Leave

Vālmīki Rāmāyaṇa · The Signet Ring

Tap a verse for its meaning

  1. 1
    विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् ।स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥
  2. 2
    अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् ।सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ॥
  3. 3
    न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये ।नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुङ्गव ॥
  4. 4
    सासुराः सहगन्धर्वाः सनागनरदेवताः । सर्वलोकास्ते ससागरधराधराः ॥
  5. 5
    गतिर्वेगश्च तेजश्च लाघवं च महाकपे ।पितुस्ते सदृशं वीर महात्मनः ॥
  6. 6
    वापि ते भूतं समं भुवि न विद्यते ।तद्यथा लभ्यते सीता तत्त्वमेवोपपादय ॥
  7. 7
    त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः ।देशकालानुवृत्तिश्च नयश्च ॥
  8. 8
    ततः कार्यसमासङ्गमवगम्य हनूमति ।विदित्वा हनुमन्तं च चिन्तयामास ॥
  9. 9
    सर्वथा निश्चितार्थोऽयं हनूमति ।निश्चितार्थकरश्चापि हनुमान् कार्यसाधने ॥
  10. 10
    तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः । परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥
  11. 11
    तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम् ।कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः ॥
  12. 12
    ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम् ।अङ्गुलीयमभिज्ञानं राजपुत्र्याः परन्तपः ॥
  13. 13
    अनेन त्वां हरिश्रेष्ठ चिह्नेन ।मत्सकाशादनुप्राप्तमनुद्विग्नाऽनुपश्यति ॥
  14. 14
    व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः ।सुग्रीवस्य च सन्देशः सिद्धिं कथयतीव मे ॥
  15. 15
    स तं गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि ।वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः ॥
  16. 16
    स तत्प्रकर्षन् हरिणां बलं मह--द्बभूव वीरः कपिः ।गताम्बुदे व्योम्नि विशुद्धमण्डलःशशीव नक्षत्रगणोपशोभितः ॥
  17. 17
    अतिबल बलमाश्रितस्तवाहंहरिवरविक्रम विक्रमैरनल्पैः । यथाऽभिगम्यते साजनकसुता हनुमंस्तथा कुरुष्व ॥