Leave

Vālmīki Rāmāyaṇa · The Curse of Yayāti and the Dawn

Tap a verse for its meaning

  1. 1
    श्रुत्वा तूशनसं क्रुद्धं तदा ऽऽर्तो ।जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥
  2. 2
    यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम् ।जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥
  3. 3
    न तावत्कृतकृत्यो ऽस्मि विषयेषु ।अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ॥
  4. 4
    यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम् ।पुत्रस्ते प्रतिगृह्णातु वै जराम् ॥
  5. 5
    बहिष्कृतो ऽहमर्थेषु सन्निकर्षाच्च ।प्रतिगृह्णातु वै राजन्क सहाश्नाति भोजनम् ॥
  6. 6
    तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत् ।इयं जरा मदर्थं प्रतिगृह्यताम् ॥
  7. 7
    नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत् ।धन्यो ऽस्म्यनुगृहीतो ऽस्मि शासने ऽस्मि तव स्थितः ॥
  8. 8
    पूरोर्वचनमाज्ञाय नाहुषः परया ।प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ॥
  9. 9
    ततः स राजा प्राप्य यज्ञान्सहस्रशः ।बहुवर्षसहस्राणि पालयामास ॥
  10. 10
    अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् ।आनयस्व जरां पुत्र न्यासं मे ॥
  11. 11
    मया पुत्र त्वयि सङ्क्रामिता जरा ।तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ॥
  12. 12
    महाबाहो शासनस्य प्रतिग्रहात् ।त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ॥
  13. 13
    एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः ।देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥
  14. 14
    राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ।प्रतिहंसि ममाज्ञां यत् प्रजार्थे ॥
  15. 15
    पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे ।राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥
  16. 16
    न तु वंशे स्थास्यति दुर्मतेः ।वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥
  17. 17
    तमेवमुक्त्वा पूरुं राज्यविवर्धनम् ।अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ॥
  18. 18
    ततः कालेन महता दिष्टान्तमुपजग्मिवान् ।त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ॥
  19. 19
    पूरुश्चकार तद्राज्यं धर्मेण महता वृतः । पुरवरे काशिराज्ये ॥
  20. 20
    यदुस्तु जनयामास यातुधानान्सहस्रशः ।पुरे दुर्गे ॥
  21. 21
    एष तूशनसा मुक्तः शापोत्सर्गो ययातिना ।धारितः यन्निमिश्च न चक्षमे ॥
  22. 22
    एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् ।अनुवर्तामहे दोषो न स्याद्यथा नृगे ॥
  23. 23
    इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् ।अरुणकिरणरक्ता दिग्बभौ चैव कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥