Vālmīki Rāmāyaṇa · The Search for Adharma
Tap a verse for its meaning
- 1नारदस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥
- 2गच्छ द्विजश्रेष्ठं समाश्वासय सुव्रतम् ।बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥
- 3गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः ।यथा बालस्तथा सौम्य विधीयताम् ॥
- 4यथा शरीरो बालस्य सन् शिष्टकर्मणः । परिभेदो वा न भवेच्च तथा कुरु ॥
- 5एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम् ।मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥
- 6इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः ।आजगाम समीपे राघवस्य वै ॥
- 7सो ऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप ।वश्यस्तव महाबाहो समुपस्थितः ॥
- 8भाषितं रुचिरं श्रुत्वा पुष्पकस्य ।अभिवाद्य महर्षींस्तान् विमानं सो ऽध्यरोहत ॥
- 9धनुर्गृहीत्वा च खड्गं च रुचिरप्रभम् ।निक्षिप्य नगरे वीरौ ॥
- 10प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः ।उत्तरामगमच्छ्रीमान्दिशं वृताम् ॥
- 11अपश्यमानस्तत्रापि स्वल्पमप्यथ ।पूर्वामपि दिशं सर्वामथो ऽपश्य ॥
- 12प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् ।पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ॥
- 13दक्षिणां दिशमाक्रामत्ततो ।शैवलस्योत्तरे पार्श्वे ददर्श सुमह ॥
- 14तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ।ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥
- 15राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् ।उवाच स तदा वाक्यं धन्यस्त्वमसि ॥
- 16कस्यां योन्यां वर्तसे दृढविक्रम ।कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥
- 17को ऽर्थो मनीषितस्तुभ्यं परो ऽथवा ।वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् ।यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥
- 18ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः ।वैश्यस्तृतीयवर्णो वा शूद्रो वा ॥
- 19इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा तस्मै ।उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ॥