Leave

Vālmīki Rāmāyaṇa · The Parting of Allies

Tap a verse for its meaning

  1. 1
    तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।स्तु महातेजाः मिदमब्रवीत् ॥
  2. 2
    गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।पालयस्व सहामात्यो राज्यं ॥
  3. 3
    अङ्गदं च महाबाहो प्रीत्या परमया युतः ।पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥
  4. 4
    सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥
  5. 5
    वीरं शतवलिं चैव मैन्दं द्विविदमेव च ।गजं गवाक्षं गवयं शरभं च महाबलम् ।पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥
  6. 6
    ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् ।ये चेमे सुमहात्मानो मदर्थे ॥
  7. 7
    पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥
  8. 8
    एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः ।विभीषणमुवाचाथ रामो ॥
  9. 9
    लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ॥
  10. 10
    मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन ।बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥
  11. 11
    अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।स्मर्तव्यः परया प्रीत्या गच्छ त्वं ॥
  12. 12
    रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥
  13. 13
    तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।माधुर्यं परमं राम नित्यदा ॥
  14. 14
    तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् । भूत्वा राघवं वाक्यमब्रवीत् ॥
  15. 15
    स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥
  16. 16
    याव वीर चरिष्यति महीतले ।तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥
  17. 17
    यच्चैतच्चरितं दिव्यं कथा ते ।तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥
  18. 18
    तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो ।उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥
  19. 19
    एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥
  20. 20
    एवमेत भविता नात्र संशयः ।चरिष्यति कथा यावदेषा लोके च मामिका ।तावत्ते भविता शरीरे ऽप्यसवस्तथा ॥
  21. 21
    लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ॥
  22. 22
    एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।नरः प्रत्युपकाराणामापत्स्वायाति ॥
  23. 23
    ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥
  24. 24
    तेनोरसि निबद्धेन हारेण महता कपिः ।रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥
  25. 25
    श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः । शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥
  26. 26
    सुग्रीवः स च रामेण निरन्तरमुरोगतः ।विभीषणश्च धर्मात्मा सर्वे ते ॥
  27. 27
    सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ॥
  28. 28
    कृतप्रसादास्तेनैवं राघवेण महात्मना ।जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥
  29. 29
    ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं ।प्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ॥