Vālmīki Rāmāyaṇa · The Emissary from Kekaya
Tap a verse for its meaning
- 1कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः ।स्वगुरुं प्रेषयामास महात्मने ।गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ॥
- 2दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ॥
- 3कम्बलानि च चित्रवस्त्रमथोत्तमम् । प्रददौ राजा शुभान्याभरणानि च ॥
- 4श्रुत्वा तु धीमान्महर्षिं गार्ग्यमागतम् ।मातुलस्याश्वपतिनः प्रहितं त ॥
- 5प्रत्युद्गम्य च क्रोशमात्रं ।गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ॥
- 6तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च ।पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च ।उपविष्टं महाभागं प्रष्टुं प्रचक्रमे ॥
- 7किमाह वाक्यं यदर्थं भगवानिह ।प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव ॥
- 8रामस्य भाषितं श्रुत्वा कार्यविस्तरम् ।वक्तुमद्भुतसङ्काशं पचक्रमे ॥
- 9मातुलस्ते वाक्यमाह नरर्षभः ।तिसंयुक्तं श्रूयतां यदि रोचते ॥
- 10अयं फलमूलोपशोभितः ।सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ॥
- 11तं च रक्षन्ति सायुधा युद्धकोविदाः ।शैलूषस्य सुता वीर वै महाबलाः ॥
- 12तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् ।निवेशय महाबाहो स्वे पुरे ॥
- 13अन्यस्य न गतिस्तत्र देशः परमशोभनः ।रोचतां ते नाहं त्वामहितं वदे ॥
- 14तच्छ्रुत्वा प्रीतो महर्षेर्मातुलस्य च ।उवाच बाढमित्येव भरतं चान्ववैक्षत ॥
- 15सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् ।इमौ तं देशं ब्रह्मर्षे विचरिष्यतः ॥
- 16भरतस्यात्मजौ वीरौ पुष्कल एव च ।मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ॥
- 17भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ ।निहत्य गन्धर्वसुता विभजिष्यतः ॥
- 18निवेश्य ते पुरवरे सन्निवेश्य च ।आगमिष्यति मे भूयः सकाशमतिधार्मिकः ॥
- 19ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् ।आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ॥
- 20च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् । सह सैन्येन कुमाराभ्यां विनिर्ययौ ॥
- 21सा शक्रयुक्तेव नगरान्निर्ययावथ ।राघवानुगता दूरं दुराधर्षा ॥
- 22मांसादानि च सत्त्वानि सुमहान्ति च ।अनुजग्मुर्हि भरतं रुधिरस्य ॥
- 23भूतग्रामाश्च बहवो सुदारुणाः ।गन्धर्वपुत्रमांसानि भोक्तुकामाः ॥
- 24सिंहव्याघ्रवराहाणां खेचराणां च ।बहूनि वै सहस्राणि सेनाया ययुरग्रतः ॥
- 25अध्यर्धमासमुषिता पथि निरामया ।हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥