Leave

Vālmīki Rāmāyaṇa · The Path into the Wilderness

Tap a verse for its meaning

  1. 1
    अनसूया तु श्रुत्वा तां महतीं कथाम् ।पर्यष्वजत बाहुभ्यां शिरस्याघ्राय ॥
  2. 2
    व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।रमेऽहं कथया ते तु दृढं ॥
  3. 3
    रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।दिवसं प्रतिकीर्णानामाहारार्थं पततित्रणाम् ॥
  4. 4
    निलीनानां निद्रार्थं श्रूयते ध्वनिः ।एते चाप्यभिषेकार्द्रा कलशोद्यताः ॥
  5. 5
    सहिता उपवर्तन्ते सलिलाप्लुत ।ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ॥
  6. 6
    कपोताङ्गारुणो दृश्यते पवनोद्धतः ।अल्पपर्णाहि तरवो घनीभूताः समन्ततः ॥
  7. 7
    विप्रकृष्टेऽपि देशेऽस्मिन्न प्रकाशन्ति वै । प्रचरन्ति समन्ततः ॥
  8. 8
    तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।सम्प्रवृद्धा निशा नक्षत्रसमलङ्कृता ॥
  9. 9
    जोत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ।गम्यतामनुजानामि रामस्यानुचरी भव ॥
  10. 10
    कथयन्त्या हि मधुरं त्वयाऽहं परितोषिता ।अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम ॥
  11. 11
    प्रीतिं जनय मे दिव्यालङ्कारशोभिता ।सा तथा समलङ्कृत्य सीता ॥
  12. 12
    शिरसा तस्यै रामं त्वभिमुखी ययौ ।तथा तु भूषितां सीतां ददर्श ॥
  13. 13
    प्रीतिदानेन जहर्ष च ।न्यवेदयत्ततः सर्वं सीता रामाय मैथिली ॥
  14. 14
    प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च ॥
  15. 15
    मैथिल्याः दृष्ट्वा मानुषेषु सुदुर्लभाम् ।ततस्तां शर्वरीं प्रीतः पुण्यां ॥
  16. 16
    अर्चितस्तापसैः सिद्धैरुवास ।तस्यां रात्र्यां व्यतीतायामभिषिच्य ॥
  17. 17
    आपृच्छेतां तापसान् वनगोचरान् ।तावूचुस्ते वनचरास्तापसा ॥
  18. 18
    वनस्य तस्य सञ्चारं समभिप्लुतम् ।रक्षांसि नानारूपाणि राघव ॥
  19. 19
    वसन्त्यस्मिन् व्यालाश्च ।उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ॥
  20. 20
    अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।एष पन्था महर्षीणां फलान्याहरतां वने ।अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥
  21. 21
    इतीव तैः प्राञ्जलिभिस्तपस्विभिःद्विजैः कृतः परन्तपः ।वनं सभार्यः प्रविवेश राघवःसलक्ष्मणः सूर्यमिवाभ्रमण्डलम् ॥