Vālmīki Rāmāyaṇa · The Fall of the Five Generals
Tap a verse for its meaning
- हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण ।रावणः संवृताकारश्चकार मतिमुत्तमाम् ॥
- स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम् ।प्रघसं भासकर्णं च पञ्च ॥
- सन्दिदेश वीरान्नयविशारदान् ।हनुमद्ग्रहणे व्यग्रा ॥
- यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः ।सवाजिरथमातङ्गाः स कपिः शास्यतामिति ॥
- यत्तैश्च खलु भाव्यं स्यात्तमासाद्य ।कर्म चापि समाधेयं ॥
- न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।सर्वथा तन्महद्भूतं महाबलपरिग्रहम् ॥
- भवेदिन्द्रेण वा सृष्टमस्मदर्थं ।सनागयक्षगन्धर्वा देवासुरमहर्षयः ॥
- युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः ।तैरवश्यं विधातव्यं व्यलीकं किञ्चिदेव नः ॥
- तदेव नात्र सन्देहः परिगृह्यताम् ।नावमान्यो भवद्भिश्च हरि ॥
- दृष्टा हि पूर्वं मया ।वाली च सहसुग्रीवो जाम्बवांश्च महाबलः ॥
- नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः ।नैवं तेषां गतिर्भीमा न तेजो न पराक्रमः ॥
- न मतिर्न बलोत्साहौ न रूपपरिकल्पनम् ।महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् ॥
- प्रयत्नं महदास्थाय क्रियतामस्य ।कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः ॥
- भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे ।तथापि तु जयमाकाङ्क्षता रणे ॥
- प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥
- समुत्पेतुर्महावेगा ।रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः ॥
- शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः ।ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् ॥
- रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् ।तोरणस्थं महोत्साहं महासत्त्वं महाबलम् ॥
- महामतिं महावेगं महाकायं महाबलम् ।तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः ॥
- तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।तस्य पञ्चायसास्तीक्ष्णाः शिताः पीतमुखाः शराः ॥
- शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः ।स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः ॥
- उत्पपात नदन्व्योम्नि दिशो दश विनादयन् ।ततस्तु दुर्धरो वीरः सरथः ॥
- किरन् शरशतैस्तीक्ष्णैरभिपेदे महाबलः ।स कपिर्वारयामास तं व्योम्नि ॥
- वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः ।अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः ॥
- चकार निनदं भूयो व्यवर्धत च ।स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः ॥
- निपपात महावेगो विद्युद्राशिर्गिराविव ।ततः स मथिताष्टाश्वं रथं भग्नाक्षकूबरम् ॥
- विहाय न्यपतद्भूमौ दुर्धर ।तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि ॥
- दुर्धर्षावुत्पेततुररिन्दमौ ।स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे ॥
- मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः ।तयोर्वेगवतोर्वेगं विनिहत्य महाबलः ॥
- निपपात पुनर्भूमौ ।स सालवृक्षमासाद्य तमुत्पाट्य च वानरः ॥
- तावुभौ राक्षसौ वीरौ जघान ।ततस्तांस्त्रीन्हतान् ज्ञात्वा वानरेण तरस्विना ॥
- अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् ।भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान् ॥
- एकतः कपिशार्दूलं यशस्विनमवस्थितम् ।पट्टसेन शिताग्रेण प्रघसः प्रत्ययोधयत् ॥
- भासकर्णश्च शूलेन राक्षसः ।स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः ॥
- अभवद्वानरः क्रुद्धो ।समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् ॥
- जघान हनुमान्वीरो राक्षसौ ।ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु ॥
- बलं तदवशेषं च नाशयामास वानरः ।अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् ॥
- स कपिर्नाशयामास सहस्राक्ष इवासुरान् ।हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः ।हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ॥
- ततः कपिस्ताणेनिहत्य वीरान्सबलान्सवाहनान् ।तदेव वीरः परिगृह्य तोरणंकृतक्षणः ॥