Vālmīki Rāmāyaṇa · The Story of Kalmāṣapāda
Tap a verse for its meaning
- 1प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥
- 2द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥
- 3सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥
- 4भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥
- 5शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य ।प्रत्युवाच महात्मानं स्वागतं ते ॥
- 6स्वमाश्रममिदं राघवाणां कुलस्य हि ।आसनं पाद्यमर्ध्यं च प्रतीच्छ मे ॥
- 7प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥
- 8स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥
- 9तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥
- 10युष्माकं सौदासस्तस्य भूपतेः ।पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥
- 11स बाल एव सौदासो मृगयामुपचक्रमे ।चञ्चूर्यमाणं ददृशे स शूरो ॥
- 12शार्दूलरूपिणौ मृगान्बहुसहस्रशः ।भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥
- 13स तु तौ दृष्ट्वा निर्मृगं च वनं कृतम् ।क्रोधेन महताविष्टो जघानैकं ॥
- 14विनिपात्य तमेकं तु सौदासः ।विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ॥
- 15निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ॥
- 16यस्मादनपराधं त्वं सहायं मम जघ्निवान् ।तस्मात्तवापि पापिष्ठ प्रदास्यामि ॥
- 17एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत ।कालपर्याययोगेन राजा मित्रसहो ऽभवत् ॥
- 18राजापि यजते यज्ञमस्याश्रमसमीपतः ।अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ॥
- 19तत्र यज्ञो महानासीद्बहुवर्षगणायुतः । परया लक्ष्म्या देवयज्ञसमो ऽभवत् ॥
- 20अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् । राजानमिति होवाच राक्षसः ॥
- 21अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम ।दीयतामिह शीघ्रं वै नात्र कार्या ॥
- 22तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ।भक्ष्यसंस्कारकुशलमुवाच ॥
- 23हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा ॥
- 24शासनात्पार्थिवेन्द्रस्य सूदः ।स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ॥
- 25स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥
- 26स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् । सामिषं रक्षसा हृतम् ॥
- 27ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ॥
- 28यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि ।तस्माद्भोजनमेतत्ते भविष्यति ॥
- 29ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।वसिष्ठं शप्तुमारेभे चैनमवारयत् ॥
- 30राजन्प्रभुर्यतो ऽस्माकं वसिष्ठो भगवानृषिः ।प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं ॥
- 31ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।व्यसर्जयत ततः सिषेच च ॥
- 32तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।तदाप्रभृति राजा ऽसौ सौदासः सुमहायशाः । संवृत्तः ख्यातश्चैव तथा नृपः ॥
- 33स राजा सह पत्न्या वै ।पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥
- 34तच्छ्रुत्वा रक्षसा विकृतं च तत् ।पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥
- 35मया यदिदं व्याहृतं वचः ।नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते ॥
- 36कालो शापस्यान्तो भविष्यति ।मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ॥
- 37एवं स राजा तं शापमुपभुज्यारिसूदनः ।प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥
- 38तस्य यज्ञस्यायतनं शुभम् ।आश्रमस्य समीपे ऽस्य यन्मां पृच्छसि ॥
- 39तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा ।विवेश पर्णशालायां महर्षिमभिवाद्य च ॥