Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · The Descents of the Lord
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
जगृहे
पौरुषं
रूपं
भगवान्
महदादिभिः
।
संभूतं
षोडशकलमादौ
लोकसिसृक्षया
2
▾
Meaning
Keep
यस्याम्भसि
शयानस्य
योगनिद्रां
वितन्वतः
।
नाभिह्रदाम्बुजादासीद्ब्रह्मा
विश्वसृजां
पतिः
3
▾
Meaning
Keep
यस्यावयवसंस्थानैः
कल्पितो
लोकविस्तरः
।
तद्वै
भगवतो
रूपं
विशुद्धं
सत्त्वमूर्जितम्
4
▾
Meaning
Keep
पश्यन्त्यदो
रूपमदभ्रचक्षुषा
सहस्रपादोरुभुजाननाद्भुतम्
।
सहस्रमूर्धश्रवणाक्षिनासिकं
सहस्रमौल्यम्बरकुण्डलोल्लसत्
5
▾
Meaning
Keep
एतन्नानावताराणां
निधानं
बीजमव्ययम्
।
यस्यांशांशेन
सृज्यन्ते
देवतिर्यङ्नरादयः
6
▾
Meaning
Keep
स
एव
प्रथमं
देवः
कौमारं
सर्गमाश्रितः
।
चचार
दुश्चरं
ब्रह्मा
ब्रह्मचर्यमखण्डितम्
7
▾
Meaning
Keep
द्वितीयं
तु
भवायास्य
रसातलगतां
महीम्
।
उद्धरिष्यन्नुपादत्त
यज्ञेशः
सौकरं
वपुः
8
▾
Meaning
Keep
तृतीयमृषिसर्गं
च
देवर्षित्वमुपेत्य
सः
।
तन्त्रं
सात्वतमाचष्ट
नैष्कर्म्यं
कर्मणां
यतः
9
▾
Meaning
Keep
तुर्ये
धर्मकलासर्गे
नरनारायणावृषी
।
भूत्वाऽऽत्मोपशमोपेतमकरोद्दुश्चरं
तपः
10
▾
Meaning
Keep
पञ्चमः
कपिलो
नाम
सिद्धेशः
कालविप्लुतम्
।
प्रोवाचासुरये
सांख्यं
तत्त्वग्रामविनिर्णयम्
11
▾
Meaning
Keep
षष्ठे
अत्रेरपत्यत्वं
वृतः
प्राप्तोऽनसूयया
।
आन्वीक्षिकीमलर्काय
प्रह्लादादिभ्य
ऊचिवान्
12
▾
Meaning
Keep
ततः
सप्तम
आकूत्यां
रुचेर्यज्ञोऽभ्यजायत
।
स
यामाद्यैः
सुरगणैरपात्स्वायम्भुवान्तरम्
13
▾
Meaning
Keep
अष्टमे
मेरुदेव्यां
तु
नाभेर्जात
उरुक्रमः
।
दर्शयन्
वर्त्म
धीराणां
सर्वाश्रमनमस्कृतम्
14
▾
Meaning
Keep
ऋषिभिर्याचितो
भेजे
नवमं
पार्थिवं
वपुः
।
दुग्धेमामोषधीर्विप्रास्तेनायं
स
उशत्तमः
15
▾
Meaning
Keep
रूपं
स
जगृहे
मात्स्यं
चाक्षुषोदधिसंप्लवे
।
नाव्यारोप्य
महीमय्यामपाद्वैवस्वतं
मनुम्
16
▾
Meaning
Keep
सुरासुराणामुदधिं
मथ्नतां
मन्दराचलम्
।
दध्रे
कमठरूपेण
पृष्ठ
एकादशे
विभुः
17
▾
Meaning
Keep
धान्वन्तरं
द्वादशमं
त्रयोदशममेव
च
।
अपाययत्सुरानन्यान्
मोहिन्या
मोहयन्
स्त्रिया
18
▾
Meaning
Keep
चतुर्दशं
नारसिंहं
बिभ्रद्दैत्येन्द्रमूर्जितम्
।
ददार
करजैर्वक्षस्येरकां
कटकृद्यथा
19
▾
Meaning
Keep
पञ्चदशं
वामनकं
कृत्वागादध्वरं
बलेः
।
पदत्रयं
याचमानः
प्रत्यादित्सुस्त्रिविष्टपम्
20
▾
Meaning
Keep
अवतारे
षोडशमे
पश्यन्
ब्रह्मद्रुहो
नृपान्
।
त्रिःसप्तकृत्वः
कुपितो
निःक्षत्रामकरोन्महीम्
21
▾
Meaning
Keep
ततः
सप्तदशे
जातः
सत्यवत्यां
पराशरात्
।
चक्रे
वेदतरोः
शाखा
दृष्ट्वा
पुंसोऽल्पमेधसः
22
▾
Meaning
Keep
नरदेवत्वमापन्नः
सुरकार्यचिकीर्षया
।
समुद्रनिग्रहादीनि
चक्रे
वीर्याण्यतः
परम्
23
▾
Meaning
Keep
एकोनविंशे
विंशतिमे
वृष्णिषु
प्राप्य
जन्मनी
।
रामकृष्णाविति
भुवो
भगवानहरद्भरम्
24
▾
Meaning
Keep
ततः
कलौ
सम्प्रवृत्ते
सम्मोहाय
सुरद्विषाम्
।
बुद्धो
नाम्नाञ्जनसुतः
कीकटेषु
भविष्यति
25
▾
Meaning
Keep
अथासौ
युगसन्ध्यायां
दस्युप्रायेषु
राजसु
।
जनिता
विष्णुयशसो
नाम्ना
कल्किर्जगत्पतिः
26
▾
Meaning
Keep
अवतारा
ह्यसंख्येया
हरेः
सत्त्वनिधेर्द्विजाः
।
यथाविदासिनः
कुल्याः
सरसः
स्युः
सहस्रशः
27
▾
Meaning
Keep
ऋषयो
मनवो
देवा
मनुपुत्रा
महौजसः
।
कलाः
सर्वे
हरेरेव
सप्रजापतयस्तथा
28
▾
Meaning
Keep
एते
चांशकलाः
पुंसः
कृष्णस्तु
भगवान्
स्वयम्
।
इन्द्रारिव्याकुलं
लोकं
मृडयन्ति
युगे
युगे
29
▾
Meaning
Keep
जन्म
गुह्यं
भगवतो
य
एतत्प्रयतो
नरः
।
सायं
प्रातर्गृणन्
भक्त्या
दुःखग्रामाद्विमुच्यते
30
▾
Meaning
Keep
एतद्रूपं
भगवतो
ह्यरूपस्य
चिदात्मनः
।
मायागुणैर्विरचितं
महदादिभिरात्मनि
31
▾
Meaning
Keep
यथा
नभसि
मेघौघो
रेणुर्वा
पार्थिवोऽनिले
।
एवं
द्रष्टरि
दृश्यत्वमारोपितमबुद्धिभिः
32
▾
Meaning
Keep
अतः
परं
यदव्यक्तमव्यूढगुणव्यूहितम्
।
अदृष्टाश्रुतवस्तुत्वात्
स
जीवो
यत्पुनर्भवः
33
▾
Meaning
Keep
यत्रेमे
सदसद्रूपे
प्रतिषिद्धे
स्वसंविदा
।
अविद्ययाऽऽत्मनि
कृते
इति
तद्ब्रह्मदर्शनम्
34
▾
Meaning
Keep
यद्येषोपरता
देवी
माया
वैशारदी
मतिः
।
सम्पन्न
एवेति
विदुर्महिम्नि
स्वे
महीयते
35
▾
Meaning
Keep
एवं
जन्मानि
कर्माणि
ह्यकर्तुरजनस्य
च
।
वर्णयन्ति
स्म
कवयो
वेदगुह्यानि
हृत्पतेः
36
▾
Meaning
Keep
स
वा
इदं
विश्वममोघलीलः
सृजत्यवत्यत्ति
न
सज्जतेऽस्मिन्
।
भूतेषु
चान्तर्हित
आत्मतन्त्रः
षाड्वर्गिकं
जिघ्रति
षड्गुणेशः
37
▾
Meaning
Keep
न
चास्य
कश्चिन्निपुणेन
धातु-
रवैति
जन्तुः
कुमनीष
ऊतीः
।
नामानि
रूपाणि
मनोवचोभिः
सन्तन्वतो
नटचर्यामिवाज्ञः
38
▾
Meaning
Keep
स
वेद
धातुः
पदवीं
परस्य
दुरन्तवीर्यस्य
रथाङ्गपाणेः
।
योऽमायया
सन्ततयानुवृत्त्या
भजेत
तत्पादसरोजगन्धम्
39
▾
Meaning
Keep
अथेह
धन्या
भगवन्त
इत्थं
यद्वासुदेवेऽखिललोकनाथे
।
कुर्वन्ति
सर्वात्मकमात्मभावं
न
यत्र
भूयः
परिवर्त
उग्रः
40
▾
Meaning
Keep
इदं
भागवतं
नाम
पुराणं
ब्रह्मसम्मितम्
।
उत्तमश्लोकचरितं
चकार
भगवान्
ऋषिः
41
▾
Meaning
Keep
निःश्रेयसाय
लोकस्य
धन्यं
स्वस्त्ययनं
महत्
।
तदिदं
ग्राहयामास
सुतमात्मवतां
वरम्
42
▾
Meaning
Keep
सर्ववेदेतिहासानां
सारं
सारं
समुद्धृतम्
।
स
तु
संश्रावयामास
महाराजं
परीक्षितम्
43
▾
Meaning
Keep
प्रायोपविष्टं
गङ्गायां
परीतं
परमर्षिभिः
।
कृष्णे
स्वधामोपगते
धर्मज्ञानादिभिः
सह
44
▾
Meaning
Keep
कलौ
नष्टदृशामेष
पुराणार्कोऽधुनोदितः
।
तत्र
कीर्तयतो
विप्रा
विप्रर्षेर्भूरितेजसः
45
▾
Meaning
Keep
अहं
चाध्यगमं
तत्र
निविष्टस्तदनुग्रहात्
।
सोऽहं
वः
श्रावयिष्यामि
यथाधीतं
यथामति
Previous
←
The Highest Calling
Next
Vyasa's Discontent
→