Leave

Vālmīki Rāmāyaṇa · The Fall of Akṣa

Tap a verse for its meaning

  1. 1
    ञ्च स तु प्रमापिता--न्हनूमता सानुचरान्सवाहनान् ।समीक्ष्य राजा समरोद्धतोन्मुखंकुमारमक्षं प्रसमैक्षताग्रतः ॥
  2. 2
    स तस्य दृष्ट्यर्पणसम्प्रचोदितःञ्चनचित्रकार्मुकः ।समुत्पपाताथ सदस्युदीरितोद्विजातिमुख्यैर्हविषेव ॥
  3. 3
    ततो महद्बालदिवाकरप्रभंप्रतप्तजाम्बूनदजालसन्ततम् ।रथं समास्थाय ययौ स वीर्यवा--न्महाहरिं तं प्रति ॥
  4. 4
    ततसञ्चयार्जितंप्रतप्तजाम्बूनदजालशोभितम् ।पताकिनं रत्नविभूषितध्वजंमनोजवाष्टाश्ववरैः सुयोजितम् ॥
  5. 5
    सुरासुराधृष्यमसङ्गचारिणंरविप्रभं व्योमचरं ।सतूणमष्टासिनिबद्धबन्धुरंयथाक्रमावेशितशक्तितोमरम् ॥
  6. 6
    विराजमानं प्रतिपूर्णवस्तुनासहेमदाम्ना शशिसूर्यवर्चसा ।दिवाकराभं रथमास्थितस्ततःस निर्जगामामरतुल्यविक्रमः ॥
  7. 7
    स पूरयन्खं च महीं च साचलांतुरङ्गमातङ्गमहारथस्वनैः ।बलैः समेतैः स हि तोरणस्थितंसमर्थमासीनमुपागमत्कपिम् ॥
  8. 8
    स तं समासाद्य हरिं हरीक्षणोयुगान्तकालाग्निमिव प्रजाक्षये ।अवस्थितं विस्मितजातसम्भ्रमःसमैक्षताक्षो ॥
  9. 9
    स तस्य वेगं च कपेर्महात्मनःपराक्रमं चारिषु ।विचारयन्स्वं च बलं महाबलो सूर्य इवाभिवर्धते ॥
  10. 10
    स प्रसमीक्ष्य विक्रमंस्थिरं स्थितः सम्यति दुर्निवारणम् । हनुमन्तमाहवेप्रचोदयामास शरैस्त्रिभिः शितैः ॥
  11. 11
    ततः कपिं तं प्रसमीक्ष्य गर्वितंजितश्रमं शत्रुपराजयोर्जितम् ।अवैक्षताक्षः स बाणपाणिः प्रगृहीतकार्मुकः ॥
  12. 12
    स हेमनिष्काङ्गदचारुकुण्डलःसमाससादाशुपराक्रमः कपिम् ।तयोर्बभूवाप्रतिमः समागमःसुरासुराणामपि ॥
  13. 13
    ररास भूमिर्न तताप भानुमा--न्ववौ न वायुः प्रचचाल चाचलः ।कपेः कुमारस्य च वीक्ष्य सम्युगंननाद च द्यौरुदधिश्च ॥
  14. 14
    ततः स वीरः सुमुखान्पतत्रिणःविषानिवोरगान् ।समाधिसम्योगविमोक्षतत्त्ववि--च्छरानथ त्रीन्कपिमूर्ध्न्यपातयत् ॥
  15. 15
    स तैः शरैर्मूर्ध्नि समं निपातितैःक्षरन्नसृग्दिग्धविवृत्तलोचनः । शरांशुमा--न्व्यरोचतादित्य इवांशुमालिकः ॥
  16. 16
    ततः स पिङ्गाधिपमन्त्रिसत्तमःसमीक्ष्य तं राजवरात्मजं रणे ।उदग्रचित्रायुधचित्रकार्मुकं चापूर्यत चाहवोन्मुखः ॥
  17. 17
    स मन्दराग्रस्थ इवांशुमालिकोविवृद्धकोपो बलवीर्यसम्युतः ।कुमारमक्षं सबलं सवाहनंददाह नेत्राग्निमरीचिभिस्तदा ॥
  18. 18
    ततः स बाणासनचित्रकार्मुकःशरप्रवर्षो युधि ।शरान्मुमोचाशु हरीश्वराचलेबलाहको वृष्टिमिवाचलोत्तमे ॥
  19. 19
    ततः कपिस्तं रणचण्डविक्रमंविवृद्धतेजोबलवीर्यसम्युतम् ।कुमारमक्षं प्रसमीक्ष्य सम्युगे हर्षाद्घनतुल्यविक्रमः ॥
  20. 20
    स बालभावाद्युधि वीर्यदर्पितःप्रवृद्धमन्युः क्षतजोपमेक्षणः ।समाससादाप्रतिमं कपिं रणेगजो महाकूपमिवावृतं तृणैः ॥
  21. 21
    स तेन बाणैः प्रसभं निपातितै--श्चकार नादं घननादनिःस्वनः ।समुत्पपाताशु नभः स मारुति--र्भुजोरुविक्षेपणघोरदर्शनः ॥
  22. 22
    समुत्पतन्तं समभिद्रवद्बलीस राक्षसानां प्रवरः प्रतापवान् ।रथी रथिश्रेष्ठतमः किरन् शरैःपयोधरः शैलमिवाश्मवृष्टिभिः ॥
  23. 23
    स तान् शरांस्तस्य हरिर्विमोक्षयन्चचार वीरः पथि वायुसेविते ।शरान्तरे मारुतवद्विनिष्पतन् सम्यति चण्डविक्रमः ॥
  24. 24
    तमात्तबाणासनमाहवोन्मुखंखमास्तृणन्तं विशिखैः शरोत्तमैः ।अवैक्षताक्षं बहुमानचक्षुषाजगाम चिन्तां च स मारुतात्मजः ॥
  25. 25
    ततः शरै कपिःकुमारवीर्येण महात्मना नदन् ।महाभुजः कर्मविशेषतत्त्ववि--द्विचिन्तयामास रणे पराक्रमम् ॥
  26. 26
    अबालवद्बालदिवाकरप्रभःकरोत्ययं कर्म महन्महाबलः ।न चास्य सर्वाहवकर्मशोभिनः मे मतिरत्र जायते ॥
  27. 27
    अयं महात्मा च महांश्च वीर्यतःसमाहितश्चातिसहश्च सम्युगे ।असंशयं कर्मगुणोदयादयंसनागयक्षैर्मुनिभिश्च पूजितः ॥
  28. 28
    समीक्षते मां प्रमुखागतः स्थितः ।पराक्रमो ह्यस्य मनांसि सुरासुराणामपि शीघ्रगामिनः ॥
  29. 29
    न खल्वयं नाभिभवेदुपेक्षितःपराक्रमो ह्यस्य रणे विवर्धते ।प्रमापणं त्वेव ममास्य रोचतेन वर्धमानोऽग्निरुपेक्षितुं क्षमः ॥
  30. 30
    इति प्रवेगं तु परस्य तर्कय--न्स्वकर्मयोगं च विधाय वीर्यवान् ।चकार वेगं तु महाबलस्तदामतिं च चक्रेऽस्य वधे महाकपिः ॥
  31. 31
    स तस्य तानष्टहयान्महाजवा--न्समाहितान्भारसहान्विवर्तने ।जघान वीरः पथि वायुसेविते पवनात्मजः कपिः ॥
  32. 32
    ततस्तलेनाभिहतो महारथःस तस्य पिङ्गाधिपमन्त्रिनिर्जितः । परिमुक्तकूबरःपपात भूमौ हतवाजिरम्बरात् ॥
  33. 33
    स तं परित्यज्य महारथो रथंसकार्मुकः खमुत्पतन् ।तपोभियोगादृषिरुग्रवीर्यवा--न्विहाय देहं मरुतामिवालयम् ॥
  34. 34
    ततः कपिस्तं विचरन्तमम्बरेपतत्रिराजानिलसिद्धसेविते ।समेत्य तं क्रमेण जग्राह स पादयोर्दृढम् ॥
  35. 35
    स तं समाविध्य सहस्रशः कपि--र्महोरगं गृह्य इवाण्डजेश्वरः ।मुमोच वेगात्पितृतुल्यविक्रमोमहीतले सम्यति वानरोत्तमः ॥
  36. 36
    स भग्नबाहूरुकटीशिरोधरःक्षरन्नसृङ्निर्मथितास्थिलोचनः ।प्रभिन्नसन्धिः प्रविकीर्णबन्धनोहतः क्षितौ राक्षसः ।महाकपिर्भूमितले निपीड्य तंचकार रक्षोधिपतेर्महद्भयम् ॥
  37. 37
    महर्षिभिश्चक्रचरैर्महाव्रतैःसमेत्य भूतैश्च सयक्षपन्नगैः ।सुरैश्च सेन्द्रैर्भृशजातविस्मयै--र्हते कुमारे स कपिर्निरीक्षितः ॥
  38. 38
    निहत्य तं वज्रिसुतोपमं रणेकुमारमक्षं क्षतजोपमेक्षणम् ।तदेव वीरोऽभिजगाम तोरणं काल इव प्रजाक्षये ॥