Leave

Vālmīki Rāmāyaṇa · The Transformation of King Ila

Tap a verse for its meaning

  1. 1
    तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं ।प्रत्युवाच प्रहसन्राघवो वचः ॥
  2. 2
    एवमेव यथा वदसि लक्ष्मण ।वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥
  3. 3
    श्रूयते हि पुरा कर्दमस्य प्रजापतेः ।पुत्रो बाह्लीश्वरः श्रीमानिलो नाम ॥
  4. 4
    स राजा पृथिवीं सर्वां वशे कृत्वा ।राज्यं चैव नरव्याघ्र र्यपालयत् ॥
  5. 5
    सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।नागराक्षसगन्धर्वैर्यक्षैश्च ॥
  6. 6
    पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ।अबिभ्यंश्च त्रयो लोकाः महात्मनः ॥
  7. 7
    स राजा तादृशो ह्यासीद्धर्मे वीर्ये च ।बुद्ध्या च परमोदारो बाह्लीकेशो ॥
  8. 8
    स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।चैत्रे मासि सभृत्यबलवाहनः ॥
  9. 9
    च नृपो ऽरण्ये मृगाञ्छतसहस्रशः ।हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥
  10. 10
    नानामृगाणामयुतं वध्यमानं महात्मना ।यत्र जातो महासेनस्तं देशमुपचक्रमे ॥
  11. 11
    तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः ।रमयामास सर्वैरनुचरैः सह ॥
  12. 12
    कृत्वा स्त्रीरूपमात्मानमुमेशो ।देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥
  13. 13
    ये तु तत्र वनोद्देशे सत्त्वाः ।वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ॥
  14. 14
    यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह ।एतस्मिन्नन्तरे राजा स इलः ।निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥
  15. 15
    स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् ।आत्मानं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥
  16. 16
    तस्य दुःखं महच्चासीद्दृष्ट्वा ऽऽत्मानं तथागतम् ।उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥
  17. 17
    ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।जगाम शरणं राजा सभृत्यबलवाहनः ॥
  18. 18
    ततः सह देव्या महेश्वरः ।प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥
  19. 19
    उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल । सौम्य वरं वरय सुव्रत ॥
  20. 20
    ततः स राजा प्रत्याख्यातो महात्मना ।न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥
  21. 21
    ततः शोकेन महता शैलराजसुतां नृपः । ह्युमां देवीं सर्वेणैवान्तरात्मना ॥
  22. 22
    ईशे वराणां लोकानामसि भामिनी । देवी भज सौम्येन चक्षुषा ॥
  23. 23
    हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।प्रत्युवाच शुभं वाक्यं देवी ॥
  24. 24
    अर्धस्य देवो वरदो तव ह्यहम् ।तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥
  25. 25
    तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥
  26. 26
    यदि देवि मे रूपेणाप्रतिमा भुवि ।मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥
  27. 27
    ईप्सितं तस्य विज्ञाय देवी ।प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥
  28. 28
    राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।स्त्रीभूतश्च परं मासं न स्मरिष्यसि ॥
  29. 29
    एवं स राजा पुरुषो मासं भूत्वाथ । नारी मासमेकमिला ऽभवत् ॥