Vālmīki Rāmāyaṇa · The Departure of the Kings
Tap a verse for its meaning
- 1एवमास्ते महाबाहुरहन्यहनि ।प्रशासत्सर्वकार्याणि च ॥
- 2ततः कतिपयाहःसु वैदेहं ।राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥
- 3भवान्हि गतिरव्यग्रा भवता पालिता वयम् ।भवत रावणो निहतो मया ॥
- 4इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः ।अतुलाः प्रीतयो राज ॥
- 5तद्भवान्स्वपुरं यातु रत्नान्यादाय ।भरतश्च सहायार्थं पृष्ठतस्ते ऽनुयास्यति ॥
- 6स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत् ।प्रीतो ऽस्मि भवतो राज च ॥
- 7यान्येतानि तु रत्नानि मदर्थं वै । तानि वै राजन्सर्वाण्येव ददामि च ॥
- 8एवमुक्त्वा तु काकुत्स्थं जनको ।प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥
- 9ततः प्रयाते जनके केकयं मातुलं ।राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥
- 10इदं राज्यमहं चैव भरतश्च सलक्ष्मणः ।आयत्तास्त्वं हि नो राजन्गतिश्च ॥
- 11राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति ।तस्माद्गमनमद्यैव रोचते तव पार्थिव ॥
- 12लक्ष्मणेनानुयात्रेण पृष्ठतो ऽनुगमिष्यते ।धनमादाय विपुलं रत्नानि विविधानि च ॥
- 13तथेत्याह गमनं प्रति राघवम् ।रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ॥
- 14प्रदक्षिणं स राजानं कृत्वा ।रामेण हि कृतः पूर्वमभिवाद्य ॥
- 15लक्ष्मणेन सहायेन प्रयातः ।हते ऽसुरे यथा वृत्रे सह वासवः ॥
- 16तं विसृज्य ततो रामो वयस्यमकुतोभयम् ।प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥
- 17दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् ।उद्योगश्च कृतो राजन्भरतेन त्वया सह ॥
- 18तद्भवानद्य काशेय पुरीं वाराणसीं व्रज ।रमणीयां त्वया गुप्तां सुप्रकाशां ॥
- 19एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात् ।पर्यष्वजत निरन्तरमुरोगतम् ॥
- 20विसर्जयामास तदा ।राघवेणाभ्यनुज्ञातः काशीशो ऽप्यकुतोभयः ।वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ॥
- 21विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन् ।प्रहसन्राघवो वाक्यमुवाच ॥
- 22भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता ।धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥
- 23युष्माकं चानुभावेन तेजसा च महात्मनाम् ।हतो दुरात्मा दुर्बुद्धी रावणो ॥
- 24हेतुमात्रमहं तत्र भवतां तेजसा हतः ।रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ॥
- 25भवन्तश्च समानीता भरतेन महात्मना ।श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ॥
- 26उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥
- 27प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः । त्वं विजयी राम ऽपि प्रतिष्ठितः ॥
- 28दिष्ट्या सीता दिष्ट्या शत्रुः पराजितः ।एष नः परमः काम एषा नः ॥
- 29यत्त्वां विजयिनं राम पश्यामो ॥
- 30एतत्त्वय्युपपन्नं च यदस्मांस्त्वं । न जानीमः प्रशंसां वक्तुमीदृशीम् ॥
- 31आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान् ।वर्तामहे महाबाहो प्रीत्यात्र महता वृताः ।भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥
- 32बाढमित्येव राजानो हर्षेण परमान्विताः ।ऊचुः प्राञ्जलयः सर्वे राघवं ॥
- 33पूजिताश्चैव रामेण जग्मुर्देशा ॥