Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · Rāma’s Submission and Departure
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
तदप्रियममित्रघ्नो
वचनं
मरणोपमम्
।
श्रुत्वा
न
विव्यथे
रामः
कैकेयीं
चेदमब्रवीत्
॥
2
▾
Meaning
Keep
एवमस्तु
गमिष्यामि
वनं
वस्तुमहं
त्वितः
।
जटाऽजिनधरो
राज्ञः
प्रतिज्ञामनुपालयन्
॥
3
▾
Meaning
Keep
इदं
तु
ज्ञातुमिच्छामि
किमर्थं
मां
महीपतिः
।
नाभिनन्दति
दुर्धर्षो
यथापुरमरिन्दमः
॥
4
▾
Meaning
Keep
मन्युर्न
च
त्वया
कार्यो
देवि
ब्रूमि
तवाग्रतः
।
यास्यामि
भव
सुप्रीता
वनं
चीरजटाधरः
॥
5
▾
Meaning
Keep
हितेन
गुरुणा
पित्रा
कृतज्ञेन
नृपेण
च
।
नियुज्यमानो
विस्रब्धः
किं
न
कुर्यामहं
प्रियम्
॥
6
▾
Meaning
Keep
अलीकं
मानसं
त्वेकं
हृदयं
दहतीव
मे
।
स्वयं
यन्नाह
मां
राजा
भरतस्याभिषेचनम्
॥
7
▾
Meaning
Keep
अहं
हि
सीतां
राज्यं
च
प्राणानिष्टान्धनानि
च
।
हृष्टो
भ्रात्रे
स्वयं
दद्यां
भरतायाप्रचोदितः
॥
8
▾
Meaning
Keep
किं
पुनर्मनुजेन्द्रेण
स्वयं
पित्रा
प्रचोदितः
।
तव
च
प्रियकामार्थं
प्रतिज्ञामनुपालयन्
॥
9
▾
Meaning
Keep
तदाश्वासय
हीमं
त्वं
किं
न्विदं
यन्महीपतिः
।
वसुधासक्तनयनो
मन्दमश्रूणि
मुञ्चति
॥
10
▾
Meaning
Keep
गच्छन्तु
चैवानयितुं
दूताः
शीघ्रजवैर्हयैः
।
भरतं
मातुलकुलादद्यैव
नृपशासनात्
॥
11
▾
Meaning
Keep
दण्डकारण्यमेषोऽहमितो
गच्छामि
सत्वरः
।
अविचार्य
पितुर्वाक्यं
समा
वस्तुं
चतुर्दश
॥
12
▾
Meaning
Keep
सा
हृष्टा
तस्य
तद्वाक्यं
श्रुत्वा
रामस्य
कैकयी
।
प्रस्थानं
श्रद्दधाना
हि
त्वरयामास
राघवम्
॥
13
▾
Meaning
Keep
एवं
भवतु
यास्यन्ति
दूताः
शीघ्रजवैर्हयैः
।
भरतं
मातुलकुलादुपावर्तयितुं
नराः
॥
14
▾
Meaning
Keep
तव
त्वहं
क्षमं
मन्ये
नोत्सुकस्य
विलम्बनम्
।
राम
तस्मादितः
शीघ्रं
वनं
त्वं
गन्तुमर्हसि
॥
15
▾
Meaning
Keep
व्रीडाऽन्वितः
स्वयं
यच्च
नृपस्त्वां
नाभिभाषते
।
नैतत्किञ्चिन्नरश्रेष्ठ
मन्युरेषोऽपनीयताम्
॥
16
▾
Meaning
Keep
यावत्त्वं
न
वनं
यातः
पुरादस्मादभित्वरन्
।
पिता
तावन्न
ते
राम
स्नास्यते
भोक्ष्यतेऽपि
वा
॥
17
▾
Meaning
Keep
धिक्कष्टमिति
निश्वस्य
राजा
शोकपरिप्लुतः
।
मूर्छितो
न्यपतत्तस्मिन्पर्यङ्के
हेमभूषिते
॥
18
▾
Meaning
Keep
रामोऽप्युत्थाप्य
राजानं
कैकेय्याऽभिप्रचोदितः
।
कशयेवाहतो
वाजी
वनं
गन्तुं
कृतत्वरः
॥
19
▾
Meaning
Keep
तदप्रियमनार्यायाः
वचनं
दारुणोदयम्
।
श्रुत्वा
गतव्यथो
रामः
कैकेयीं
वाक्यमब्रवीत्
॥
20
▾
Meaning
Keep
नाहमर्थपरो
देवि
लोकमावस्तुमुत्सहे
।
विद्धि
मामृषिभिस्तुल्यं
केवलं
धर्ममास्थितम्
॥
21
▾
Meaning
Keep
यदत्रभवतः
किञ्चिच्छक्यं
कर्तुं
प्रियं
मया
।
प्राणानपि
परित्यज्य
सर्वथा
कृतमेव
तत्
॥
22
▾
Meaning
Keep
न
ह्यतो
धर्मचरणं
किञ्चिदस्ति
महत्तरम्
।
यथा
पितरि
शुश्रूषा
तस्य
वा
वचनक्रिया
॥
23
▾
Meaning
Keep
अनुक्तोऽप्यत्रभवता
भवत्या
वचनादहम्
।
वने
वत्स्यामि
विजने
वर्षाणीह
चतुर्दश
॥
24
▾
Meaning
Keep
न
नूनं
मयि
कैकेयि
किञ्चिदाशंससे
गुणम्
।
यद्राजानमवोचस्त्वं
ममेश्वरतरा
सती
॥
25
▾
Meaning
Keep
यावन्मातरमापृच्छे
सीतां
चानुनयाम्यहम्
।
ततोऽद्यैव
गमिष्यामि
दण्डकानां
महद्वनम्
॥
26
▾
Meaning
Keep
भरतः
पालयेद्राज्यं
शुश्रूषेच्च
पितुर्यथा
।
तथा
भवत्या
कर्तव्यं
स
हि
धर्मः
सनातनः
॥
27
▾
Meaning
Keep
स
रामस्य
वचः
श्रुत्वा
भृशं
दुःखहतः
पिता
।
शोकादशक्नुवन्बाष्पं
प्ररुरोद
महास्वनम्
॥
28
▾
Meaning
Keep
वन्दित्वा
चरणौ
रामो
विसञ्ज्ञस्य
पितुस्तदा
।
कैकेय्याश्चाप्यनार्यायाः
निष्पपात
महाद्युतिः
॥
29
▾
Meaning
Keep
स
रामः
पितरं
कृत्वा
कैकेयीं
च
प्रदक्षिणम्
।
निष्क्रम्यान्तःपुरात्तस्मात्स्वं
ददर्श
सुहृज्जनम्
॥
30
▾
Meaning
Keep
तं
बाष्पपरिपूर्णाक्षः
पृष्ठतोऽनुजगाम
ह
।
लक्ष्मणः
परमक्रुद्धः
सुमित्राऽऽनन्दवर्धनः
॥
31
▾
Meaning
Keep
आभिषेचनिकं
भाण्डं
कृत्वा
रामः
प्रदक्षिणम्
।
शनैर्जगाम
सापेक्षो
दृष्टिं
तत्राविचालयन्
॥
32
▾
Meaning
Keep
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति ।
लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षपा ॥
33
▾
Meaning
Keep
न
वनं
गन्तुकामस्य
त्यजतश्च
वसुन्धराम्
।
सर्वलोकातिगस्येव
लक्ष्यते
चित्तविक्रिया
॥
34
▾
Meaning
Keep
प्रतिषिध्य
शुभं
छत्रं
व्यजने
च
स्वलङ्कृते
।
विसर्जयित्वा
स्वजनं
रथं
पौरांस्तथा
जनान्
॥
35
▾
Meaning
Keep
धारयन्मनसा
दुःखमिन्द्रियाणि
निगृह्य
च
।
प्रविवेशात्मवान्वेश्म
मातुरप्रियशंसिवान्
॥
36
▾
Meaning
Keep
सर्वो
ह्यभिजनः
श्रीमान्
श्रीमतः
सत्यवादिनः
।
नालक्षयत
रामस्य
किञ्चिदाकारमानने
॥
37
▾
Meaning
Keep
उचितं
च
महाबाहुर्न
जहौ
हर्षमात्मनः
।
शारदः
समुदीर्णांशुश्चन्द्रस्तेज
इवात्मजम्
॥
38
▾
Meaning
Keep
वाचा
मधुरया
रामः
सर्वं
सम्मानयञ्जनम्
।
मातुः
समीपं
धर्मात्मा
प्रविवेश
महायशाः
॥
39
▾
Meaning
Keep
तं
गुणैः
समतां
प्राप्तो
भ्राता
विपुलविक्रमः
।
सौमित्रिरनुवव्राज
धारयन्दुःखमात्मजम्
॥
40
▾
Meaning
Keep
प्रविश्य
वेश्मातिभृशं
मुदाऽन्वितं
समीक्ष्य
तां
चार्थविपत्तिमागताम्
।
न
चैव
रामोऽत्र
जगाम
विक्रियां
सुहृज्जनस्यात्मविपत्तिशङ्कया
॥
Previous
←
Kaikeyī's Demand
Next
Kausalyā's Grief
→