Vālmīki Rāmāyaṇa · The Slaying of Śambūka and the Gift of Agastya
Tap a verse for its meaning
- 1तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ॥
- 2शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः ।देवत्वं प्रार्थये राम सशरीरो महायशः ॥
- 3न मिथ्या ऽहं वदे राम ।शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥
- 4भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥
- 5तस्मिञ्छूद्रे हते देवाः सेन्द्राः ।साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥
- 6पुष्पवृष्टिर्महत्यासीद्दिव्यानां ।पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥
- 7सुप्रीताश्चाब्रुवन्रामं देवाः ।सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥
- 8गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ॥
- 9देवानां भाषितं श्रुत्वा राघवः ।उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥
- 10यदि देवाः प्रसन्ना मे स जीवतु ।दिशन्तु वरमेतं मे इप्सितं परमं मम ॥
- 11ममापचाराद्यातो ऽसौ ।अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥
- 12तं भद्रं वो नानृतं कर्तुमर्हथ ।द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ॥
- 13राघवस्य तु तद्वाक्यं श्रुत्वा ।प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥
- 14निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः ।जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥
- 15यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं ।तस्मिन्मुहूर्ते बालो ऽसौ समयुज्यत ॥
- 16स्वस्ति प्राप्नुहि भद्रं ते साधु याम ।अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥
- 17तस्य समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥
- 18काकुत्स्थ तद्गमिष्यामो मुनिं ।त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥
- 19स तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।आरुरोह विमानं तं पुष्पकं ॥
- 20ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।रामो ऽप्यनुजगामाशु कुम्भयोने ॥
- 21दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः ।अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥
- 22प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥
- 23गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥
- 24सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।आतिथ्यं परमं प्राप्य निषसाद ॥
- 25तमुवाच महातेजाः कुम्भयोनिर्महातपाः ।स्वागतं ते नरश्रेष्ठ प्राप्तो ऽसि राघव ॥
- 26त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥
- 27सुरा हि कथयन्ति त्वामागतं ।ब्राह्मणस्य तु धर्मेण त्वया सुतः ॥
- 28उष्यतां चेह सकाशे मम राघव ।प्रभाते त्वं गन्ता ऽसि पुरमेव हि ॥
- 29त्वं हि श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं ॥
- 30इदं चाभरणं सौम्य निर्मितं ।दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥
- 31दत्तस्य हि सुमहत्फलमुच्यते । हि भवान् शक्तः सेन्द्राणां मरुतामपि ॥
- 32त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।तस्मात्प्रदास्ये त्प्रतीच्छ नराधिप ॥
- 33दिव्यमाभरणं चित्रं प्रदीप्तमिव ॥
- 34अथोवाच महात्मानमिक्ष्वाकूणां महारथः ।रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥
- 35प्रतिग्रहो ऽयं भगवन्ब्राह्मणस्याविगर्हितः ।गृह्णीयां क्षत्रियो ऽहं वै कथं ब्राह्मणपुङ्गव ॥
- 36विशेषेण दत्तं तद्वक्तुमर्हसि ।एवमुक्तस्तु रामेण प्रत्युवाच ॥
- 37आस राम ब्रह्मभूते पुरायुगे । प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥
- 38ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।सुराणां स्थापितो राजा त्वया देव ॥
- 39प्रयच्छ नो हि पार्थिवं नरपुङ्गवम् ।यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।न वसामो विना राज्ञा एष नो निश्चयः परः ॥
- 40प्रजानां वचनं श्रुत्वा निश्चयित्वा ऽर्थमुत्तमम् ॥
- 41ततो ब्रह्मा सुरश्रेष्ठो वासवान् ।समाहूयाब्रवीत्सर्वांयच्छत ॥
- 42ततो ददुर्लोकपालाः सर्वे भागा ।अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥
- 43तं ब्रह्मा लोकपालानां समयोजयत् ।ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥
- 44तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः । तु भागेन वपुः पुष्यति पार्थिवः ॥
- 45तु भागेन वित्तमासां ददौ तदा ।यस्तु याम्यो ऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥
- 46तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम ॥
- 47तस्य तद्वचनं श्रुत्वा ऋषेः ।तद्रामः मुनेराभरणं वरम् ॥
- 48प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥
- 49अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।कथं वा प्राप्तं कुतो वा केन वा हृतम् ॥
- 50ब्रह्मन्पृच्छामि त्वां महायशः ।आश्चर्याणां बहूनां हि परमको भवान् ॥
- 51एवं ब्रुवति मुनिर्वाक्यमथाब्रवीत् ।शृणु राम यथावृत्तं पुरा युगे ॥
- 52रमणीयप्रदेशे ऽस्मिन् वने यद्दृष्टवानहम् ।आश्चर्यं मे दानमाश्रित्य केवलम् ॥