Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · The Morning of the Consecration
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
ते
तु
तां
रजनीमुष्य
ब्राह्मणा
वेदपारगाः
।
उपतस्थुरुपस्थानं
सह
राजपुरोहिताः
॥
2
▾
Meaning
Keep
अमात्या
बलमुख्याश्च
मुख्या
ये
निगमस्य
च
।
राघवस्याभिषेकार्थे
प्रीयमाणास्तु
सङ्गताः
॥
3
▾
Meaning
Keep
उदिते
विमले
सूर्ये
पुष्ये
चाभ्यागतेऽहनि
।
लग्ने
कर्कटके
प्राप्ते
जन्म
रामस्य
च
स्थिते
॥
4
▾
Meaning
Keep
अभिषेकाय
रामस्य
द्विजेन्द्रैरुपकल्पितम्
।
काञ्चना
जलकुम्भाश्च
भद्रपीठं
स्वलङ्कृतम्
॥
5
▾
Meaning
Keep
रथश्च
सम्यगास्तीर्णो
भास्वता
व्याघ्रचर्मणा
।
गङ्गायमुनयोः
पुण्यात्सङ्गमादाहृतं
जलम्
॥
6
▾
Meaning
Keep
याश्चान्याः
सरितः
पुण्या
ह्रदाः
कूपाः
सरांसि
च
।
प्राग्वाहाश्चोर्ध्ववाहाश्च
तिर्यग्वाहाः
समाहिताः
॥
7
▾
Meaning
Keep
ताभ्यश्चैवाहृतं
तोयं
समुद्रेभ्यश्च
सर्वशः
।
सलाजाः
क्षीरिभिश्छन्नाः
घटाः
काञ्चनराजताः
॥
8
▾
Meaning
Keep
पद्मोत्पलयुता
भान्ति
पूर्णाः
परमवारिणा
।
क्षौद्रं
दधि
घृतं
लाजाः
दर्भाः
सुमनसः
पयः
॥
9
▾
Meaning
Keep
वेश्याश्चैव
शुभाचाराः
सर्वाभरणभूषिताः
।
चन्द्रांशुविकचप्रख्यं
काञ्चनं
रत्नभुषितम्
॥
10
▾
Meaning
Keep
सज्जं
तिष्ठति
रामस्य
वालव्यजनमुत्तमम्
।
चन्द्रमण्डलसङ्काशमातपत्रं
च
पाण्डरम्
॥
11
▾
Meaning
Keep
सज्जं
द्युतिकरं
श्रीमदभिषेकपुरस्कृतम्
।
पाण्डरश्च
वृषः
सज्जः
पाण्डरोऽश्वश्च
सुस्थितः
॥
12
▾
Meaning
Keep
प्रसृतश्च
गजः
श्रीमानौपवाह्यः
प्रतीक्षते
।
अष्टौ
च
कन्या
रुचिराः
सर्वाभरणभूषिताः
॥
13
▾
Meaning
Keep
वादित्राणि
च
सर्वाणि
वन्दिनश्च
तथाऽपरे
।
इक्ष्वाकूणां
यथा
राज्ये
सम्भ्रियेताभिषेचनम्
॥
14
▾
Meaning
Keep
तथा
जातीयमादाय
राजपुत्राभिषेचनम्
।
ते
राजवचनात्तत्र
समवेता
महीपतिम्
॥
15
▾
Meaning
Keep
अपश्यन्तोऽब्रुवन्को
नु
राज्ञो
नः
प्रतिवेदयेत्
।
न
पश्यामश्च
राजानमुदितश्च
दिवाकरः
॥
16
▾
Meaning
Keep
यौवराज्याभिषेकश्च
सज्जो
रामस्य
धीमतः
।
इति
तेषु
ब्रुवाणेषु
सार्वभौमान्महीपतीन्
॥
17
▾
Meaning
Keep
अब्रवीत्तानिदं
वाक्यं
सुमन्त्रो
राजसत्कृतः
।
रामं
राज्ञो
नियोगेन
त्वरया
प्रस्थितोऽस्म्यहम्
॥
18
▾
Meaning
Keep
पूज्या
राज्ञो
भवन्तस्तु
रामस्य
च
विशेषतः
।
अहं
पृच्छामि
वचनात्सुखमायुष्मतामहम्
॥
19
▾
Meaning
Keep
राज्ञः
सम्प्रतिबुध्यस्य
यच्चागमनकारणम्
।
इत्युक्त्वान्तःपुरद्वारमाजगाम
पुराणवित्
॥
20
▾
Meaning
Keep
सदाऽसक्तं
च
तद्वेश्म
सुमन्त्रः
प्रविवेश
ह
।
तुष्टावास्य
तदा
वंशं
प्रविश्य
स
विशाम्पतेः
॥
21
▾
Meaning
Keep
शयनीयं
नरेन्द्रस्य
तदसाद्य
व्यतिष्ठत
।
सोऽत्यासाद्य
तु
तद्वेश्म
तिरस्करणिमन्तरा
॥
22
▾
Meaning
Keep
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव
राघवम्
।
सोमसूर्यौ
च
काकुत्स्थ
शिववैश्रवणावपि
॥
23
▾
Meaning
Keep
वरुणश्चाग्निरिन्द्रश्च
विजयं
प्रदिशन्तु
ते
।
गता
भगवती
रात्रिः
कृतं
कृत्यमिदं
तव
॥
24
▾
Meaning
Keep
बुध्यस्व
नृपशार्दूल
कुरु
कार्यमनन्तरम्
।
ब्राह्मणा
बलमुख्याश्च
नैगमाश्चागता
नृप
॥
25
▾
Meaning
Keep
दर्शनं
प्रतिकाङ्क्षन्ते
प्रतिबुध्यस्व
राघव
।
स्तुवन्तं
तं
तदा
सूतं
सुमन्त्रं
मन्त्रकोविदम्
॥
26
▾
Meaning
Keep
प्रतिबुध्य
ततो
राजा
इदं
वचनमब्रवीत्
।
राममानय
सूतेति
यदस्यभिहितोऽनया
॥
27
▾
Meaning
Keep
किमिदं
कारणं
येन
ममाज्ञा
प्रतिहन्यते
।
न
चैव
सम्प्रसुप्तोऽहमानयेहाशु
राघवम्
॥
28
▾
Meaning
Keep
इति
राजा
दशरथः
सूतं
तत्रान्वशात्पुनः
।
स
राजवचनं
श्रुत्वा
शिरसा
प्रणिपत्य
तम्
॥
29
▾
Meaning
Keep
निर्जगाम
नृपावासान्मन्यमानः
प्रियं
महत्
।
प्रपन्नो
राजमार्गं
च
पताकाध्वजशोभितम्
॥
30
▾
Meaning
Keep
हृष्टः
प्रमुदितः
सूतो
जगामाशु
विलोकयन्
।
स
सूतस्तत्र
शुश्राव
रामाधिकरणाः
कथाः
॥
31
▾
Meaning
Keep
अभिषेचनसम्युक्ताः
सर्वलोकस्य
हृष्टवत्
।
ततो
ददर्श
रुचिरं
कैलासशिखरप्रभम्
॥
32
▾
Meaning
Keep
रामवेश्म
सुमन्त्रस्तु
शक्रवेश्मसमप्रभम्
।
महाकवाटविहितं
वितर्दिशतशोभितम्
॥
33
▾
Meaning
Keep
काञ्चनप्रतिमैकाग्रं
मणिविद्रुमशोभितम्
।
शारदाभ्रघनप्रख्यं
दीप्तं
मेरुगुहोपमम्
॥
34
▾
Meaning
Keep
मणिभिर्वरमाल्यानां
सुमहद्भिरलङ्कृतम्
।
मुक्तामणिभिराकीर्णं
चन्दनागरुधूपितम्
॥
35
▾
Meaning
Keep
गन्धान्मनोज्ञान्विसृजद्दार्दुरं
शिखरं
यथा
।
सारसैश्च
मयूरैश्च
निनदद्भिर्विराजितम्
॥
36
▾
Meaning
Keep
सुकृतेहामृगाकीर्णं
सुकीर्णं
भित्तिभिस्तथा
।
मनश्चक्षुश्च
भूतानामाददत्तिग्मतेजसा
॥
37
▾
Meaning
Keep
चन्द्रभास्करसङ्काशं
कुबेरभवनोपमम्
।
महेन्द्रधामप्रतिमं
नानापक्षिसमाकुलम्
॥
38
▾
Meaning
Keep
मेरुशृङ्गसमं
सूतो
रामवेश्म
ददर्श
ह
।
उपस्थितैः
समाकीर्णं
जनैरञ्जलिकारिभिः
॥
39
▾
Meaning
Keep
उपादाय
समाक्रान्तैस्तथा
जानपदैर्जनैः
।
रामाभिषेकसुमुखैरुन्मुखैः
समलङ्कृतम्
॥
40
▾
Meaning
Keep
महामेघसमप्रख्यमुदग्रं
सुविभूषितम्
।
नानारत्नसमाकीर्णं
कुब्जकैरातकावृतम्
॥
41
▾
Meaning
Keep
स
वाजियुक्तेन
रथेन
सारथि-
-र्नराकुलं
राजकुलं
विलोकयन्
।
वरूथिना
रामगृहाभिपातिना
पुरस्य
सर्वस्य
मनांसि
हर्षयन्
॥
42
▾
Meaning
Keep
ततः
समासाद्य
महाधनं
मह-
-त्प्रहृष्टरोमा
स
बभूव
सारथिः
।
मृगैर्मयूरैश्च
समाकुलोल्बणं
गृहं
वरार्हस्य
शचीपतेरिव
॥
43
▾
Meaning
Keep
स
तत्र
कैलासनिभाः
स्वलङ्कृताः
प्रविश्य
कक्ष्यास्त्रिदशालयोपमाः
।
प्रियान्नरान्राममते
स्थितान्बहू-
-नपोह्य
शुद्धान्तमुपस्थितो
रथी
॥
44
▾
Meaning
Keep
स
तत्र
शुश्राव
च
हर्षयुक्ताः
रामाभिषेकार्थयुता
जनानाम्
।
नरेन्द्रसूनोरभिमङ्गलार्थाः
सर्वस्य
लोकस्य
गिरः
प्रहृष्टः
॥
45
▾
Meaning
Keep
महेन्द्रसद्मप्रतिमं
तु
वेश्म
रामस्य
रम्यं
मृगपक्षिजुष्टम्
।
ददर्श
मेरोरिव
शृङ्गमुच्चं
विभ्राजमानं
प्रभया
सुमन्त्रः
॥
46
▾
Meaning
Keep
उपस्थितैरञ्जलिकारकैश्च
सोपायनैर्जानपदैश्च
मर्त्यः
।
कोट्या
परार्धैश्च
विमुक्तयानैः
समाकुलं
द्वारपथं
ददर्श
॥
47
▾
Meaning
Keep
ततो
महामेघमहीधराभं
प्रभिन्नमत्यङ्कुशमप्रसह्यम्
।
रामौपवाह्यं
रुचिरं
ददर्श
शत्रुंजयं
नागमुदग्रकायम्
॥
48
▾
Meaning
Keep
स्वलङ्कृतान्साश्वरथान्सकुञ्जरा-
-नमात्यमुख्यान्
शतशश्च
वल्लभान्
।
व्यपोह्य
सूतः
सहितान्समन्ततः
समृद्धमन्तःपुरमाविवेश
॥
49
▾
Meaning
Keep
तदद्रिकूटाचलमेघसन्निभं
महाविमानोत्तमवेश्मसङ्घवत्
।
अवार्यमाणः
प्रविवेश
सारथिः
प्रभूतरत्नं
मकरो
यथाऽर्णवम्
॥
Previous
←
The Awakening of the King
Next
Sumantra Summons Rāma
→