Leave

Vālmīki Rāmāyaṇa · The Challenge at the Gate

Tap a verse for its meaning

  1. 1
    कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।व्यतीता शीघ्रं शत्रुघ्नस्य महात्मनः ॥
  2. 2
    ततः विमले तस्मिन्काले स ।निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ॥
  3. 3
    एतस्मिन्नन्तरे वीरः शत्रुघ्नो नदीम् ।तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥
  4. 4
    ततो ऽर्धदिवसे प्राप्ते स राक्षसः ।आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥
  5. 5
    ततो ददर्श शत्रुघ्नं स्थितं द्वारि ।तमुवाच ततो किमनेन करिष्यसि ॥
  6. 6
    ईदृशानां सहस्राणि सायुधानां । मया रोषात्कालमाकाङ्क्षसे नु किम् ॥
  7. 7
    आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम ।स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ॥
  8. 8
    तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥
  9. 9
    तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥
  10. 10
    उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं ।योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥
  11. 11
    पुत्रो हं भ्राता रामस्य धीमतः ।शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ॥
  12. 12
    तस्य मे द्वन्द्वयुद्धं प्रदीयताम् ।शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ॥
  13. 13
    तस्मिंस्तथा ब्रुवाणे तु राक्षसः ।प्रत्युवाच नरश्रेष्ठं प्राप्तो ऽसि दुर्मते ॥
  14. 14
    मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ।हतो रामेण दुर्बुद्धे पुरुषाधम ॥
  15. 15
    तच्च सर्वं मया क्षान्तं रावणस्य । पुरतः कृत्वा मया यूयं विशेषतः ॥
  16. 16
    निहताश्च हि मे सर्वे परिभूता यथा ।भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥
  17. 17
    तस्य ते युद्धं दास्यामि दुर्मते ।तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये ।ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥
  18. 18
    तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः ॥
  19. 19
    यो हि बुद्ध्या प्रसरं शत्रवे ददौ ।स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ॥
  20. 20
    तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि । गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥