Vālmīki Rāmāyaṇa · The Blade of Grass
Tap a verse for its meaning
- 1तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः । दीनं प्रत्युवाच शनैर्वचः ॥
- 2दुःखार्ता रुदती सीता तपस्विनी ।चिन्तयन्ती वरारोहा पतिमेव ॥
- 3प्रत्युवाच ।निवर्तय मनो मत्तः स्वजने क्रियतां मनः ॥
- 4न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ।अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ॥
- 5कुलं सम्प्राप्तया पुण्यं कुले महति जातया ।एवमुक्त्वा तु रावणं तं ॥
- 6राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ।नाहमौपयिकी भार्या सती तव ॥
- 7साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ।यथा तव तथाऽन्येषां दारा रक्ष्या ॥
- 8स्वेषु दारेषु रम्यताम् ।अतुष्टं स्वेषु दारेषु चपलं ॥
- 9नयन्ति निकृतिप्रज्ञं परदाराः ।इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ॥
- 10तथा हि विपरीता ते बुद्धिराचारवर्जिता ।वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः ॥
- 11राक्षसानामभावाय त्वं वा न व्रतिपद्यसे ।अकृतात्मानमासाद्य राजानमनये रतम् ॥
- 12समृद्धानि राष्ट्राणि नगराणि च ।तथेयं त्वां समासाद्य लङ्का ॥
- 13वैकस्य न चिराद्विनशिष्यति ।स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ॥
- 14अभिनन्दन्ति भूतानि विनाशे ।एवं त्वां पापकर्माणं वक्ष्यन्ति जनाः ॥
- 15दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ।शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ॥
- 16राघवेणाहं भास्करेण प्रभा यथा ।उपधाय भुजं तस्य सत्कृतम् ॥
- 17कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ।अहमौपयिकी भार्या तस्यैव ॥
- 18धीरस्य विद्येव ।साधु रावण रामेण मां समानय दुःखिताम् ॥
- 19वने वासितया सार्थं करेण्वेव गजाधिपम् ।मित्रमौपयिकं कर्तुं रामः स्थानं ॥
- 20वधं चानिच्छता घोरं त्वयाऽसौ ।विदितः स हि धर्मज्ञः ॥
- 21तेन भवतु ते यदि जीवितुमिच्छसि । त्वं चैनं शरणागतवत्सलम् ॥
- 22मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ।एवं हि ते भवेत्स्वस्ति सम्प्रदाय ॥
- 23अन्यथा त्वं हि कुर्वाणो वधं प्राप्स्यसि रावण ।वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ॥
- 24त्वद्विधं तु न सङ्क्रुद्धो स राघवः ।रामस्य धनुषः शब्दं श्रोष्यसि त्वं ॥
- 25विसृष्टस्य निर्घोषमशनेरिव ।इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ॥
- 26इषवो निपतिष्यन्ति । परिनिघ्नन्तः पुर्यामस्यां समन्ततः ॥
- 27असम्पातं करिष्यन्ति पतन्तः ।राक्षसेन्द्रमहासर्पान्स महान् ॥
- 28उद्धरिष्यति वेगेन वैनतेय इवोरगान् ।अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ॥
- 29असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः । हतस्थाने निहते रक्षसां बले ॥
- 30त्वया रक्षः कृतमेतदसाधु वै ।आश्रमं तु तयोः शून्यं प्रविश्य ॥
- 31गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ।न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ॥
- 32शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ।तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ॥
- 33वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ।क्षिप्रं तव स नाथो मे रामः सह ।तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥
- 34गिरिं कुबेरस्य गतोऽथ वालयंसभां गतो वा वरुणस्य राज्ञः ।असंशयं दाशरथेर्न मोक्ष्यसेमहाद्रुमः कालहतोऽशनेरिव ॥