Vālmīki Rāmāyaṇa · The Slaying of Lavaṇa
Tap a verse for its meaning
- 1तच्छ्रुत्वा भाषितं तस्य महात्मनः ।क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥
- 2पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च ।लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥
- 3तं ब्रुवाणं तथा वाक्यं लवणं ।शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥
- 4न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया ।तदद्य बाणाभिहतो व्रज त्वं ॥
- 5ऋषयो ऽप्यद्य या त्वां निहतं रणे ।पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव ॥
- 6त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य ।पुरे जनपदे चापि क्षेममेव भविष्यति ॥
- 7अद्य मद्बाहुनिष्क्रान्तः शरो ।प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥
- 8एवमुक्तो महावृक्षं लवणः ।शत्रुघ्नोरसि चिक्षेप स च तं च्छिनत् ॥
- 9तद्दृष्ट्वा विफलं कर्म पुनरेव तु ।बहून्गृह्य शत्रुघ्नायासृजद्बली ॥
- 10शत्रुघ्नश्चापि वृक्षानापततो बहून् ।त्रिभिश्चतुर्भिरेकैकं चिच्छेद ॥
- 11ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि ।शत्रुघ्नो वीर्यसम्पन्नो स राक्षसः ॥
- 12ततः लवणो वृक्षमुद्यम्य वीर्यवान् ।शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स वै ॥
- 13तस्मिन्निपतिते वीरे हाहाकारो महानभूत् ।ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥
- 14तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् ।रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥
- 15नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ।ततो हत इति ज्ञात्वा तामुदावहत् ॥
- 16मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ ।शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ॥
- 17ततो दिव्यममोघं तं जग्राह शरमुत्तमम् ।ज्वलन्तं तेजसा घोरं पूरयन्तं ॥
- 18वज्राननं वज्रवेगं ।नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥
- 19असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् ।दानवेन्द्राचलेन्द्राणामसुराणां च ॥
- 20तं दीप्तमिव कालाग्निं समुपस्थिते ।दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥
- 21सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् ।जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥
- 22उवाच देवदेवेशं वरदं प्रपितामहम् ।देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ॥
- 23नेदृशं दृष्टपूर्वं च न श्रुतं ।देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ॥
- 24तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ।भयकारणमाचष्ट लोकानामभयङ्करः ।उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ॥
- 25लवणस्याजौ शरः शत्रुघ्नधारितः ।तेजसा तस्य सम्मूढाः सर्वे स्मः ॥
- 26एष पूर्वस्य देवस्य सनातनः ।शरस्तेजोमयो वत्सा येन वै भयमागतम् ॥
- 27एष वै मधुनश्च महाशरः ।सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥
- 28एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।एषा एव विष्णोस्तस्य महात्मनः ॥
- 29इतो गच्छत पश्यध्वं वध्यमानं महात्मना । लवणं राक्षसोत्तमम् ॥
- 30तस्य ते निशम्य वचनं सुराः ।आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥
- 31तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् ।ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥
- 32आकाशमावृतं दृष्ट्वा देवैर्हि ।सिंहनादं भृशं कृत्वा ददर्श लवणं पुनः ॥
- 33आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना ।लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥
- 34विकृष्याथ तद्धनु ।तं मुमोच महाबाणं लवणस्य महोरसि ॥
- 35उरस्तस्य शु प्रविवेश ॥
- 36गत्वा रसातलं दिव्यः शरो ।पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥
- 37शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः ।पपात सहसा भूमौ वज्राहत इवाचलः ॥
- 38तच्च शूलं महत्तेन हते लवणराक्षसे ।पश्यतां सर्वदेवानां वशमन्वगात् ॥
- 39भृशं निपात्य लोकत्रयस्यापि ।विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥
- 40ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः । जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥