Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Chamber of Wrath
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
विदर्शिता
यदा
देवी
कुब्जया
पापया
भृशम्
।
तदा
शेते
स्म
सा
भूमौ
दिग्धविद्धेव
किन्नरी
॥
2
▾
Meaning
Keep
निश्चित्य
मनसा
कृत्यं
सा
सम्यगिति
भामिनी
।
मन्थरायै
शनैः
सर्वमाचचक्षे
विचक्षणा
॥
3
▾
Meaning
Keep
सा
दीना
निश्चयं
कृत्वा
मन्थरावाक्यमोहिता
।
नागकन्येव
निश्वस्य
दीर्घमुष्णं
च
भामिनी
॥
4
▾
Meaning
Keep
मुहूर्तं
चिन्तयामास
मार्गमात्मसुखावहम्
।
सा
सुहृच्चार्थकामा
च
तन्निशम्य
सुनिश्चयम्
॥
5
▾
Meaning
Keep
बभूव
परमप्रीता
सिद्धिं
प्राप्येव
मन्थरा
।
अथ
सा
मर्षिता
देवी
सम्यक्कृत्वा
सुनिश्चयम्
॥
6
▾
Meaning
Keep
संविवेशाबला
भूमौ
निवेश्य
भृकुटीं
मुखे
।
ततश्चित्राणि
माल्यानि
दिव्यान्याभरणानि
च
॥
7
▾
Meaning
Keep
अपविद्धानि
कैकेय्या
तानि
भूमिं
प्रपेदिरे
।
तया
तान्यपविद्धानि
माल्यान्याभरणानि
च
॥
8
▾
Meaning
Keep
अशोभयन्त
वसुधां
नक्षत्राणि
यथा
नभः
।
क्रोधागारे
निपतिता
सा
बभौ
मलिनाम्बरा
॥
9
▾
Meaning
Keep
एकवेणीं
दृढं
बध्वा
गतसत्त्वेव
किन्नरी
।
आज्ञाप्य
तु
महाराजो
राघवस्याभिषेचनम्
॥
10
▾
Meaning
Keep
उपस्थासमनुज्ञाप्य
प्रविवेश
निवेशनम्
।
अद्य
रामाभिषेको
वै
प्रसिद्ध
इति
जज्ञिवान्
॥
11
▾
Meaning
Keep
प्रियार्हां
प्रियमाख्यातुं
विवेशान्तःपुरं
वशी
।
स
कैकेय्या
गृहं
श्रेष्ठं
प्रविवेश
महायशाः
॥
12
▾
Meaning
Keep
पाण्डुराभ्रमिवाकाशं
राहुयुक्तं
निशाकरः
।
शुकबर्हिणसङ्घुष्टं
क्रौञ्चहंसरुतायुतम्
॥
13
▾
Meaning
Keep
वादित्ररवसङ्घुष्टं
कुब्जावामनिकायुतम्
।
लतागृहैश्चित्रगृहैश्चम्पकाशोकशोभितैः
॥
14
▾
Meaning
Keep
दान्तराजतसौवर्णवेदिकाभिः
समायुतम्
।
नित्यपुष्पफलैर्वृक्षैर्वापीभिश्चोपशोभितम्
॥
15
▾
Meaning
Keep
दान्तराजतसौवर्णैः
संवृतं
परमासनैः
।
विविधैरन्नपानैश्च
भक्ष्यैश्च
विविधैरपि
॥
16
▾
Meaning
Keep
उपपन्नं
महार्हैश्च
भूषणैस्त्रिदिवोपमम्
।
तत्प्रविश्य
महाराजः
स्वमन्तःपुरमृद्धिमत्
॥
17
▾
Meaning
Keep
न
ददर्श
प्रियां
राजा
कैकेयीं
शयनोत्तमे
।
स
कामबलसम्युक्तो
रत्यर्थं
मनुजाधिपः
॥
18
▾
Meaning
Keep
अपश्यन्दयितां
भार्यां
पप्रच्छ
विषसाद
च
।
न
हि
तस्य
पुरा
देवी
तां
वेलामत्यवर्तत
॥
19
▾
Meaning
Keep
न
च
राजा
गृहं
शून्यं
प्रविवेश
कदाचन
।
ततो
गृहगतो
राजा
कैकेयीं
पर्यपृच्छत
॥
20
▾
Meaning
Keep
यथापुरमविज्ञाय
स्वार्थलिप्सुमपण्डिताम्
।
प्रतिहारी
त्वथोवाच
सन्त्रस्ता
रचिताञ्जलिः
॥
21
▾
Meaning
Keep
देव
देवी
भृशं
कृद्धा
क्रोधागारमभिदृता
।
प्रतिहार्या
वचः
श्रुत्वा
राजा
परमदुर्मनाः
॥
22
▾
Meaning
Keep
विषसाद
पुनर्भूयो
लुलितव्याकुलेन्द्रियः
।
तत्र
तां
पतितां
भूमौ
शयानामतथोचिताम्
॥
23
▾
Meaning
Keep
प्रतप्त
इव
दुःखेन
सोऽपश्यज्जगतीपतिः
।
स
वृद्धस्तरुणीं
भार्यां
प्राणेभ्योऽपि
गरीयसीम्
॥
24
▾
Meaning
Keep
अपापः
पापसङ्कल्पां
ददर्श
धरणीतले
।
लतामिव
विनिष्कृत्तां
पतितां
देवतामिव
॥
25
▾
Meaning
Keep
किन्नरीमिव
निर्धूतां
च्युतामप्सरसं
यथा
।
मायामिव
परिभ्रष्टां
हरिणीमिव
सम्यताम्
॥
26
▾
Meaning
Keep
करेणुमिव
दिग्धेन
विद्धां
मृगयुना
वने
।
महागज
इवारण्ये
स्नेहात्परिममर्श
ताम्
॥
27
▾
Meaning
Keep
परिमृश्य
च
पाणिभ्यामभिसन्त्रस्तचेतनः
।
कामी
कमलपत्राक्षीमुवाच
वनितामिदम्
॥
28
▾
Meaning
Keep
न
तेऽहमभिजानामि
क्रोधमात्मनि
संश्रितम्
।
देवि
केनाभिशप्तासि
केन
वासि
विमानिता
॥
29
▾
Meaning
Keep
यदिदं
मम
दुःखाय
शेषे
कल्याणि
पांसुषु
।
भूमौ
शेषे
किमर्थं
त्वं
मयि
कल्याणचेतसि
॥
30
▾
Meaning
Keep
भूतोपहतचित्तेव मम चित्तप्रमाथिनी ।
सन्ति मे कुशला वैद्यास्त्वभितुष्टाश्च सर्वशः ॥
31
▾
Meaning
Keep
सुखितां
त्वां
करिष्यन्ति
व्याधिमाचक्ष्व
भामिनी
।
कस्य
वा
ते
प्रियं
कार्यं
केन
वा
विप्रियं
कृतम्
॥
32
▾
Meaning
Keep
कः
प्रियं
लभतामद्य
को
वा
सुमहदप्रियम्
।
मा
रोदीर्मा
च
कार्षीस्त्वं
देवि
सम्परिशोषणम्
॥
33
▾
Meaning
Keep
अवध्यो
वध्यतां
को
वा
कोवा
वध्यः
विमुच्यताम्
।
दरिद्रः
को
भवेदाढ्यो
द्रव्यवान्
वाऽप्यकिञ्चनः
॥
34
▾
Meaning
Keep
अहं
चैव
मदीयाश्च
सर्वे
तव
वशानुगाः
।
न
ते
किञ्चिदभिप्रायं
व्याहन्तुमहमुत्सहे
॥
35
▾
Meaning
Keep
आत्मनो
जीवितेनापि
ब्रुहि
यन्मनसेच्छसि
।
बलमात्मनि
जानन्ती
न
मां
शङ्कितुमर्हसि
॥
36
▾
Meaning
Keep
करिष्यामि
तव
प्रीतिं
सुकृतेनापि
ते
शपे
।
यावदावर्तते
चक्रं
तावती
मे
वसुन्धरा
॥
37
▾
Meaning
Keep
प्राचीनाः
सिन्धुसौवीराः
सौराष्ट्रा
दक्षिणापथाः
।
वङ्गाङ्गमगधा
मत्स्याः
समृद्धाः
काशिकोसलाः
॥
38
▾
Meaning
Keep
तत्र
जातं
बहुद्रव्यं
धनधान्यमजाविकम्
।
ततो
वृणीष्व
कैकेयि
यद्यत्त्वं
मनसेच्छसि
॥
39
▾
Meaning
Keep
किमायासेन
ते
भीरु
उत्तिष्ठोत्तिष्ठ
शोभने
।
तत्त्वं
मे
ब्रूहि
कैकेयि
यतस्ते
भयमागतम्
॥
40
▾
Meaning
Keep
तत्ते
व्यपनयिष्यामि
नीहारमिव
भास्करः
।
तथोक्ता
सा
समाश्वस्ता
वक्तुकामा
तदप्रियम्
।
परिपीडयितुं
भूयो
भर्तारमुपचक्रमे
॥
Previous
←
The Strategy of the Two Boons
Next
The Two Boons Claimed
→