Leave

Vālmīki Rāmāyaṇa · Lakṣmaṇa's Counsel

Tap a verse for its meaning

  1. 1
    तं तथा शोकसन्तप्तं विलपन्तमनाथवत् ।मोहेन महताऽऽविष्टं परिद्यूनमचेतनम् ॥
  2. 2
    ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः ।रामं सम्बोधयामास चरणौ चाभिपीडयन् ॥
  3. 3
    महता राम महता चापि कर्मणा ।राज्ञा दशरथेनासि लब्धोऽमृतमिवामरैः ॥
  4. 4
    तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः ।राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ॥
  5. 5
    । ॥
  6. 6
    दुःखितो हि भवाँल्लोका यदि धक्ष्यते ।आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति ॥
  7. 7
    नरश्रेष्ठ प्राणिनः कस्य नापदः ।संस्पृश त्वग्निवद्राजन् क्षणेन व्यपयान्ति च ॥
  8. 8
    लोकस्वभाव एवैष ययातिर्नहुषात्मजः ।गतः शक्रेण सालोक्यमनयस्तं तमः स्पृशत् ॥
  9. 9
    महार्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः ।अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥
  10. 10
    । ॥
  11. 11
    यौ जगतां नेत्रौ यत्र सर्वं प्रतिष्ठितम् ।आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥
  12. 12
    सुमहान्त्यपि भूतानि देवाश्च ।न प्रमुञ्चन्ति सर्वभूतादिदेहिनः ॥
  13. 13
    शक्रादिष्वपि देवेषु वर्तमानौ ।श्रूयेते न त्वं शोचितुमर्हसि ॥
  14. 14
    नष्टायामपि वैदेह्यां हृतायामपि चानघ ।शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा ॥
  15. 15
    त्वद्विधा न हि शोचन्ति सततं ।सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ॥
  16. 16
    तत्त्वतो हि नरश्रेष्ठ समनुचिन्तय ।बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे ॥
  17. 17
    अदृष्टगुणदोषाणामध्रुवाणां तु ।नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ॥
  18. 18
    त्वमेव हि पुरा राम मामेवं बहुशोऽन्वशाः ।अनुशिष्याद्धि को नु त्वामपि साक्षा ॥
  19. 19
    बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया ।शोकेनाभिप्रसुप्तं ते ज्ञानं सम्बोधयाम्यहम् ॥
  20. 20
    दिव्यं च मानुषं च त्वमात्मनश्च ।वेक्ष्य यतस्व द्विषतां वधे ॥
  21. 21
    किं ते कृतेन पुरुषर्षभ ।तमेव त्वं रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥