Leave

Vālmīki Rāmāyaṇa · Rāma Questions Bharata on Statecraft

Tap a verse for its meaning

  1. 1
    जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥
  2. 2
    कथञ्चिदभिविज्ञाय विवर्णवदनं ।भ्रातरं भरतं रामः बाहुना ॥
  3. 3
    आघ्राय रामस्तं परिष्वज्य च राघवः ।अङ्के भरतमारोप्य पर्यपृच्छ ॥
  4. 4
    क्व नु तेऽभूत्पिता यदरण्यं त्वमागतः ।न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥
  5. 5
    बत पश्यामि दूराद्भरतमागतम् ।दुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः ॥
  6. 6
    कच्चि तात राजा यत्त्वमिहाऽगतः ।कच्चिन्नदीनः सहसा राजा लोकान्तरं गतः ॥
  7. 7
    कच्चि न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ।कच्चिच्छुश्रूषसे तात पितरं ॥
  8. 8
    कच्चिद्धशरथो राजा कुशली ।राजसूयाश्वमेधानामाहर्ता ॥
  9. 9
    स कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः ।इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥
  10. 10
    सा तात कच्चित्कौसल्या सुमित्रा च । कच्चिदार्या च देवी नन्दति कैकयी ॥
  11. 11
    कच्चि कुलपुत्रो बहुश्रुतः ।अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥
  12. 12
    कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।हुतं च होष्यमाणं च काले वेदयते सदा ॥
  13. 13
    कच्चिद्देवान्पितॄन्मातॄः तृसमानपि ।वृद्धांश्च तात ब्राह्मणांश्चाभिमन्यसे ॥
  14. 14
    इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥
  15. 15
    कच्चिदात्मसमाः शूराः श्रुतवन्तो ।कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥
  16. 16
    मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥
  17. 17
    कच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे ।कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥
  18. 18
    कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न ॥
  19. 19
    कच्चिदर्थं विनिश्चित्य लघुमूलं ।क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ॥
  20. 20
    कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः ।विदुस्ते सर्वकार्याणि न कर्तव्यानि ॥
  21. 21
    कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः ।त्वया वा तव वाऽमात्यैर्बुध्यते तात मन्त्रितम् ॥
  22. 22
    कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि ।पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्श्रेयसं महत् ॥
  23. 23
    सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः ।अथवाऽप्ययुतान्येव नास्ति तेषु ॥
  24. 24
    एकोऽप्यमात्यो शूरो दक्षो विचक्षणः ।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥
  25. 25
    कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।जघन्यास्तु जघन्येषु भृत्याः योजिताः ॥
  26. 26
    अमात्यानुपधाऽतीतान्पितृपैतामहाञ्छुचीन् ।श्रेष्ठान्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥
  27. 27
    कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।राष्ट्रं तवानुजानन्ति मन्त्रिणः ॥
  28. 28
    कच्चित्त्वां नावजानन्ति पतितं यथा ।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥
  29. 29
    उपायकुशलं वैद्यं रतम् ।शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥
  30. 30
    कच्चिद्धृष्टश्च शूरश्च मतिमा शुचिः ।कुलीनश्चानुरक्तश्च दक्षः कृतः ॥
  31. 31
    बलवन्तश्च कच्चित्ते मुख्या ।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्यमानिताः ॥
  32. 32
    कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥
  33. 33
    कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः ।भर्तुः दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ॥
  34. 34
    कच्चित्सर्वेऽनुरक्तास्त्वां प्रधानतः ।कच्चित्प्राणांस्तवार्थेषु समाहिताः ॥
  35. 35
    कच्चिज्जानपदो विद्वान्दक्षिणः । दूतस्ते कृतो भरत पण्डितः ॥
  36. 36
    कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि ॥
  37. 37
    कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा ।दुर्बलाननवज्ञाय वर्तसे ॥
  38. 38
    कच्चिन्न ह्मणांस्तात सेवसे ।अनर्थकुशला ह्येते बालाः ॥
  39. 39
    मुख्येषु विद्यमानेषु दुर्बुधाः ।बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥
  40. 40
    वीरैरध्युषितां पूर्वमस्माकं तात ।सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥
  41. 41
    ब्राह्मणैः क्षत्रियैर्वैश्यैः सदा ।जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ॥
  42. 42
    प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥
  43. 43
    कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः ।देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥
  44. 44
    समाजोत्सवशोभितः । पशुमान्हिंसाभिः परिवर्जितः ॥
  45. 45
    अदेवमातृको रम्यः श्वापदैः परिवर्जितः ।परित्यक्तो भयैः सर्वैः ॥
  46. 46
    विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः ।कच्चि स्फीतः सुखं वसति राघव ॥
  47. 47
    कच्चित्ते दयिताः सर्वे ।वार्तायां संश्रितस्तात लोको हि सुखमेधते ॥
  48. 48
    तेषां कच्चित्ते भरणं कृतम् ।रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥
  49. 49
    कच्चित्स्त्रियः कच्चित्ताश्च सुरक्षिताः ।कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥
  50. 50
    कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः ।कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥
  51. 51
    कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।उत्थायोत्थाय पूर्वाह्णे ॥
  52. 52
    कच्चिन्न सर्वे प्रत्यक्षास्तेऽविशङ्कया ।सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र ॥
  53. 53
    कच्चित्सर्वाणि धनधान्यायुधोदकैः ।यन्त्रैश्च परिपूर्णानि तथा शिल्पि ॥
  54. 54
    आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः ।अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥
  55. 55
    र्थे च पित्रर्थे च ।योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥
  56. 56
    कच्चिदार्यो क्षारितश्चोरकर्मणा ।अपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥
  57. 57
    गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः ।कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥
  58. 58
    व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥
  59. 59
    यानि मिथ्याऽभिशस्तानां पतन्त्यस्राणि राघव ।तानि पुत्रन्पशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥
  60. 60
    कच्चिद्वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।दानेन मनसा वाचा त्रिभिरेतै ॥
  61. 61
    कच्चिद्गुरूंश्च वृद्धांश्च वतातिथीन् ।चैत्यांश्च सर्वान्सिद्धार्थान् ब्राह्मणांश्च ॥
  62. 62
    कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः ।उभौ वा प्रीति कामेन च न बाधसे ॥
  63. 63
    कच्चिदर्थं च धर्मं च कामं च जयतांवर ।विभज्य काले सर्वा सेवसे ॥
  64. 64
    कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः ।आशंसन्ते सह ॥
  65. 65
    नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥
  66. 66
    एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।निश्चितानामनारम्भं परिरक्षणम् ॥
  67. 67
    प्रयोगं च प्रत्युत्थानं च सर्वतः ।कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥
  68. 68
    दशपञ्च च तत्त्वतः ।अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥
  69. 69
    इन्द्रियाणां जयं बुद्ध्वा षाड्गुण्यं दैवमानुषम् ।कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम् ॥
  70. 70
    यात्रादण्डविधानं च द्वियोनी ।कच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे ॥
  71. 71
    मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः ॥
  72. 72
    कच्चित्ते सफला वेदाः कच्चित्ते क्रियाः ।कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥
  73. 73
    कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । च यशस्या च धर्मकामार्थसंहिता ॥
  74. 74
    यां वृत्तिं वर्तते तातो यां च नः ।तां वृत्तिं वर्तसे कच्चिद्या च सत्पथगा शुभा ॥
  75. 75
    कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव ।कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥
  76. 76
    राजा तु धर्मेण हि पालयित्वामहामति प्रजानाम् ।अवाप्य कृत्स्नां वसुधां यथावत्इतश्च्युतः स्वर्गमुपैति विद्वान् ॥