Vālmīki Rāmāyaṇa · Lakṣmaṇa's Return to Ayodhyā
Tap a verse for its meaning
- 1तत्र तां रजनीमुष्य केशिन्यां । पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥
- 2ततो ऽर्धदिवसे प्राप्ते प्रविवेश ।अयोध्यां रत्नसम्पूर्णां ॥
- 3सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ।रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥
- 4तस्यैवं चिन्तयानस्य भवनं ।रामस्य परमोदारं पुरस्तान्समदृश्यत ॥
- 5राज्ञस्तु भवनद्वारि सो ऽवतीर्य रथोत्तमात् ।अवाङ्मुखो प्रविवेशानिवारितः ॥
- 6स दृष्ट्वा दीनमासीनं परमासने ।नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥
- 7जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ।उवाच दीनया वाचा ॥
- 8आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् ।गङ्गातीरे यथोद्दिष्टे शुचौ ॥
- 9तत्र तां च शुभाचारामाश्रमान्ते ।पुनरप्यागतो वीर ॥
- 10मा शुचः कालस्य गतिरीदृशी ।त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ॥
- 11सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।संयोगा मरणान्तं च जीवितम् ॥
- 12तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च । कर्तव्यो विप्रयोगो हि तै ॥
- 13शक्तस्त्वमात्मना ऽऽत्मानं विनेतुं मनसैव हि ।लोकान्सर्वांश्च किं पुनः शोकमात्मनः ॥
- 14नेदृशेषु विमुह्यन्ति त्वद्विधाः । स किल ते पुनरेष्यति राघव ॥
- 15यदर्थं त्यक्ता अपवादभयान्नृप ।सो ऽपवादः पुरे राजन्भविष्यति न संशयः ॥
- 16स त्वं धैर्येण सुसमाहितः ।त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ॥
- 17एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना ।उवाच परया प्रीत्या सौमित्रिं ॥
- 18एवमेत यथा वदसि लक्ष्मण ।परितोषश्च मे वीर मम कार्यानुशासने ॥
- 19निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः ।भवद्वाक्यैः सुरुचिरैरनुनीतो ऽस्मि लक्ष्मण ॥