Vālmīki Rāmāyaṇa · The Ascent of Rāma
Tap a verse for its meaning
- 1अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम् । पुण्यसलिलां ददर्श ॥
- 2तां नदीमाकुलावर्तां सर्वत्रानुसरन्नृपः ।आगतः सप्रजो रामस्तं देशं रघुनन्दनः ॥
- 3अथ तस्मिन्मुहूर्ते तु ब्रह्मा ।सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥
- 4आययौ यत्र स्वर्गाय समुपस्थितः ।विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥
- 5दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् । स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥
- 6पुण्या वाता ववुश्चैव गन्धवन्तः सुखप्रदाः ।पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥
- 7तस्मिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसङ्कुले ।सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥
- 8ततः पितामहो वाणीमन्तरिक्षादभाषत ।आगच्छ भद्रं ते दिष्ट्या प्राप्तो ऽसि ॥
- 9भ्रातृभिः सह देवाभैः प्रविशस्व स्विकां तनुम् ।यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् ।वैष्णवीं तां महातेजस्तद्वाकाशं सनातनम् ॥
- 10त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ।ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ।त्वामचिन्त्यं महद्भूतमक्षयं सर्वसङ्ग्रहम् ॥
- 11यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् ॥
- 12पितामहवचः श्रुत्वा विनिश्चित्य महामतिः ।विवेश वैष्णवं तेजः ॥
- 13ततो देवं पूजयन्ति स्म देवताः ।साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥
- 14ये च दिव्या गन्धर्वाप्सरसश्च याः ।सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः ॥
- 15सर्वं पुष्टं प्रमुदितं ।साधु साध्विति तैर्देवैस्त्रिदिवं गतकल्मषम् ॥
- 16अथ विष्णुर्महातेजाः पितामहमुवाच ह ।एषां लोकं जनौघानां दातुमर्हसि ॥
- 17इमे हि सर्वे स्नेहान्मामनुयाता यशस्विनः ।भक्ता हि भजितव्याश्च त्यक्तात्मानश्च मत्कृते ॥
- 18तच्छ्रुत्वा विष्णुवचनं ब्रह्मा प्रभुः ।लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः ॥
- 19यच्च तिर्यग्गतं किञ्चित्त्वामेवमनुचिन्तयत् ।प्राणांस्त्यक्ष्यति भक्त्या वै तत्सन्ताने निवत्स्यति ॥
- 20सर्वैर्ब्रह्मगुणैर्युक्ते ॥
- 21वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।येभ्यो विनिस्सृताः सर्वे सुरेभ्यः सुरसम्भवाः ॥
- 22तेषु प्रविविशे चैव ।पश्यतां सर्वदेवानां स्वान् प्रतिपेदिरे ॥
- 23तथोक्तवति देवेशे गोप्रतारमुपागताः ।भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः ॥
- 24अवगाह्य जलं यो यः प्राणी ह्यासीत् प्रहृष्टवत् ।मानुषं देहमुत्सृज्य विमानं सो ऽध्यरोहत ॥
- 25तिर्यग्योनिगतानां च शतानि सरयूजलम् ।सम्प्राप्य त्रिदिवं जग्मुः प्रभासुरवपूंषि च ।दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् ॥
- 26गत्वा तु सरयूतोयं ।प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् ॥
- 27तस्मिन्नपि समापन्ना ।ते ऽपि स्वर्गं प्रविविशुर्देहान्निक्षिप्य चाम्भसि ॥
- 28ततः समागतान्सर्वान्स्थाप्य लोकगुरुर्दिवि ।जगाम त्रिदशैः सार्धं सदा हृष्टैर्दिवं महत् ॥