Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Asvatthaman Punished
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
निर्गते
नारदे
सूत
भगवान्
बादरायणः
।
श्रुतवांस्तदभिप्रेतं
ततः
किमकरोद्विभुः
2
▾
Meaning
Keep
ब्रह्मनद्यां
सरस्वत्यामाश्रमः
पश्चिमे
तटे
।
शम्याप्रास
इति
प्रोक्त
ऋषीणां
सत्रवर्धनः
3
▾
Meaning
Keep
तस्मिन्
स्व
आश्रमे
व्यासो
बदरीखण्डमण्डिते
।
आसीनोऽप
उपस्पृश्य
प्रणिदध्यौ
मनः
स्वयम्
4
▾
Meaning
Keep
भक्तियोगेन
मनसि
सम्यक्
प्रणिहितेऽमले
।
अपश्यत्
पुरुषं
पूर्वं
मायां
च
तदपाश्रयाम्
5
▾
Meaning
Keep
यया
सम्मोहितो
जीव
आत्मानं
त्रिगुणात्मकम्
।
परोऽपि
मनुतेऽनर्थं
तत्कृतं
चाभिपद्यते
6
▾
Meaning
Keep
अनर्थोपशमं
साक्षाद्भक्तियोगमधोक्षजे
।
लोकस्याजानतो
विद्वांश्चक्रे
सात्वतसंहिताम्
7
▾
Meaning
Keep
यस्यां
वै
श्रूयमाणायां
कृष्णे
परमपूरुषे
।
भक्तिरुत्पद्यते
पुंसः
शोकमोहभयापहा
8
▾
Meaning
Keep
स
संहितां
भागवतीं
कृत्वानुक्रम्य
चात्मजम्
।
शुकमध्यापयामास
निवृत्तिनिरतं
मुनिः
9
▾
Meaning
Keep
स
वै
निवृत्तिनिरतः
सर्वत्रोपेक्षको
मुनिः
।
कस्य
वा
बृहतीमेतामात्मारामः
समभ्यसत्
10
▾
Meaning
Keep
आत्मारामाश्च
मुनयो
निर्ग्रन्था
अप्युरुक्रमे
।
कुर्वन्त्यहैतुकीं
भक्तिमित्थम्भूतगुणो
हरिः
11
▾
Meaning
Keep
हरेर्गुणाक्षिप्तमतिर्भगवान्
बादरायणिः
।
अध्यगान्महदाख्यानं
नित्यं
विष्णुजनप्रियः
12
▾
Meaning
Keep
परीक्षितोऽथ
राजर्षेर्जन्मकर्मविलापनम्
।
संस्थां
च
पाण्डुपुत्राणां
वक्ष्ये
कृष्णकथोदयम्
13
▾
Meaning
Keep
यदा
मृधे
कौरवसृञ्जयानां
वीरेष्वथो
वीरगतिं
गतेषु
।
वृकोदराविद्धगदाभिमर्श-
भग्नोरुदण्डे
धृतराष्ट्रपुत्रे
14
▾
Meaning
Keep
भर्तुः
प्रियं
द्रौणिरिति
स्म
पश्यन्
कृष्णासुतानां
स्वपतां
शिरांसि
।
उपाहरद्विप्रियमेव
तस्य
जुगुप्सितं
कर्म
विगर्हयन्ति
15
▾
Meaning
Keep
माता
शिशूनां
निधनं
सुतानां
निशम्य
घोरं
परितप्यमाना
।
तदारुदद्वाष्पकलाकुलाक्षी
तां
सान्त्वयन्नाह
किरीटमाली
16
▾
Meaning
Keep
तदा
शुचस्ते
प्रमृजामि
भद्रे
यद्ब्रह्मबन्धोः
शिर
आततायिनः
।
गाण्डीवमुक्तैर्विशिखैरुपाहरे
त्वाऽऽक्रम्य
यत्स्नास्यसि
दग्धपुत्रा
17
▾
Meaning
Keep
इति
प्रियां
वल्गुविचित्रजल्पैः
स
सान्त्वयित्वाच्युतमित्रसूतः
।
अन्वाद्रवद्दंशित
उग्रधन्वा
कपिध्वजो
गुरुपुत्रं
रथेन
18
▾
Meaning
Keep
तमापतन्तं
स
विलक्ष्य
दूरात्
कुमारहोद्विग्नमना
रथेन
।
पराद्रवत्
प्राणपरीप्सुरुर्व्यां
यावद्गमं
रुद्रभयाद्यथा
कः
19
▾
Meaning
Keep
यदाशरणमात्मानमैक्षत
श्रान्तवाजिनम्
।
अस्त्रं
ब्रह्मशिरो
मेने
आत्मत्राणं
द्विजात्मजः
20
▾
Meaning
Keep
अथोपस्पृश्य
सलिलं
संदधे
तत्समाहितः
।
अजानन्नुपसंहारं
प्राणकृच्छ्र
उपस्थिते
21
▾
Meaning
Keep
ततः
प्रादुष्कृतं
तेजः
प्रचण्डं
सर्वतो
दिशम्
।
प्राणापदमभिप्रेक्ष्य
विष्णुं
जिष्णुरुवाच
ह
22
▾
Meaning
Keep
कृष्ण
कृष्ण
महाभाग
भक्तानामभयंकर
।
त्वमेको
दह्यमानानामपवर्गोऽसि
संसृतेः
23
▾
Meaning
Keep
त्वमाद्यः
पुरुषः
साक्षादीश्वरः
प्रकृतेः
परः
।
मायां
व्युदस्य
चिच्छक्त्या
कैवल्ये
स्थित
आत्मनि
24
▾
Meaning
Keep
स
एव
जीवलोकस्य
मायामोहितचेतसः
।
विधत्से
स्वेन
वीर्येण
श्रेयो
धर्मादिलक्षणम्
25
▾
Meaning
Keep
तथायं
चावतारस्ते
भुवो
भारजिहीर्षया
।
स्वानां
चानन्यभावानामनुध्यानाय
चासकृत्
26
▾
Meaning
Keep
किमिदं
स्वित्कुतो
वेति
देवदेव
न
वेद्म्यहम्
।
सर्वतोमुखमायाति
तेजः
परमदारुणम्
27
▾
Meaning
Keep
श्रीभगवानुवाच ।
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् ।
नैवासौ वेद संहारं प्राणबाध उपस्थिते
28
▾
Meaning
Keep
न
ह्यस्यान्यतमं
किञ्चिदस्त्रं
प्रत्यवकर्शनम्
।
जह्यस्त्रतेज
उन्नद्धमस्त्रज्ञो
ह्यस्त्रतेजसा
29
▾
Meaning
Keep
श्रुत्वा
भगवता
प्रोक्तं
फाल्गुनः
परवीरहा
।
स्पृष्ट्वापस्तं
परिक्रम्य
ब्राह्मं
ब्राह्माय
सन्दधे
30
▾
Meaning
Keep
संहत्यान्योन्यमुभयोस्तेजसी
शरसंवृते
।
आवृत्य
रोदसी
खं
च
ववृधातेऽर्कवह्निवत्
31
▾
Meaning
Keep
दृष्ट्वास्त्रतेजस्तु
तयोस्त्रींल्लोकान्
प्रदहन्
महत्
।
दह्यमानाः
प्रजाः
सर्वाः
सांवर्तकममंसत
32
▾
Meaning
Keep
प्रजोपप्लवमालक्ष्य
लोकव्यतिकरं
च
तम्
।
मतं
च
वासुदेवस्य
सञ्जहारार्जुनो
द्वयम्
33
▾
Meaning
Keep
तत
आसाद्य
तरसा
दारुणं
गौतमीसुतम्
।
बबन्धामर्षताम्राक्षः
पशुं
रशनया
यथा
34
▾
Meaning
Keep
शिबिराय
निनीषन्तं
दाम्ना
बद्ध्वा
रिपुं
बलात्
।
प्राहार्जुनं
प्रकुपितो
भगवानम्बुजेक्षणः
35
▾
Meaning
Keep
मैनं
पार्थार्हसि
त्रातुं
ब्रह्मबन्धुमिमं
जहि
।
योऽसावनागसः
सुप्तानवधीन्निशि
बालकान्
36
▾
Meaning
Keep
मत्तं
प्रमत्तमुन्मत्तं
सुप्तं
बालं
स्त्रियं
जडम्
।
प्रपन्नं
विरथं
भीतं
न
रिपुं
हन्ति
धर्मवित्
37
▾
Meaning
Keep
स्वप्राणान्
यः
परप्राणैः
प्रपुष्णात्यघृणः
खलः
।
तद्वधस्तस्य
हि
श्रेयो
यद्दोषाद्यात्यधः
पुमान्
38
▾
Meaning
Keep
प्रतिश्रुतं
च
भवता
पाञ्चाल्यै
शृण्वतो
मम
।
आहरिष्ये
शिरस्तस्य
यस्ते
मानिनि
पुत्रहा
39
▾
Meaning
Keep
तदसौ
वध्यतां
पाप
आतताय्यात्मबन्धुहा
।
भर्तुश्च
विप्रियं
वीर
कृतवान्
कुलपांसनः
40
▾
Meaning
Keep
एवं
परीक्षता
धर्मं
पार्थः
कृष्णेन
चोदितः
।
नैच्छद्धन्तुं
गुरुसुतं
यद्यप्यात्महनं
महान्
41
▾
Meaning
Keep
अथोपेत्य
स्वशिबिरं
गोविन्दप्रियसारथिः
।
न्यवेदयत्तं
प्रियायै
शोचन्त्या
आत्मजान्
हतान्
42
▾
Meaning
Keep
तथाऽऽहृतं
पशुवत्पाशबद्धमवाङ्मुखं
कर्मजुगुप्सितेन
।
निरीक्ष्य
कृष्णापकृतं
गुरोः
सुतं
वामस्वभावा
कृपया
ननाम
च
43
▾
Meaning
Keep
उवाच
चासहन्त्यस्य
बन्धनानयनं
सती
।
मुच्यतां
मुच्यतामेष
ब्राह्मणो
नितरां
गुरुः
44
▾
Meaning
Keep
सरहस्यो
धनुर्वेदः
सविसर्गोपसंयमः
।
अस्त्रग्रामश्च
भवता
शिक्षितो
यदनुग्रहात्
45
▾
Meaning
Keep
स
एष
भगवान्
द्रोणः
प्रजारूपेण
वर्तते
।
तस्यात्मनोऽर्धं
पत्न्यास्ते
नान्वगाद्वीरसूः
कृपी
46
▾
Meaning
Keep
तद्धर्मज्ञ
महाभाग
भवद्भिर्गौरवं
कुलम्
।
वृजिनं
नार्हति
प्राप्तुं
पूज्यं
वन्द्यमभीक्ष्णशः
47
▾
Meaning
Keep
मा
रोदीदस्य
जननी
गौतमी
पतिदेवता
।
यथाहं
मृतवत्साऽऽर्ता
रोदिम्यश्रुमुखी
मुहुः
48
▾
Meaning
Keep
यैः
कोपितं
ब्रह्मकुलं
राजन्यैरजितात्मभिः
।
तत्कुलं
प्रदहत्याशु
सानुबन्धं
शुचार्पितम्
49
▾
Meaning
Keep
धर्म्यं
न्याय्यं
सकरुणं
निर्व्यलीकं
समं
महत्
।
राजा
धर्मसुतो
राज्ञ्याः
प्रत्यनन्दद्वचो
द्विजाः
50
▾
Meaning
Keep
नकुलः
सहदेवश्च
युयुधानो
धनञ्जयः
।
भगवान्
देवकीपुत्रो
ये
चान्ये
याश्च
योषितः
51
▾
Meaning
Keep
तत्राहामर्षितो
भीमस्तस्य
श्रेयान्
वधः
स्मृतः
।
न
भर्तुर्नात्मनश्चार्थे
योऽहन्सुप्ताञ्शिशून्
वृथा
52
▾
Meaning
Keep
निशम्य
भीमगदितं
द्रौपद्याश्च
चतुर्भुजः
।
आलोक्य
वदनं
सख्युरिदमाह
हसन्निव
53
▾
Meaning
Keep
ब्रह्मबन्धुर्न
हन्तव्य
आततायी
वधार्हणः
।
मयैवोभयमाम्नातं
परिपाह्यनुशासनम्
54
▾
Meaning
Keep
कुरु
प्रतिश्रुतं
सत्यं
यत्तत्सान्त्वयता
प्रियाम्
।
प्रियं
च
भीमसेनस्य
पाञ्चाल्या
मह्यमेव
च
55
▾
Meaning
Keep
अर्जुनः
सहसाऽऽज्ञाय
हरेर्हार्दमथासिना
।
मणिं
जहार
मूर्धन्यं
द्विजस्य
सहमूर्धजम्
56
▾
Meaning
Keep
विमुच्य
रशनाबद्धं
बालहत्याहतप्रभम्
।
तेजसा
मणिना
हीनं
शिबिरान्निरयापयत्
57
▾
Meaning
Keep
वपनं
द्रविणादानं
स्थानान्निर्यापणं
तथा
।
एष
हि
ब्रह्मबन्धूनां
वधो
नान्योऽस्ति
दैहिकः
58
▾
Meaning
Keep
पुत्रशोकातुराः
सर्वे
पाण्डवाः
सह
कृष्णया
।
स्वानां
मृतानां
यत्कृत्यं
चक्रुर्निर्हरणादिकम्
Previous
←
Narada Tells the Rest
Next
Kunti's Praise
→