Leave

Vālmīki Rāmāyaṇa · Indrajit's Arrogance and Vibhīṣaṇa's Rebuke

Tap a verse for its meaning

  1. 1
    बृहस्पतेस्तुल्यमतेर्वचस्त--न्निशम्य यत्नेन ।ततो महात्मा वचनं बभाषेतत्रेन्द्रजिन्नैरृतयोधमुख्यः ॥
  2. 2
    किं नाम ते कनिष्ठवाक्य--मनर्थकं चैव सुभीतवच्च ।अस्मिन्कुले योऽपि भवेन्न जातःसोऽपीदृशं नैव वदेन्न कुर्यात् ॥
  3. 3
    पराक्रमेणशौर्येण धैर्येण च तेजसा च ।एकः कुलेऽस्मिन्पुरुषो विमुक्तोविभीषणस्तात कनिष्ठ एषः ॥
  4. 4
    किं नाम तौ राक्षस राजपुत्रा--वस्माकमेकेन हि राक्षसेन ।सुप्राकृतेनापि रणे निहन्तुंशक्यौ कुतो भीषयसे स्म ॥
  5. 5
    त्रिलोकनाथो ननु देवराजःशक्रो मया भूमितले निविष्टः ।भयार्दिताश्चापि दिशः प्रपन्नाःसर्वे तथा देवगणाः समग्राः ॥
  6. 6
    ऐरावतो विस्वरमुन्नदन्सनिपातितो भूमितले मया तु ।निकृष्य तु मया प्रसह्यवित्रासिता देवगणाः समग्राः ॥
  7. 7
    सोऽहं सुराणामपि दर्पहन्तादैत्योत्तमानामपि शोकदाता ।कथं नरेन्द्रात्मजयोर्न शक्तोमनुष्ययोः प्राकृतयोः सुवीर्यः ॥
  8. 8
    अथेन्द्रकल्पस्य दुरासदस्यमहौजसस्तद्वचनं निशम्य ।ततो महार्थं वचनं बभाषेविभीषणः ॥
  9. 9
    न तात मन्त्रे तव निश्चयोऽस्तिबालस्त्वमद्याप्यविपक्वबुद्धिः ।तस्मात्त्वया ह्यात्मविनाशनायवचोऽर्थहीनं बहु विप्रलप्तम् ॥
  10. 10
    पुत्रप्रवादेन तु रावणस्यत्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।यस्येदृशं राघवतो विनाशंनिशम्य नुमन्यसे त्वम् ॥
  11. 11
    त्वमेव वध्यश्च सुदुर्मतिश्चस चापि वध्यो य इहानयत्त्वाम् ।बालं दृढं साहसिकं च योऽद्यप्रावेशयन्मन्त्रकृतां समीपम् ॥
  12. 12
    प्रगल्भोऽविनयोपपन्न--स्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा ।मूर्खस्त्वमत्यन्तसुदुर्मतिश्चत्वमिन्द्रजिद्बालतया ब्रवीषि ॥
  13. 13
    को ब्रह्मदण्डप्रतिमप्रकाशा--नर्चिष्मतः कालनिकाशरूपान् ।सहेत बाणान्यमदण्डकल्पान्समक्ष मुक्तान्युधि ॥
  14. 14
    धनानि रत्नानि विभूषणानिवासांसि दिव्यानि मणींश्च चित्रान् ।सीतां च रामाय निवेद्य देवींवसेम राजन्निह ॥