Vālmīki Rāmāyaṇa · The Splendour of Citrakūṭa
Tap a verse for its meaning
- 1गिरौ गिरिवनप्रियः ।वैदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं ॥
- 2अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।भार्याममरसङ्काशः शचीमिव पुरन्दरः ॥
- 3न राज्याद्भ्रंशनं भद्रे न सुहृद्भि ।मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥
- 4पश्येममचलं भद्रे नानाद्विजगणायुतम् ।शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम् ॥
- 5केचि केचित् क्षतजसन्निभाः ।पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥
- 6पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः ।विराजन्तेऽचलेन्द्रस्य धातुविभूषिताः ॥
- 7नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः ।अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥
- 8आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः ।अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुक ॥
- 9काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥
- 10पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ।एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥
- 11शैलप्रस्थेषु रम्येषु पश्येमान् । द्वन्द्वशो भद्रे रममाणान्मनस्विनः ॥
- 12खड्गांश्च प्रवराण्यम्बराणि च ।पश्य विद्याधरस्त्रीणां क्रीडोद्धेशान् मनोरमान् ॥
- 13जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥
- 14गुहासमीरणो गन्धान् नानापुष्पभवान्वहन् ।घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥
- 15यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते ।लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥
- 16बहुपुष्पफले रम्ये नानाद्विजगणायुते ।विचित्रशिखरे ह्यस्मिन् ॥
- 17अनेन वनवासेन मया प्राप्तं ।पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥
- 18रमसे कच्चिच्चित्रकूटे मया सह ।पश्यन्ती विविधान्भावान् ॥
- 19इदमेवामृतं प्राहुः राज्ञि राजर्षयः परे ।वनवासं प्रेत्य मे प्रपितामहाः ॥
- 20शैलस्य शोभन्ते विशालाः शतशोऽभितः ।बहुला बहुलैर्वर्णै ॥
- 21निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । स्वप्रभालक्ष्या भ्राजमानाः सहस्रशः ॥
- 22केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः ।केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥
- 23भित्त्वेव वसुधां भाति चित्रकूटः ।चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शुभः ॥
- 24कुष्ठपुन्नागस्थगर ।कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥
- 25मृदिताश्चापविद्धाश्च दृश्यन्ते ।कामिभिर्वनिते पश्य फलानि विविधानि च ॥
- 26वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥
- 27इमं तु कालं वनिते विजह्रिवान्त्वया च सीते सह लक्ष्मणेन च ।रतिं प्रपत्स्ये कुलधर्मवर्धनीं स्वैर्नियमैः परैः स्थितः ॥