Leave

Vālmīki Rāmāyaṇa · Durvāsā’s Prophecy

Tap a verse for its meaning

  1. तथा सूतो महात्मना ।तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥
  2. पुरा नाम्ना हि अत्रेः पुत्रो महामुनिः ।वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥
  3. तमाश्रमं महातेजाः ते सुमहायशाः ।पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ॥
  4. स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।उपविष्टं वसिष्ठस्य महामुनिम् ॥
  5. तौ मुनी विनीतो ह्यभिवादयत् ।स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥ फलमूलैश्च उवास मुनिभिः सह ॥
  6. तेषां तत्रोपविष्टानां तास्ताः कथाः ।बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ॥
  7. ततः कथायां कस्याञ्चि प्रग्रहो नृपः ।उवाच तं महात्मानमत्रेः पुत्रं ॥
  8. भगवन्किं प्रमाणेन मम वंशो भविष्यति ।किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ॥
  9. रामस्य च ये स्युस्तेषामायुः कियद्भवेत् ।काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ॥
  10. तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ।दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥
  11. शृणु राजन्पुरावृत्तं तदा युधि ।दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ॥
  12. तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥
  13. तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः ।चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ॥
  14. ततस्तां निहतां दृष्ट्वा पत्नीं ।शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥
  15. यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ।तस्मात्त्वं जनिष्यसि जनार्दन ॥
  16. तत्र पत्नीवियोगं त्वं प्राप्स्यसे ॥
  17. शापाभिहतचेतास्स भावितो ऽभवत् ॥
  18. अर्चयामास तं देवं भृगुः शापेन पीडितः ।तपसाराधितो देवो ह्यब्रवी ।लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ॥
  19. इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ।इहागतो हि पुत्रत्वं तव ॥
  20. राम इत्यभिविख्यात ।तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ॥
  21. पती रामो दीर्घकालं भविष्यति ।सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ॥
  22. दश दश वर्षशतानि च ।रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥
  23. समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः । बहुशो बहून्संस्थापयिष्यति ॥
  24. तु भविष्येते सीतायां राघवस्य तु ।अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ॥
  25. सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ॥
  26. स सर्वमखिलं राज्ञो वंशस्याह ।आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥
  27. तूष्णीम्भूते तदा तस्मिन्राजा मुनौ ।अभिवाद्य महात्मानौ पुनराया ॥
  28. एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ।श्रुतं च निक्षिप्तं नान्यथा तद्भविष्यति ॥
  29. एवं गते न सन्तापं कर्तुमर्हसि राघव ।सीतार्थे राघवार्थे वा नरोत्तम ॥
  30. श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥
  31. ततः संवदतोरेवं सूतलक्ष्मणयोः ।अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥