Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Two Boons Claimed
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
तं
मन्मथशरैर्विद्धं
कामवेगवशानुगम्
।
उवाच
पृथिवीपालं
कैकेयी
दारुणं
वचः
॥
2
▾
Meaning
Keep
नास्मि
विप्रकृतादेव
केनचिन्नावमानिता
।
अभिप्रायस्तु
मे
कश्चित्तमिच्छामि
त्वया
कृतम्
॥
3
▾
Meaning
Keep
प्रतिज्ञां
प्रतिजानीष्व
यदि
त्वं
कर्तुमिच्छसि
।
अथ
तद्व्याहरिष्यामि
यदभिप्रार्थितं
मया
॥
4
▾
Meaning
Keep
तामुवाच
महातेजाः
कैकेयीमीषदुत्स्मितः
।
कामी
हस्तेन
सङ्गृह्य
मूर्धजेषु
शुचिस्मिताम्
॥
5
▾
Meaning
Keep
अवलिप्ते
न
जानासि
त्वत्तः
प्रियतरो
मम
।
मनुजो
मनुजव्याघ्राद्रामादन्यो
न
विद्यते
॥
6
▾
Meaning
Keep
तेनाजय्येन
मुख्येन
राघवेण
महात्मना
।
शपे
ते
जीवनार्हेण
ब्रूहि
यन्मनसेच्छसि
॥
7
▾
Meaning
Keep
यं
मुहूर्तमपश्यंस्तु
न
जीवेयमहं
ध्रुवम्
।
तेन
रामेण
कैकेयि
शपे
ते
वचनक्रियाम्
॥
8
▾
Meaning
Keep
आत्मना
वात्मजैश्चान्यैर्वृणेयं
मनुजर्षभम्
।
तेन
रामेण
कैकेयि
शपे
ते
वचनक्रियाम्
॥
9
▾
Meaning
Keep
भद्रे
हृदयमप्येतदनुमृश्योद्धरस्व
मे
।
एतत्समीक्ष्य
कैकेयि
ब्रूहि
यत्साधु
मन्यसे
॥
10
▾
Meaning
Keep
बलमात्मनि
पश्यन्ती
न
मां
शङ्कितुमर्हसि
।
करिष्यामि
तव
प्रीतिं
सुकृतेनापि
ते
शपे
॥
11
▾
Meaning
Keep
सा
तदर्थमना
देवी
तमभिप्रायमागतम्
।
निर्माध्यस्थ्याच्च
हर्षाच्च
बभाषे
दुर्वचं
वचः
॥
12
▾
Meaning
Keep
तेन
वाक्येन
संहृष्टा
तमभिप्रायमागतम्
।
व्याजहार
महाघोरमभ्यागतमिवान्तकम्
॥
13
▾
Meaning
Keep
यथा
क्रमेण
शपसि
वरं
मम
ददासि
च
।
तच्छृण्वन्तु
त्रयस्त्रिंशद्देवाः
साग्निपुरोगमाः
॥
14
▾
Meaning
Keep
चन्द्रादित्यौ
नभश्चैव
ग्रहा
रात्र्यहनी
दिशः
।
जगच्च
पृथिवी
चेयं
सगन्धर्वा
सराक्षसा
॥
15
▾
Meaning
Keep
निशाचराणि
भूतानि
गृहेषु
गृहदेवताः
।
यानि
चान्यानि
भूतानि
जानीयुर्भाषितं
तव
॥
16
▾
Meaning
Keep
सत्यसन्धो
महातेजाः
धर्मज्ञः
सुसमाहितः
।
वरं
मम
ददात्येष
तन्मे
शृण्वन्तु
देवताः
॥
17
▾
Meaning
Keep
इति
देवी
महेष्वासं
परिगृह्याभिशस्य
च
।
ततः
परमुवाचेदं
वरदं
काममोहितम्
॥
18
▾
Meaning
Keep
स्मर राजन्पुरा वृत्तं तस्मिन् दैवासुरे रणे ।
तत्र चाच्यावयच्छत्रुस्तव जीवितमन्तरा ॥
19
▾
Meaning
Keep
तत्र
चापि
मया
देव
यत्त्वं
समभिरक्षितः
।
जाग्रत्या
यतमानायास्ततो
मे
प्राददा
वरौ
॥
20
▾
Meaning
Keep
तौ
तु
दत्तौ
वरौ
देव
निक्षेपौ
मृगयाम्यहम्
।
तथैव
पृथिवीपाल
सकाशे
सत्यसङ्गर
॥
21
▾
Meaning
Keep
तत्प्रतिश्रुत्य
धर्मेण
न
चेद्दास्यसि
मे
वरम्
।
अद्यैव
हि
प्रहास्यामि
जीवितं
त्वद्विमानिता
॥
22
▾
Meaning
Keep
वाङ्मात्रेण
तदा
राजा
कैकेय्या
स्ववशे
कृतः
।
प्रचस्कन्द
विनाशाय
पाशं
मृग
इवात्मनः
॥
23
▾
Meaning
Keep
ततः
परमुवाचेदं
वरदं
काममोहितम्
।
वरौ
यौ
मे
त्वया
देव
तदा
दत्तौ
महीपते
॥
24
▾
Meaning
Keep
तौ
तावदहमद्यैव
वक्ष्यामि
शृणु
मे
वचः
।
अभिषेकसमारम्भो
राघवस्योपकल्पितः
॥
25
▾
Meaning
Keep
अनेनैवाभिषेकेण
भरतो
मेऽभिषेच्यताम्
।
यो
द्वितीयो
वरो
देव
दत्तः
प्रीतेन
मे
त्वया
॥
26
▾
Meaning
Keep
तदा
दैवासुरे
युद्धे
तस्य
कालोऽयमागतः
।
नव
पञ्च
च
वर्षाणि
दण्डकारण्यमाश्रितः
॥
27
▾
Meaning
Keep
चीराजिनजटाधारी
रामो
भवतु
तापसः
।
भरतो
भजतामद्य
यौवराज्यमकण्टकम्
॥
28
▾
Meaning
Keep
एष
मे
परमः
कामो
दत्तमेव
वरं
वृणे
।
अद्य
चैव
हि
पश्येयं
प्रयान्तं
राघवं
वनम्
॥
29
▾
Meaning
Keep
स
राजराजो
भव
सत्यसङ्गरः
कुलं
च
शीलं
च
हि
रक्ष
जन्म
च
।
परत्रवासे
हि
वदन्त्यनुत्तमं
तपोधनाः
सत्यवचो
हितं
नृणाम्
॥
Previous
←
The Chamber of Wrath
Next
The King's Lament and the Queen's Resolve
→