Leave

Vālmīki Rāmāyaṇa · The Meeting with Hanumān

Tap a verse for its meaning

  1. 1
    वचो विज्ञाय महात्मनः ।पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ॥
  2. 2
    कपिरूपं परित्यज्य हनुमान् मारुतात्मजः ।भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥
  3. 3
    ततः स हनुमान् वाचा सुमनोज्ञया ।विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥
  4. 4
    आबभाषे तदा वीरौ यथावत् च । विधिवद्वीरो हनुमान् मारुतात्मजः ॥
  5. 5
    उवाच कामतो वाक्यं मृदु ।राजर्षिदेवप्रतिमौ तापसौ ॥
  6. 6
    देशं कथमिमं प्राप्तौ भवन्तौ ।त्रासयन्तौ मृगगणानन्यांश्च ॥
  7. 7
    वृक्षान् वीक्षमाणौ समन्ततः ।इमां नदीं शुभजलां शोभयन्तौ ॥
  8. 8
    धैर्यवन्तौ सुवर्णाभौ कौ युवां । वरभुजौ पीडयन्ताविमाः प्रजाः ॥
  9. 9
    वीरौ सिंहातिबलविक्रमौ । चापे गृहीत्वा शत्रुसूदनौ ॥
  10. 10
    श्रीमन्तौ रूपसम्पन्नौ वृषभश्रेष्ठविक्रमौ । द्युतिमन्तौ ॥
  11. 11
    प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ।राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ॥
  12. 12
    वीरौ ।अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ ॥
  13. 13
    यदृच्छयेव सम्प्राप्तौ ।विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ ॥
  14. 14
    महोत्साहौ समदाविव गोवृषौ ।आयताश्च सुवृत्ताश्च बाहवः ॥
  15. 15
    किमर्थं न विभूषिताः ।उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ॥
  16. 16
    ससागरवनां कृत्स्नां ।इमे च चित्रे श्लक्ष्णे चित्रानुलेपने ॥
  17. 17
    प्रकाशेते यथेन्द्रस्य हेमविभूषिते ।सम्पूर्णा निशितैर्बाणैस्तूणाश्च शुभदर्शनाः ॥
  18. 18
    जीवितान्तकरैर्घोरैः श्वसद्भिरिव पन्नगैः ।महाप्रमाणौ विस्तीर्णौ ॥
  19. 19
    विराजेते निर्मुक्ताविव पन्नागौ ।एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ॥
  20. 20
    सुग्रीवो नाम कश्चि ।वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥
  21. 21
    प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।राज्ञा वानरमुख्यानां म वानरः ॥
  22. 22
    युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति ।तस्य मां सचिवं विद्धि वानरं ॥
  23. 23
    भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ।ऋश्यमूकादिह प्राप्तं कामगं ॥
  24. 24
    एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ ।वाक्यज्ञौ पुनर्नोवाच किञ्चन ॥
  25. 25
    एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् । भ्रातरं पार्श्वतः स्थितम् ॥
  26. 26
    सचिवोऽयं सुग्रीवस्य महात्मनः ।तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः ॥
  27. 27
    तमभ्यभाष सुग्रीवसचिवं कपिम् ।वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम ॥
  28. 28
    नानृग्वेदविनीतस्य नायजुर्वेदधारिणः ।ना शक्यमेवं प्रभाषितुम् ॥
  29. 29
    नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् ।बहु व्याहरतानेन न किञ्चिदपशब्दितम् ॥
  30. 30
    न नेत्रयोर्वाऽपि ललाटे च भ्रुवोस्तथा ।अन्येष्वपि च गात्रेषु संविदितः क्वचित् ॥
  31. 31
    अविस्तरमसन्दिग्धमविलम्बितमद्रुतम् ।उरःस्थं कण्ठगं वाक्यं वर्तते ॥
  32. 32
    संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम् ।उच्चारयति कल्याणीं वाचं ॥
  33. 33
    अनया चित्रया वाचा ।कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥
  34. 34
    एवंविधो यस्य दूतो न भवे तु ।सिध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥
  35. 35
    एवं गुणगणैर्युक्ता यस्य स्युः ।तस्य सिध्यन्ति सर्वार्था दूतवाक्यप्रचोदिताः ॥
  36. 36
    एवमुक्तस्तु सुग्रीवसचिवं कपिम् ।अभ्यभाषत वाक्यज्ञो वाक्यज्ञं ॥
  37. 37
    विदिता नौ गुणा सुग्रीवस्य महात्मनः ।तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम् ॥
  38. 38
    यथा ब्रवीषि सुग्रीववचनादिह ।तत्तथा हि करिष्यावो वचनात्तव ॥
  39. 39
    तत्तस्य वाक्यं निपुणं निशम्य पवनात्मजः कपिः ।मनः समाधाय जयोपपत्तौसख्यं तदा कर्तुमियेष ताभ्याम् ॥