Leave

Vālmīki Rāmāyaṇa · The Return to Ayodhyā

Tap a verse for its meaning

  1. 1
    ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ।उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ॥
  2. 2
    तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् ।आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥
  3. 3
    तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम् । पवित्राणि भोजनार्थमकल्पयत् ॥
  4. 4
    स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम् ।प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥
  5. 5
    प्रभाते काल्यमुत्थाय कृत्वा ऽऽह्निकमरिन्दमः ।ऋषिं समुपचक्राम गमनाय ॥
  6. 6
    अभिवाद्याब्रवीद्रामो महर्षिं । स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥
  7. 7
    धन्यो ऽस्म्यनुगृहीतो ऽस्मि दर्शनेन महात्मनः ।द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥
  8. 8
    तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम् ।उवाच परमप्रीतो धर्मनेत्र ॥
  9. 9
    अत्यद्भुतमिदं वाक्यं तव राम । सर्वभूतानां त्वमेव रघुनन्दन ॥
  10. 10
    राम त्वां ये च पश्यन्ति केचन ।पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ॥
  11. 11
    ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि ।हतास्ते यमदण्डेन सद्यो ॥
  12. 12
    ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् ।भुवि त्वां कथयन्तो ऽपि सिद्धिमेष्यन्ति राघव ॥
  13. 13
    गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम् ।प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥
  14. 14
    एवमुक्तस्तु मुनिना प्रग्रहो नृपः ।अभ्यवादयत प्राज्ञस्तमृषिं ॥
  15. 15
    अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान् ।अध्यारोहत्तदव्यग्रः पुष्पकं ॥
  16. 16
    तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः ।अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥
  17. 17
    स ददृशे रामः पुष्पके हेमभूषिते ।शशी मेघसमीपस्थो यथा ॥
  18. 18
    ततो ऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ।अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ॥
  19. 19
    ततो विसृज्य रुचिरं पुष्पकं तत् ।विसर्जयित्वा गच्छेति ते ऽस्त्विति च प्रभुः ॥
  20. 20
    कक्षान्तरविनिक्षिप्तं द्वास्स्थं रामो ऽब्रवीद्वचः ।लक्ष्मणं भरतं चैव गत्वा तौ ।ममागमनमाख्याय शब्दापयत मा चिरम् ॥