Vālmīki Rāmāyaṇa · The Guardian of the City
Tap a verse for its meaning
- स लम्बशिखरे लम्बे लम्बतोयदसन्निभे ।सत्त्वमास्थाय हनुमा ॥
- शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् । सागरानिलसेविताम् ॥
- यथैव विटपावतीम् ।चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ॥
- भुजगाचरितां गुप्तां शुभां ।तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ॥
- मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् ।शातकुम्भेन महता प्राकारेणाभिसंवृताम् ॥
- किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ।आसाद्य सहसा प्राकारमभिपेदिवान् ॥
- विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।जाम्बूनदमयैर्द्वारै ॥
- वज्रस्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः । राजतामलपाण्डुरैः ॥
- स्फाटिकान्तरपांसुभिः ।चारु सञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ॥
- क्रौञ्चबर्हिणसङ्घुष्टैः ।तूर्याभरण निर्घोषैः सर्वतः प्रतिनादिताम् ॥
- तां वीक्ष्य नगरीं ततः ।खमिवोत्पतितां लङ्कां जहर्ष ॥
- तां समीक्ष्य पुरीं रम्यां शुभाम् ।अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ॥
- नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।रक्षिता रावणबलैरुद्यतायुधधारिभिः ॥
- कुमुदाङ्गदयोर्वापि महाकपेः ।प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ॥
- हरेश्च कुशपर्वणः ।ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ॥
- समीक्ष्य तु महाबाहू पराक्रमम् ।लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः ॥
- तां रत्नवसनोपेतां गोष्ठागारावतंसकाम् ।यन्त्रागारस्तनीमृद्धां भूषिताम् ॥
- तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः ।नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ॥
- अथ सा हरिशार्दूलं प्रविशन्तं महाबलम् ।नगरी स्वेन रूपेण ददर्श ॥
- सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ।स्वयमेवोत्थिता तत्र ॥
- पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ।मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ॥
- कस्त्वं केन च कार्येण इह प्राप्तो ।कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥
- न शक्यं खल्वियं लङ्का प्रवेष्टुं त्वया ।रक्षिता रावणबलैरभिगुप्ता समन्ततः ॥
- अथ तामब्रवीद्वीरो हनुमानग्रतः स्थिताम् ।कथयिष्यामि ते तत्त्वं यन्मान्त्वं ॥
- का त्वं पुरद्वारेव तिष्ठसि ।किमर्थं चापि मां रुद्ध्वा निर्भर्त्सयसि दारुणा ॥
- हनुमद्वचनं श्रुत्वा लङ्का सा ।उवाच वचनं क्रुद्धा परुषं ॥
- अहं रावणस्य महात्मनः ।आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ॥
- न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया ।अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ॥
- अहं हि नगरी लङ्का स्वयमेव ।सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ॥
- लङ्काया वचनं श्रुत्वा हनूमान् ।यत्नवान्स स्थितः शैल इवापरः ॥
- स तां स्त्रीरूपविकृतां दृष्ट्वा ।आबभाषेऽथ मेधावी सत्त्ववान्प्लवगर्षभः ॥
- द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् ।इत्यर्थमिह सम्प्राप्तः परं हि मे ॥
- वनान्युपवनानीह लङ्कायाः काननानि च ।सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ॥
- तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।भूय एव पुनर्वाक्यं बभाषे ॥
- मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिता ।न शक्यमद्य ते द्रष्टुं पुरीयं ॥
- ततः स कपिशार्दूलस्तामुवाच ।दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ॥
- ततः कृत्वा महानादं सा वै लङ्का ।तलेन वानरश्रेष्ठं ताडयामास वेगिता ॥
- ततः स कपिशार्दूलो लङ्कया ताडितो भृशम् ।ननाद सुमहानादं वीर्यवान्पवनात्मजः ॥
- ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः ।भिजघानैनां हनूमान् क्रोधमूर्छितः ॥
- स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः ।सा तु तेन प्रहारेण ॥
- पपात सहसा भूमौ विकृताननदर्शना ।ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा ॥
- कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ।ततो वै भृशसंविग्ना लङ्का सा ॥
- उवाचागर्वितं वाक्यं हनूमन्तं प्लवङ्गमम् ।प्रसीद सुमहाबाहो हरिसत्तम ॥
- सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ।अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ॥
- निर्जिताहं त्वया वीर विक्रमेण महाबल ।इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर ॥
- स्वयम्भुवा पुरा दत्तं वरदानं यथा मम ।यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ॥
- तदा त्वया हि विज्ञेयं रक्षसां भयमागतम् ।स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात् ॥
- स्वयम्भूविहितः सत्यो न तस्यास्ति व्यतिक्रमः ।सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ॥
- चैव सर्वेषां विनाशः समुपागतः ।तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ।विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ॥
- प्रविश्य शापोपहतां हरीश्वरशुभां पुरीं राक्षसमुख्यपालिताम् ।यदृच्छया त्वं जनकात्मजां सतींविमार्ग सर्वत्र गतो यथासुखम् ॥