Vālmīki Rāmāyaṇa · Bharata's Counsel on the Rājasūya
Tap a verse for its meaning
- 1तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः । कुमारावाहूय राघवाय न्यवेदयत् ॥
- 2दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ । तदा रामो वाक्यमेतदुवाच ह ॥
- 3कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ।धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ॥
- 4अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम ।धर्मप्रसाधकं ह्येतत् ॥
- 5युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् ।सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥
- 6इष्ट्वा तु राजसूयेन मित्रः ।सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥
- 7सोमश्च राजसूयेन इष्ट्वा धर्मेण ।प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥
- 8अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ।हितं चायतियुक्तं च कर्तुमर्हथः ॥
- 9श्रुत्वा तु राघवस्यैतद्वाक्यं ।भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥
- 10त्वयि धर्मः परः साधो त्वयि सर्वा ।प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥
- 11महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ।निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ॥
- 12पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल ।पृथिव्या ऽसि प्राणिनामपि राघव ॥
- 13स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप ।पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥
- 14पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ।सर्वेषां भविता तत्र सङ्क्षयः ॥
- 15स त्वं पुरुषशार्दूल गुणैरतुलविक्रम ।पृथिवीं नार्हसे हन्तुं वशे हि तव ॥
- 16भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा ।प्रहर्षमतुलं लेभे रामः ॥
- 17उवाच च शुभं वाक्यं ।प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ॥
- 18इदं वचनमक्लीबं त्वया ।व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥
- 19एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् । धर्मज्ञ तव च ॥
- 20लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ।बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज ।तस्माच्छृणोमि ते वाक्यं साधु युक्तं ॥