Leave

Vālmīki Rāmāyaṇa · Vālmīki's Testimony

Tap a verse for its meaning

  1. 1
    तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।ऋषीन्सर्वान्महातेजाः शब्दापयति ॥
  2. 2
    वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।विश्वामित्रो दुर्वासाश्च महातपाः ॥
  3. 3
    पुलस्त्यो ऽपि तथा शक्तिर्भार्गवश्चैव वामनः ।मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च ॥
  4. 4
    गर्गश्च च्यवनश्चैव शतानन्दश्च ।भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥
  5. 5
    नारदः पर्वतश्चैव गौतमश्च महायशाः ।कात्यायनः सुयज्ञश्च ह्यगस्त्य ॥
  6. 6
    एते चान्ये च बहवो मुनयः । सर्व एव समागताः ॥
  7. 7
    राक्षसाश्च वानराश्च महाबलाः ।सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥
  8. 8
    क्षत्रिया ये च शूद्राश्च वैश्याश्चैव ।नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥
  9. 9
    कर्मनिष्ठाः योगनिष्ठास्तथापरे ।सीताशपथवीक्षार्थं सर्व एव समागताः ॥
  10. 10
    तदा समागतं सर्वमश्मभूतमिवाचलम् ।श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥
  11. 11
    तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।कृताञ्जलि कृत्वा रामं मनोगतम् ॥
  12. 12
    दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥
  13. 13
    ततो सर्वेषामेवमाबभौ ।दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥
  14. 14
    साधु रामेति केचित्तु साधु सीतेति चापरे ।उभावेव च तत्रान्ये सम्प्रचुक्रुशुः ॥
  15. 15
    ततो मध्ये जनौघस्य प्रविश्य ।सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥
  16. 16
    इयं दाशरथे सीता धर्मचारिणी । परित्यक्ता ममाश्रमसमीपतः ॥
  17. 17
    लोकापवादभीतस्य तव राम महाव्रत ।प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥
  18. 18
    इमौ तु जानकीपुत्रावुभौ च ।सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥
  19. 19
    प्रचेतसो ऽहं दशमः पुत्रो राघवनन्दन ।न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥
  20. 20
    बहुवर्षसहस्राणि मया कृता ।नोपाश्नीयां फलं तस्या दुष्टेयं यदि ॥
  21. 21
    मनसा कर्मणा वाचा भूतपूर्वं न ।तस्याः फलमुपाश्नीयामपापा मैथिली यदि ॥
  22. 22
    अहं पञ्चसु भूतेषु राघव ।विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥
  23. 23
    इयं शुद्धसमाचारा अपापा ।लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥
  24. 24
    तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा । या त्यक्ता त्वया प्रियतमा विदिता ऽपि शुद्धा ॥