Leave

Vālmīki Rāmāyaṇa · The Summons to Sītā

Tap a verse for its meaning

  1. 1
    रामो बहून्यहान्येवं तद्गीतं परमं शुभम् ।शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ॥
  2. 2
    तस्मिन्गीते तु विज्ञाय सीतापुत्रौ ।तस्याः परिषदो मध्ये रामो वचनमब्रवीत् ।दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ॥
  3. 3
    मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ॥
  4. 4
    यदि यदि वा ।करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ॥
  5. 5
    छन्दं मुनेश्च विज्ञाय सीतायाश्च ।प्रत्ययं दातुकामायास्ततः शंसत मे लघु ॥
  6. 6
    श्वः प्रभाते तु शपथं मैथिली जनकात्मजा ।करोतु परिषन्मध्ये शोधनार्थं ममैव च ॥
  7. 7
    श्रुत्वा तु तद्वचः परममद्भुतम् ।दूताः सम्प्रययुर्बाढं यत्रास्ते ॥
  8. 8
    ते महात्मानं ज्वलन्तममितप्रभम् ।ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च ॥
  9. 9
    तेषां तद्व्याहृतं श्रुत्वा रामस्य च मनोगतम् ।विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् ॥
  10. 10
    एवं भवतु भद्रं वो यथा वदति ।तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः ॥
  11. 11
    तथोक्ता मुनिना सर्वे राजदूता ।प्रत्येत्य राघवं क्षिप्रं मुनिवाक्यं बभाषिरे ॥
  12. 12
    ततः श्रुत्वा वाक्यं महात्मनः ।ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत ॥
  13. 13
    भगवन्तः सशिष्या वै सानुगाश्च ।पश्यन्तु सीताशपथं यश्चैवान्यो ऽपि काङ्क्षते ॥
  14. 14
    तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।सर्वेषामृषिमुख्यानां साधुवादो महानभूत् ॥
  15. 15
    राजानश्च महात्मानः प्रशंसन्ति स्म राघवम् ।उपपन्नं त्वय्येव भुवि नान्यतः ॥
  16. 16
    एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः ।विसर्जयामास तदा सर्वांस्ताञ्छत्रुसूदनः ॥
  17. 17
    इति सम्प्रविचार्य श्वोभूते शपथस्य निश्चयं वै ।विससर्ज मुनीन्नृपांश्च सर्वान्स महात्मा महतो ॥