Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Vālmīki Rāmāyaṇa · Kaikeyī's Demand
Vālmīki Rāmāyaṇa
›
Kāṇḍa 2
Ayodhyā
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
▾
Meaning
Keep
स
ददर्शासने
रामो
निषण्णं
पितरं
शुभे
।
कैकेयीसहितं
दीनं
मुखेन
परिशुष्यता
॥
2
▾
Meaning
Keep
स
पितुश्चरणौ
पूर्वमभिवाद्य
विनीतवत्
।
ततो
ववन्दे
चरणौ
कैकेय्याः
सुसमाहितः
॥
3
▾
Meaning
Keep
रामेत्युक्त्वा
च
वचनं
बाष्पपर्याकुलेक्षणः
।
शशाक
नृपतिर्दीनो
नेक्षितुं
नाभिभाषितुम्
॥
4
▾
Meaning
Keep
तदपूर्वं
नरपतेर्दृष्ट्वा
रूपं
भयावहम्
।
रामोऽपि
भयमापन्नः
पदा
स्पृष्ट्वेव
पन्नगम्
॥
5
▾
Meaning
Keep
इन्द्रियैरप्रहृष्टैस्तं
शोकसन्तापकर्शितम्
।
निःश्वसन्तं
महाराजं
व्यथिताकुलचेतसम्
॥
6
▾
Meaning
Keep
ऊर्मिमालिनमक्षोभ्यं
क्षुभ्यन्तमिव
सागरम्
।
उपप्लुतमिवादित्यमुक्तानृतमृषिं
यथा
॥
7
▾
Meaning
Keep
अचिन्त्यकल्पं
हि
पितुस्तं
शोकमुपधारयन्
।
बभूव
संरब्धतरः
समुद्र
इव
पर्वणि
॥
8
▾
Meaning
Keep
चिन्तयामास
च
तदा
रामः
पितृहिते
रतः
।
किं
स्विदद्यैव
नृपतिर्न
मां
प्रत्यभिनन्दति
॥
9
▾
Meaning
Keep
अन्यदा
मां
पिता
दृष्ट्वा
कुपितोऽपि
प्रसीदति
।
तस्य
मामद्य
सम्प्रेक्ष्य
किमायासः
प्रवर्तते
॥
10
▾
Meaning
Keep
स
दीन
इव
शोकार्तो
विषण्णवदनद्युतिः
।
कैकेयीमभिवाद्यैव
रामो
वचनमब्रवीत्
॥
11
▾
Meaning
Keep
कच्चिन्मया
नापराद्धमज्ञानाद्येन
मे
पिता
।
कुपितस्तन्ममाचक्ष्व
त्वं
चैवैनं
प्रसादय
॥
12
▾
Meaning
Keep
अप्रसन्नमनाः
किं
नु
सदा
मां
प्रति
वत्सलः
।
विवर्णवदनो
दीनो
न
हि
मामभिभाषते
॥
13
▾
Meaning
Keep
शारीरो
मानसो
वाऽपि
कच्चिदेनं
न
बाधते
।
सन्तापो
वाऽभितापो
वा
दुर्लभं
हि
सदा
सुखम्
॥
14
▾
Meaning
Keep
कच्चिन्न
किञ्चिद्भरते
कुमारे
प्रियदर्शने
।
शत्रुघ्ने
वा
महासत्त्वे
मातॄणां
वा
ममाशुभम्
॥
15
▾
Meaning
Keep
अतोषयन्महाराजमकुर्वन्वा
पितुर्वचः
।
मुहूर्तमपि
नेच्छेयं
जीवितुं
कुपिते
नृपे
॥
16
▾
Meaning
Keep
यतोमूलं
नरः
पश्येत्प्रादुर्भावमिहात्मनः
।
कथं
तस्मिन्न
वर्तेत
प्रत्यक्षे
सति
दैवते
॥
17
▾
Meaning
Keep
कच्चित्ते
परुषं
किञ्चिदभिमानात्पिता
मम
।
उक्तो
भवत्या
कोपेन
यत्रास्य
लुलितं
मनः
॥
18
▾
Meaning
Keep
एतदाचक्ष्व
मे
देवि
तत्त्वेन
परिपृच्छतः
।
किं
निमित्तमपूर्वोऽयं
विकारो
मनुजाधिपे
॥
19
▾
Meaning
Keep
एवमुक्ता
तु
कैकेयी
राघवेण
महात्मना
।
उवाचेदं
सुनिर्लज्जा
धृष्टमात्महितं
वचः
॥
20
▾
Meaning
Keep
न
राजा
कुपितो
राम
व्यसनं
नास्य
किञ्चन
।
किञ्चिन्मनोगतं
त्वस्य
त्वद्भयान्नाभिभाषते
॥
21
▾
Meaning
Keep
प्रियं
त्वामप्रियं
वक्तुं
वाणी
नास्योपवर्तते
।
तदवश्यं
त्वया
कार्यं
यदनेनाश्रुतं
मम
॥
22
▾
Meaning
Keep
एष
मह्यं
वरं
दत्त्वा
पुरा
मामभिपूज्य
च
।
स
पश्चात्तप्यते
राजा
यथाऽन्यः
प्राकृतस्तथा
॥
23
▾
Meaning
Keep
अतिसृज्य
ददानीति
वरं
मम
विशाम्पतिः
।
स
निरर्थं
गतजले
सेतुं
बन्धितुमिच्छति
॥
24
▾
Meaning
Keep
धर्ममूलमिदं
राम
विदितं
च
सतामपि
।
तत्सत्यं
न
त्यजेद्राजा
कुपितस्त्वत्कृते
यथा
॥
25
▾
Meaning
Keep
यदि
तद्वक्ष्यते
राजा
शुभं
वा
यदि
वाऽशुभम्
।
करिष्यसि
ततः
सर्वमाख्यास्यामि
पुनस्त्वहम्
॥
26
▾
Meaning
Keep
यदि
त्वभिहितं
राज्ञा
त्वयि
तन्न
विपत्स्यते
।
ततोऽहमभिधास्यामि
न
ह्येष
त्वयि
वक्ष्यति
॥
27
▾
Meaning
Keep
एतत्तु
वचनं
श्रुत्वा
कैकेय्या
समुदाहृतम्
।
उवाच
व्यथितो
रामस्तां
देवीं
नृपसन्निधौ
॥
28
▾
Meaning
Keep
अहो
धिङ्नार्हसे
देवि
वक्तुं
मामीदृशं
वचः
।
अहं
हि
वचनाद्राज्ञः
पतेयमपि
पावके
॥
29
▾
Meaning
Keep
भक्षयेयं
विषं
तीक्ष्णं
मज्जेयमपि
चार्णवे
।
नियुक्तो
गुरुणा
पित्रा
नृपेण
च
हितेन
च
॥
30
▾
Meaning
Keep
तद्ब्रूहि
वचनं
देवि
राज्ञो
यदभिकाङ्क्षितम्
।
करिष्ये
प्रतिजाने
च
रामो
द्विर्नाभिभाषते
॥
31
▾
Meaning
Keep
तमार्जवसमायुक्तमनार्या
सत्यवादिनम्
।
उवाच
रामं
कैकेयी
वचनं
भृशदारुणम्
॥
32
▾
Meaning
Keep
पुरा
दैवासुरे
युद्धे
पित्रा
ते
मम
राघव
।
रक्षितेन
वरौ
दत्तौ
सशल्येन
महारणे
॥
33
▾
Meaning
Keep
तत्र
मे
याचितो
राजा
भरतस्याभिषेचनम्
।
गमनं
दण्डकारण्ये
तव
चाद्यैव
राघव
॥
34
▾
Meaning
Keep
यदि
सत्यप्रतिज्ञं
त्वं
पितरं
कर्तुमिच्छसि
।
आत्मानं
च
नरश्रेष्ठ
मम
वाक्यमिदं
शृणु
॥
35
▾
Meaning
Keep
सन्निदेशे
पितुस्तिष्ठ
यथाऽनेन
प्रतिश्रुतम्
।
त्वयाऽरण्यं
प्रवेष्टव्यं
नव
वर्षाणि
पञ्च
च
॥
36
▾
Meaning
Keep
भरतस्त्वभिषिच्येत
यदेतदभिषेचनम्
।
त्वदर्थे
विहितं
राज्ञा
तेन
सर्वेण
राघव
॥
37
▾
Meaning
Keep
सप्त
सप्त
च
वर्षाणि
दण्डकारण्यमाश्रितः
।
अभिषेकमिमं
त्यक्त्वा
जटाजिनधरो
वस
॥
38
▾
Meaning
Keep
भरतः
कोसलपुरे
प्रशास्तु
वसुधामिमाम्
।
नानारत्नसमाकीर्णां
सवाजिरथकुञ्जराम्
॥
39
▾
Meaning
Keep
एतेन
त्वां
नरेन्द्रोऽयं
कारुण्येन
समाप्लुतः
।
शोकसङ्क्लिष्टवदनो
न
शक्नोति
निरीक्षितुम्
॥
40
▾
Meaning
Keep
एतत्कुरु
नरेन्द्रस्य
वचनं
रघुनन्दन
।
सत्येन
महता
राम
तारयस्व
नरेश्वरम्
॥
41
▾
Meaning
Keep
इतीव
तस्यां
परुषं
वदन्त्यां
न
चैव
रामः
प्रविवेश
शोकम्
।
प्रविव्यथे
चापि
महानुभावो
राजा
तु
पुत्रव्यसनाभितप्तः
॥
Previous
←
The Highway to the Palace
Next
Rāma’s Submission and Departure
→