
पुनरेवाब्रवीदिदम्
॥
34
▾
Meaning
Keep
इदं
तु
मन्थरे
मह्यमाख्यासि
परमं
प्रियम्
।
एतन्मे
प्रियमाख्यातं
भूयः
किं
वा
करोमि
ते
॥
35
▾
Meaning
Keep
रामे
वा
भरते
वाऽहं
विशेषं
नोपलक्षये
।
तस्मात्तुष्टाऽस्मि
यद्राजा
रामं
राज्येऽभिषेक्ष्यति
॥
36
▾
Meaning
Keep
न
मे
परं
किञ्चिदितस्त्वया
पुनः
प्रियं
प्रियार्हे
सुवचं
वचो
वरम्
।
तथा
ह्यवोचस्त्वमतः
प्रियोत्तरं
परं
वरं
ते
प्रददामि
तं
वृणु
॥
Previous
←
The Awakening of Ayodhyā
Next
Mantharā's Counsel
→