Leave

Vālmīki Rāmāyaṇa · The Return of Puṣpaka

Tap a verse for its meaning

  1. 1
    विसृज्य च महाबाहु ।भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥
  2. 2
    अथापराह्णसमये भ्रातृभिः सह राघवः ।शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ॥
  3. 3
    राम निरीक्षस्व सौम्येन वदनेन माम् ।कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥
  4. 4
    तव शासनमाज्ञाय गतो ऽस्मि भवनं प्रति ।उपस्थातुं स च मां प्रत्यभाषत ॥
  5. 5
    निर्जितस्त्वं नरेन्द्रेण महात्मना ।निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥
  6. 6
    ममापि परमा प्रीतर्हते तस्मि ।रावणे सगणे चैव सपुत्रे सहबान्धवे ॥
  7. 7
    स त्वं रामेण लङ्कायां निर्जितः ।वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥
  8. 8
    परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् ।वहेर्लोकस्य संयानं गच्छस्व ॥
  9. 9
    सो ऽहं शासनमाज्ञाय महात्मनः ।त्वत्सकाशमनुप्राप्तो प्रतीक्ष माम् ॥
  10. 10
    अधृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया ।चराम्यहं प्रभावेण तवाज्ञां ॥
  11. 11
    एवमुक्तस्तदा रामः पुष्पकेण ।उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥
  12. 12
    यद्येवं स्वागतं ते ऽस्तु विमानवर पुष्पक ।आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ॥
  13. 13
    लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः । महाबाहू राघवः पुष्पकं तदा ॥
  14. 14
    गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा ।सिद्धानां च गतौ सौम्य मा विषादेन योजय ।प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ॥
  15. 15
    एवमस्त्विति रामेण पूजयित्वा ।अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥
  16. 16
    एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ।भरतः प्राञ्जलिर्वाक्यमुवाच ॥
  17. 17
    विविधात्मनि दृश्यन्ते त्वयि प्रशासति ।अमानुषाणां सत्त्वानां मुहुर्मुहुः ॥
  18. 18
    अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम् ।जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥
  19. 19
    अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः ।हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥
  20. 20
    काले वर्षति पातयन्नमृतं पयः ।वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ॥
  21. 21
    ईदृशो ऽनश्वरो राजा भवेदिति नरेश्वरः ।कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥
  22. 22
    एता वाचः भरतेन समीरिताः ।श्रुत्वा रामो मुदा युक्तो बभूव ॥