Vālmīki Rāmāyaṇa · The Departure of Lakṣmaṇa
Tap a verse for its meaning
- 1अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् ।राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् ॥
- 2न संतापं महाबाहो मदर्थं कर्तुमर्हसि ।पूर्वनिर्माणबद्धा हि गतिरीदृशी ॥
- 3जहि मां सौम्य विस्रब्धं प्रतिज्ञां परिपालय । काकुत्स्थ प्रयान्ति नरकं नराः ॥
- 4यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि ।जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव ॥
- 5लक्ष्मणेन तथोक्तस्तु रामः ।मन्त्रिणः समुपानीय तथैव च ॥
- 6अब्रवीच्च तदा वृत्तं तेषां मध्ये स राघवः ।दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च ॥
- 7तच्छ्रुत्वा मन्त्रिणः सर्वे समासत ।वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह ॥
- 8दृष्टमेतन्महाबाहो क्षयं ते ।लक्ष्मणेन वियोगश्च तव राम महायशः ॥
- 9त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृताः ।विनष्टायां प्रतिज्ञायां धर्मो ऽपि च लयं व्रजेत् ॥
- 10ततो धर्मे विनष्टे तु त्रैलोक्यं ।सदेवर्षिगणं सर्वं विनश्येत्तु न संशयः ॥
- 11स त्वं त्रैलोक्यस्याभिपालनात् ।लक्ष्मणेन विना चाद्य जगत्स्वस्थं कुरुष्व ह ॥
- 12तेषां तत्समवेतानां वाक्यं ।श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् ॥
- 13विसर्जये त्वां मा भू ।त्यागो वधो वा विहितः साधूनां तूभयं समम् ॥
- 14रामेण भाषिते वाक्ये ।लक्ष्मणस्त्वरितं प्रायात्स्वगृहं न विवेश ह ॥
- 15स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः । सर्वस्रोतांसि निःश्वासं न मुमोच ह ॥
- 16अनिःश्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः ।देवाः सर्षिगणाः सर्वे पुष्पैरभ्यकिरंस्तदा ॥
- 17अदृश्यं सर्वमनुजैः सशरीरं महाबलम् ।प्रगृह्य लक्ष्मणं शक्रस्त्रिदिवं संविवेश ह ॥
- 18ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः ।दृष्ट्वा सर्वे ऽपूजयन् समहर्षयः ॥