Leave

Vālmīki Rāmāyaṇa · The Destruction of the Aśoka Grove

Tap a verse for its meaning

  1. 1
    स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया ।तस्माद्देशादपक्रम्य चिन्तयामास ॥
  2. 2
    अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥
  3. 3
    न रक्षःसु गुणाय कल्पतेन दानमर्थोपचितेषु युज्यते ।न भेदसाध्या बलदर्पिता जनाःपराक्रमस्त्वेव ममेह रोचते ॥
  4. 4
    न चास्य कार्यस्य विनिश्चयः कश्चिदिहोपपद्यते ।हतप्रवीरा हि रणे हि राक्षसाःकथंचिदीयुर्यदिहाद्य ॥
  5. 5
    निर्दिष्टे यो बहून्यपि साधयेत् । स कार्यं कर्तुमर्हति ॥
  6. 6
    न ह्येकः स्वल्पस्यापीह कर्मणः ।यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥
  7. 7
    इहैव तावत्कृतनिश्चयो ह्यहंयदि व्रजेयं प्लवगेश्वरालयम् ।परात्मसंमर्दविशेषतत्त्ववि--त्ततः कृतं स्यान्मम ॥
  8. 8
    कथं नु खल्वद्य भवेत्सुखागतंप्रसह्य युद्धं मम राक्षसैः सह ।तथैव खल्वात्मबलं च सारव--त्संमानयेन्मां च रणे ॥
  9. 9
    ततः समासाद्य रणे दशाननंसमन्त्रिवर्गं सबलप्रयायिनम् ।हृदि स्थितं तस्य मतं बलं च वैसुखेन मत्वाहमितः पुनर्व्रजे ॥
  10. 10
    इदमस्य नन्दनोपममुत्तमम् ।वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥
  11. 11
    इदं शुष्कं वनमिवानलः ।अस्मिन्भग्ने ततः कोपं करिष्यति दशाननः ॥
  12. 12
    ततो महत्साश्वमहारथद्विपंबलं समादेक्ष्यति ।त्रिशूलकालायसपट्टसायुधंततो महद्युद्धमिदं भविष्यति ॥
  13. 13
    अहं तु तैः सम्यति चण्डविक्रमैःसमेत्य रक्षोभिरसह्यविक्रमः ।निहत्य तद्रावणचोदितं बलंसुखं गमिष्यामि ॥
  14. 14
    ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः । महता द्रुमान् क्षेप्तुमथारभत् ॥
  15. 15
    ततस्तु बभञ्ज ।मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥
  16. 16
    तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥
  17. 17
    प्रभिन्नैः सलिलाशयैः ।ताम्रैः किसलयैः क्लान्तैः ॥
  18. 18
    न बभौ तद्वनं तत्र दावानलहतं यथा ।व्याकुलावरणा रेजु इव ता लताः ॥
  19. 19
    लतागृहैश्चित्रगृहैश्च नाशितै--र्महोरगैर्व्यालमृगैश्च निर्धुतैः ।शिलागृहैरुन्मथितैस्तथा गृहैःप्रनष्टरूपं तदभून्महद्वनम् ॥
  20. 20
    सा विह्वलाऽवनस्थली शोकलताप्रताना ।जाता दशास्यप्रमदावनस्यकपेर्बलाद्धि प्रमदावनस्य ॥
  21. 21
    स तस्य कृत्वाऽर्थपतेर्महाकपि--र्महद्व्यलीकं मनसो महात्मनः ।युयुत्सुरेको बहुभिर्महाबलैःश्रिया ज्वलंस्तोरणमास्थितः कपिः ॥