Vālmīki Rāmāyaṇa · The Departure of Śatrughna
Tap a verse for its meaning
- 1एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।पुनरेवापरं वाक्यमुवाच ॥
- 2इमान्यश्वसहस्राणि चत्वारि ।रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥
- 3अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः ।अनुगच्छन्तु काकुत्स्थं तथैव ॥
- 4हिरण्यस्य नियुतं पुरुषर्षभ ।आदाय गच्छ शत्रुघ्न ॥
- 5बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् । रञ्जयस्व नरोत्तम ॥
- 6न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ॥
- 7ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।एक एव धनुष्पाणिर्गच्छ त्वं ॥
- 8यथा त्वां न प्रजानाति गच्छन्तं ।लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ॥
- 9न तस्य मृत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ ।दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ॥
- 10स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते ।हन्यास्त्वं लवणं सौम्य स हि कालो ऽस्य दुर्मतेः ॥
- 11महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः ।यथा ग्रीष्मावशेषेण तरेयु ॥
- 12तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।अग्रतो धनुषा सार्धं गच्छ त्वं ॥
- 13एवमुक्तस्तु रामेण शत्रुघ्नस्ता ।सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ॥
- 14एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥
- 15तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥
- 16रामं शिरसा ऽभिप्रणम्य च ।रामेण चाभ्यनुज्ञातः शत्रुघ्नः ॥
- 17लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।पुरोहितं वसिष्ठं च शत्रुघ्नः ।प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥
- 18प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा ।उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो ॥