Leave

Vālmīki Rāmāyaṇa · The Dead Child at the Gate

Tap a verse for its meaning

  1. 1
    प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह ।प्रमुमोद सुखी राज्यं परिपालयन् ॥
  2. 2
    ततः कतिपयाहःसु वृद्धो द्विजः ।मृतं बालमुपादाय राजद्वारमुपागमत् ॥
  3. 3
    रुदन्बहुविधा वाचः ।असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥
  4. 4
    किं नु मे दुष्कृतं कर्म पुरा कृतम् ।यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥
  5. 5
    अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् । कालमापन्नं मम दुःखाय पुत्रक ॥
  6. 6
    अल्पैरहोभिर्निधनं गमिष्यामि न संशयः ।अहं च चैव तव शोकेन पुत्रक ॥
  7. 7
    न स्मराम्यनृतं ह्युक्तं न च स्मराम्यहम् ।सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ॥
  8. 8
    केनाद्य दुष्कृतेनायं बाल एव ममात्मजः ।अकृत्वा पितृकार्याणि गतो ॥
  9. 9
    नेदृशं दृष्टपूर्वं मे श्रुतं वा ।मृत्युरप्राप्तकालानां रामस्य विषये यथा ॥
  10. 10
    रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः ।यथा हि विषयस्थानां बालानां मृत्युरागतः ॥
  11. 11
    नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ।त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥
  12. 12
    राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् ।ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥
  13. 13
    भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ।उषिताः स्म सुखं राज्ये तवास्मि ॥
  14. 14
    इदं तु पतितं तस्मात्तव राम वशे स्थिताः । वशमापन्नाः स्वल्पं हि नहि नः सुखम् ॥
  15. 15
    सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ।रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥
  16. 16
    राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ।असद्वृत्ते तु नृपतावकाले म्रियते जनः ॥
  17. 17
    यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ।कुर्वते न च रक्षा ऽस्ति तदा भयम् ॥
  18. 18
    सुव्यक्तं राजदोषो हि भविष्यति न संशयः ।पुरे जनपदे चापि ततो बालवधो ह्ययम् ॥
  19. 19
    एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः ।राजानं सुतं तमुपगूहते ॥