Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · Sumantra Summons Rāma
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
स
तदन्तःपुरद्वारं
समतीत्य
जनाकुलम्
।
प्रविविक्तां
ततः
कक्ष्यामाससाद
पुराणवित्
॥
2
▾
Meaning
Keep
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः
।
अप्रमादिभिरेकाग्रैः
स्वनुरक्तैरधिष्ठिताम्
॥
3
▾
Meaning
Keep
तत्र
काषायिणो
वृद्धान्वेत्रपाणीन्
स्वलङ्कृतान्
।
ददर्श
विष्ठितान्द्वारि
स्त्र्यध्यक्षान्सुसमाहितान्
॥
4
▾
Meaning
Keep
ते
समीक्ष्य
समायान्तं
रामप्रियचिकीर्षवः
।
सहसोत्पतिताः
सर्वे
स्वासनेभ्यः
ससम्भ्रमाः
॥
5
▾
Meaning
Keep
तानुवाच
विनीतात्मा
सूतपुत्रः
प्रदक्षिणः
।
क्षिप्रमाख्यात
रामाय
सुमन्त्रो
द्वारि
तिष्ठति
॥
6
▾
Meaning
Keep
ते
राममुपसङ्गम्य
भर्तुः
प्रियचिकीर्षवः
।
सहभार्याय
रामाय
क्षिप्रमेवाचचक्षिरे
॥
7
▾
Meaning
Keep
प्रतिवेदितमाज्ञाय
सूतमभ्यन्तरं
पितुः
।
तत्रैवानाययामास
राघवप्रियकाम्यया
॥
8
▾
Meaning
Keep
तं
वैश्रवणसङ्काशमुपविष्टं
स्वलङ्कृतम्
।
ददर्श
सूतः
पर्यङ्के
सौवर्णे
सोत्तरच्छदे
॥
9
▾
Meaning
Keep
वराहरुधिराभेण
शुचिना
च
सुगन्धिना
।
अनुलिप्तं
परार्ध्येन
चन्दनेन
परन्तपम्
॥
10
▾
Meaning
Keep
स्थितया
पार्श्वतश्चापि
वालव्यजनहस्तया
।
उपेतं
सीतया
भूतश्चित्रया
शशिनं
यथा
॥
11
▾
Meaning
Keep
तं
तपन्तमिवादित्यमुपपन्नं
स्वतेजसा
।
ववन्दे
वरदं
वन्दी
विनयज्ञो
विनीतवत्
॥
12
▾
Meaning
Keep
प्राञ्जलिस्तु
सुखं
पृष्ट्वा
विहारशयनासने
।
राजपुत्रमुवाचेदं
सुमन्त्रो
राजसत्कृतः
॥
13
▾
Meaning
Keep
कौसल्या
सुप्रजा
राम
पिता
त्वां
द्रष्टुमिच्छति
।
महिष्या
सह
कैकेय्या
गम्यतां
तत्र
मा
चिरम्
॥
14
▾
Meaning
Keep
एवमुक्तस्तु
संहृष्टो
नरसिंहो
महाद्युतिः
।
ततः
सम्मानयामास
सीतामिदमुवाच
ह
॥
15
▾
Meaning
Keep
देवि
देवश्च
देवी
च
समागम्य
मदन्तरे
।
मन्त्रयेते
ध्रुवं
किञ्चिदभिषेचनसंहितम्
॥
16
▾
Meaning
Keep
लक्षयित्वा
ह्यभिप्रायं
प्रियकामा
सुदक्षिणा
।
सञ्चोदयति
राजानं
मदर्थं
मदिरेक्षणे
॥
17
▾
Meaning
Keep
सा
प्रहृष्टा
महाराजं
हितकामानुवर्तिनी
।
जननी
चार्थकामा
मे
केकयाधिपतेः
सुता
॥
18
▾
Meaning
Keep
दिष्ट्या
खलु
महाराजो
महिष्या
प्रियया
सह
।
सुमन्त्रं
प्राहिणोद्दूतमर्थकामकरं
मम
॥
19
▾
Meaning
Keep
यादृशी
परिषत्तत्र
तादृशो
दूत
आगतः
।
ध्रुवमद्यैव
मां
राजा
यौवराज्येऽभिषेक्ष्यति
॥
20
▾
Meaning
Keep
अहं
शीघ्रमितो
गत्वा
द्रक्ष्यामि
च
महीपतिम्
।
सह
त्वं
परिवारेण
सुखमास्व
रामस्व
च
॥
21
▾
Meaning
Keep
पतिसम्मानिता
सीता
भर्तारमसितेक्षणा
।
आद्वारमनुवव्राज
मङ्गलान्यभिदध्युषी
॥
22
▾
Meaning
Keep
राज्यं
द्विजातिभिर्जुष्टं
राजसूयाभिषेचनम्
।
कर्तुमर्हति
ते
राजा
वासवस्येव
लोककृत्
॥
23
▾
Meaning
Keep
दीक्षितं
व्रतसम्पन्नं
वराजिनधरं
शुचिम्
।
कुरङ्गशृङ्गपाणिं
च
पश्यन्ती
त्वां
भजाम्यहम्
॥
24
▾
Meaning
Keep
पूर्वां
दिशं
वज्रधरो
दक्षिणां
पातु
ते
यमः
।
वरुणः
पश्चिमामाशां
धनेशस्तूत्तरां
दिशम्
॥
25
▾
Meaning
Keep
अथ
सीतामनुज्ञाप्य
कृतकौतुकमङ्गलः
।
निश्चक्राम
सुमन्त्रेण
सह
रामो
निवेशनात्
॥
26
▾
Meaning
Keep
पर्वतादिव
निष्क्रम्य
सिंहो
गिरिगुहाशयः
।
लक्ष्मणं
द्वारि
सोऽपश्यत्प्रह्वाञ्जलिपुटं
स्थितम्
॥
27
▾
Meaning
Keep
अथ
मध्यमकक्ष्यायां
समागम्य
सुहृज्जनैः
।
स
सर्वानर्थिनो
दृष्ट्वा
समेत्य
प्रतिनन्द्य
च
॥
28
▾
Meaning
Keep
ततः
पावकसङ्काशमारुरोह
रथोत्तमम्
।
वैयाघ्रं
पुरुषव्याघ्रो
राजतं
राजनन्दनः
॥
29
▾
Meaning
Keep
मेघनादमसम्बाधं
मणिहेमविभूषितम्
।
मुष्णन्तमिव
चक्षूंषि
प्रभया
हेमवर्चसम्
॥
30
▾
Meaning
Keep
करेणुशिशुकल्पैश्च
युक्तं
परमवाजिभिः
।
हरियुक्तं
सहस्राक्षो
रथमिन्द्र
इवाशुगम्
॥
31
▾
Meaning
Keep
प्रययौ
तूर्णमास्थाय
राघवो
ज्वलितः
श्रिया
।
स
पर्जन्य
इवाकाशे
स्वनवानभिनादयन्
॥
32
▾
Meaning
Keep
निकेतान्निर्ययौ
श्रीमान्महेन्द्रादिव
चन्द्रमाः
।
छत्रचामरपाणिस्तु
लक्ष्मणो
राघवानुजः
॥
33
▾
Meaning
Keep
जुगोप
भ्रातरं
भ्राता
रथमास्थाय
पृष्ठतः
।
ततो
हलहलाशब्दस्तुमुलः
समजायत
॥
34
▾
Meaning
Keep
तस्य
निष्क्रममाणस्य
जनौघस्य
समन्ततः
।
ततो
हयवरा
मुख्याः
नागाश्च
गिरिसन्निभाः
॥
35
▾
Meaning
Keep
अनुजग्मुस्तदा
रामं
शतशोऽथ
सहस्रशः
।
अग्रतश्चास्य
सन्नद्धाश्चन्दनागरुरूषिताः
॥
36
▾
Meaning
Keep
खड्गचापधराः
शूराः
जग्मुराशंसवो
जनाः
।
ततो
वादित्रशब्दास्तु
स्तुतिशब्दाश्च
वन्दिनाम्
॥
37
▾
Meaning
Keep
सिंहनादाश्च
शूराणां
तथा
शुश्रुविरे
पथि
।
हर्म्यवातायनस्थाभिर्भूषिताभिः
समन्ततः
॥
38
▾
Meaning
Keep
कीर्यमाणः
सुपुष्पौघैर्ययौ
स्त्रीभिररिन्दमः
।
रामं
सर्वानवद्याङ्ग्यो
रामपिप्रीषया
ततः
॥
39
▾
Meaning
Keep
वचोभिरग्र्यैर्हर्म्यस्थाः
क्षितिस्थाश्च
ववन्दिरे
।
नूनं
नन्दति
ते
माता
कौसल्या
मातृनन्दन
॥
40
▾
Meaning
Keep
पश्यन्ती
सिद्धयात्रं
त्वां
पित्र्यं
राज्यमवस्थितम्
।
सर्वसीमन्तिनीभ्यश्च
सीतां
सीमन्तिनीं
वराम्
॥
41
▾
Meaning
Keep
अमन्यन्त
हि
ता
नार्यो
रामस्य
हृदयप्रियाम्
।
तया
सुचरितं
देव्या
पुरा
नूनं
महत्तपः
॥
42
▾
Meaning
Keep
रोहिणीव
शशाङ्केन
रामसम्योगमाप
या
।
इति
प्रासादशृङ्गेषु
प्रमदाभिर्नरोत्तमः
॥
43
▾
Meaning
Keep
शुश्राव
राजमार्गस्थः
प्रिया
वाच
उदाहृताः
।
आत्मसम्पूजनैः
शृण्वन्ययौ
रामो
महापथम्
॥
44
▾
Meaning
Keep
स
राघवस्तत्र
कथाप्रपञ्चान्
शुश्राव
लोकस्य
समागतस्य
।
आत्माधिकारा
विविधाश्च
वाचः
प्रहृष्टरूपस्य
पुरो
जनस्य
॥
45
▾
Meaning
Keep
एष
श्रियं
गच्छति
राघवोऽद्य
राजप्रसादाद्विपुलां
गमिष्यन्
।
एते
वयं
सर्वसमृद्धकामाः
येषामयं
नो
भविता
प्रशास्ता
॥
46
▾
Meaning
Keep
लाभो
जनस्यास्य
यदेष
सर्वं
प्रपत्स्यते
राष्ट्रमिदं
चिराय
।
न
ह्यप्रियं
किञ्चन
जातु
कश्चि-
-त्पश्येन्न
दुःखं
मनुजाधिपेऽस्मिन्
॥
47
▾
Meaning
Keep
स
घोषवद्भिश्च
हयैर्मतङ्गजैः
पुरःसरैः
स्वस्तिकसूतमागधैः
।
महीयमानः
प्रवरैश्च
वादकै-
-रभिष्टुतो
वैश्रवणो
यथा
ययौ
॥
48
▾
Meaning
Keep
करेणुमातङ्गरथाश्वसङ्कुलं
महाजनौघप्रतिपूर्णचत्वरम्
।
प्रभूतरत्नं
बहुपण्यसञ्चयं
ददर्श
रामो
रुचिरं
महापथम्
॥
Previous
←
The Morning of the Consecration
Next
The Highway to the Palace
→