Leave

Vālmīki Rāmāyaṇa · The Conquest of the Gandharvas

Tap a verse for its meaning

  1. 1
    श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ।युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥
  2. 2
    स निर्ययौ महता केकयाधिपः ।त्वरमाणो ऽभिचक्राम गन्धर्वा ॥
  3. 3
    भरतश्च युधाजिच्च समेतौ ।गन्धर्वनगरं प्राप्तौ सबलौ ॥
  4. 4
    श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ।योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ॥
  5. 5
    ततः समभवद्युद्धं तुमुलं ।सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥
  6. 6
    खड्गशक्तिधनुर्ग्राहा नद्यः । प्रवृत्ताः सर्वतोदिशम् ॥
  7. 7
    ततो क्रुद्धः कालस्यास्त्रं सुदारुणम् ।संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥
  8. 8
    ते बद्धाः संवर्तेन विदारिताः ।क्षणेनाभिहतास्तेन तिस्रः महात्मनाम् ॥
  9. 9
    तं घातं घोरसङ्काशं न स्मरन्ति । तादृशानां महात्मनाम् ॥
  10. 10
    हतेषु तेषु सर्वेषु भरतः ।निवेशयामास तदा समृद्धे द्वे ॥
  11. 11
    तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते ।गन्धर्वदेशे रुचिरे च सः ॥
  12. 12
    धनरत्नौघसङ्कीर्णे काननैरुपशोभिते ।अन्योन्यसङ्घर्षकृते ॥
  13. 13
    उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः ।उद्यानयानसम्पूर्णे ॥
  14. 14
    उभे रम्ये विस्तरैरुपशोभिते ।गृहमुख्यैः सुरुचिरै ॥
  15. 15
    शोभिते शोभनीयैश्च ।तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ॥
  16. 16
    निवेश्य पञ्चभिर्वर्षैर्भरतो ।पुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥
  17. 17
    सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ।राघवं भरतः श्रीमान्ब्रह्माणमिव ॥
  18. 18
    शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ।निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ॥