Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Vyasa's Discontent
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
इति
ब्रुवाणं
संस्तूय
मुनीनां
दीर्घसत्रिणाम्
।
वृद्धः
कुलपतिः
सूतं
बह्वृचः
शौनकोऽब्रवीत्
2
▾
Meaning
Keep
सूत
सूत
महाभाग
वद
नो
वदतां
वर
।
कथां
भागवतीं
पुण्यां
यदाह
भगवाञ्छुकः
3
▾
Meaning
Keep
कस्मिन्
युगे
प्रवृत्तेयं
स्थाने
वा
केन
हेतुना
।
कुतः
संचोदितः
कृष्णः
कृतवान्
संहितां
मुनिः
4
▾
Meaning
Keep
तस्य
पुत्रो
महायोगी
समदृङ्निर्विकल्पकः
।
एकान्तमतिरुन्निद्रो
गूढो
मूढ
इवेयते
5
▾
Meaning
Keep
दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं
देव्यो
ह्रिया
परिदधुर्न
सुतस्य
चित्रम्
।
तद्वीक्ष्य
पृच्छति
मुनौ
जगदुस्तवास्ति
स्त्रीपुम्भिदा
न
तु
सुतस्य
विविक्तदृष्टेः
6
▾
Meaning
Keep
कथमालक्षितः
पौरैः
संप्राप्तः
कुरुजाङ्गलान्
।
उन्मत्तमूकजडवद्विचरन्
गजसाह्वये
7
▾
Meaning
Keep
कथं
वा
पाण्डवेयस्य
राजर्षेर्मुनिना
सह
।
संवादः
समभूत्तात
यत्रैषा
सात्वती
श्रुतिः
8
▾
Meaning
Keep
स
गोदोहनमात्रं
हि
गृहेषु
गृहमेधिनाम्
।
अवेक्षते
महाभागस्तीर्थीकुर्वंस्तदाश्रमम्
9
▾
Meaning
Keep
अभिमन्युसुतं
सूत
प्राहुर्भागवतोत्तमम्
।
तस्य
जन्म
महाश्चर्यं
कर्माणि
च
गृणीहि
नः
10
▾
Meaning
Keep
स
सम्राट्
कस्य
वा
हेतोः
पाण्डूनां
मानवर्धनः
।
प्रायोपविष्टो
गङ्गायामनादृत्याधिराट्
श्रियम्
11
▾
Meaning
Keep
नमन्ति
यत्पादनिकेतमात्मनः
शिवाय
हानीय
धनानि
शत्रवः
।
कथं
स
वीरः
श्रियमङ्ग
दुस्त्यजां
युवैषतोत्स्रष्टुमहो
सहासुभिः
12
▾
Meaning
Keep
शिवाय
लोकस्य
भवाय
भूतये
य
उत्तमश्लोकपरायणा
जनाः
।
जीवन्ति
नात्मार्थमसौ
पराश्रयं
मुमोच
निर्विद्य
कुतः
कलेवरम्
13
▾
Meaning
Keep
तत्सर्वं
नः
समाचक्ष्व
पृष्टो
यदिह
किञ्चन
।
मन्ये
त्वां
विषये
वाचां
स्नातमन्यत्र
छान्दसात्
14
▾
Meaning
Keep
द्वापरे
समनुप्राप्ते
तृतीये
युगपर्यये
।
जातः
पराशराद्योगी
वासव्यां
कलया
हरेः
15
▾
Meaning
Keep
स
कदाचित्
सरस्वत्या
उपस्पृश्य
जलं
शुचिः
।
विविक्तदेश
आसीन
उदिते
रविमण्डले
16
▾
Meaning
Keep
परावरज्ञः
स
ऋषिः
कालेनाव्यक्तरंहसा
।
युगधर्मव्यतिकरं
प्राप्तं
भुवि
युगे
युगे
17
▾
Meaning
Keep
भौतिकानां
च
भावानां
शक्तिह्रासं
च
तत्कृतम्
।
अश्रद्दधानान्
निःसत्त्वान्
दुर्मेधान्
ह्रसितायुषः
18
▾
Meaning
Keep
दुर्भगांश्च
जनान्
वीक्ष्य
मुनिर्दिव्येन
चक्षुषा
।
सर्ववर्णाश्रमाणां
यद्दध्यौ
हितममोघदृक्
19
▾
Meaning
Keep
चातुर्होत्रं
कर्म
शुद्धं
प्रजानां
वीक्ष्य
वैदिकम्
।
व्यदधाद्यज्ञसन्तत्यै
वेदमेकं
चतुर्विधम्
20
▾
Meaning
Keep
ऋग्यजुःसामाथर्वाख्या
वेदाश्चत्वार
उद्धृताः
।
इतिहासपुराणं
च
पञ्चमो
वेद
उच्यते
21
▾
Meaning
Keep
तत्रर्ग्वेदधरः
पैलः
सामगो
जैमिनिः
कविः
।
वैशम्पायन
एवैको
निष्णातो
यजुषामुत
22
▾
Meaning
Keep
अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो
मुनिः
।
इतिहासपुराणानां
पिता
मे
रोमहर्षणः
23
▾
Meaning
Keep
त
एत
ऋषयो
वेदं
स्वं
स्वं
व्यस्यन्ननेकधा
।
शिष्यैः
प्रशिष्यैस्तच्छिष्यैर्वेदास्ते
शाखिनोऽभवन्
24
▾
Meaning
Keep
त
एव
वेदा
दुर्मेधैर्धार्यन्ते
पुरुषैर्यथा
।
एवं
चकार
भगवान्
व्यासः
कृपणवत्सलः
25
▾
Meaning
Keep
स्त्रीशूद्रद्विजबन्धूनां
त्रयी
न
श्रुतिगोचरा
।
कर्मश्रेयसि
मूढानां
श्रेय
एवं
भवेदिह
।
इति
भारतमाख्यानं
कृपया
मुनिना
कृतम्
26
▾
Meaning
Keep
एवं
प्रवृत्तस्य
सदा
भूतानां
श्रेयसि
द्विजाः
।
सर्वात्मकेनापि
यदा
नातुष्यद्धृदयं
ततः
27
▾
Meaning
Keep
नातिप्रसीदद्धृदयः
सरस्वत्यास्तटे
शुचौ
।
वितर्कयन्
विविक्तस्थ
इदं
प्रोवाच
धर्मवित्
28
▾
Meaning
Keep
धृतव्रतेन
हि
मया
छन्दांसि
गुरवोऽग्नयः
।
मानिता
निर्व्यलीकेन
गृहीतं
चानुशासनम्
29
▾
Meaning
Keep
भारतव्यपदेशेन
ह्याम्नायार्थश्च
दर्शितः
।
दृश्यते
यत्र
धर्मादि
स्त्रीशूद्रादिभिरप्युत
30
▾
Meaning
Keep
तथापि
बत
मे
दैह्यो
ह्यात्मा
चैवात्मना
विभुः
।
असम्पन्न
इवाभाति
ब्रह्मवर्चस्यसत्तमः
31
▾
Meaning
Keep
किं
वा
भागवता
धर्मा
न
प्रायेण
निरूपिताः
।
प्रियाः
परमहंसानां
त
एव
ह्यच्युतप्रियाः
32
▾
Meaning
Keep
तस्यैवं
खिलमात्मानं
मन्यमानस्य
खिद्यतः
।
कृष्णस्य
नारदोऽभ्यागादाश्रमं
प्रागुदाहृतम्
33
▾
Meaning
Keep
तमभिज्ञाय
सहसा
प्रत्युत्थायागतं
मुनिः
।
पूजयामास
विधिवन्नारदं
सुरपूजितम्
Previous
←
The Descents of the Lord
Next
Narada Names What Is Missing
→