Contents
Devotion & Sacred Story
Home
Library
Find
Shelf
Settings
←
Leave
Śrīmad Bhāgavatam · Narada Tells the Rest
Śrīmad Bhāgavatam
›
Canto 1
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
▾
Meaning
Keep
एवं
निशम्य
भगवान्
देवर्षेर्जन्म
कर्म
च
।
भूयः
पप्रच्छ
तं
ब्रह्मन्
व्यासः
सत्यवतीसुतः
2
▾
Meaning
Keep
भिक्षुभिर्विप्रवसिते
विज्ञानादेष्टृभिस्तव
।
वर्तमानो
वयस्याद्ये
ततः
किमकरोद्भवान्
3
▾
Meaning
Keep
स्वायंभुव
कया
वृत्त्या
वर्तितं
ते
परं
वयः
।
कथं
चेदमुदस्राक्षीः
काले
प्राप्ते
कलेवरम्
4
▾
Meaning
Keep
प्राक्कल्पविषयामेतां
स्मृतिं
ते
सुरसत्तम
।
न
ह्येष
व्यवधात्काल
एष
सर्वनिराकृतिः
5
▾
Meaning
Keep
भिक्षुभिर्विप्रवसिते
विज्ञानादेष्टृभिर्मम
।
वर्तमानो
वयस्याद्ये
तत
एतदकारषम्
6
▾
Meaning
Keep
एकात्मजा
मे
जननी
योषिन्मूढा
च
किङ्करी
।
मय्यात्मजेऽनन्यगतौ
चक्रे
स्नेहानुबन्धनम्
7
▾
Meaning
Keep
सास्वतन्त्रा
न
कल्पाऽऽसीद्योगक्षेमं
ममेच्छती
।
ईशस्य
हि
वशे
लोको
योषा
दारुमयी
यथा
8
▾
Meaning
Keep
अहं
च
तद्ब्रह्मकुले
ऊषिवांस्तदुपेक्षया
।
दिग्देशकालाव्युत्पन्नो
बालकः
पञ्चहायनः
9
▾
Meaning
Keep
एकदा
निर्गतां
गेहाद्दुहन्तीं
निशि
गां
पथि
।
सर्पोऽदशत्पदा
स्पृष्टः
कृपणां
कालचोदितः
10
▾
Meaning
Keep
तदा
तदहमीशस्य
भक्तानां
शमभीप्सतः
।
अनुग्रहं
मन्यमानः
प्रातिष्ठं
दिशमुत्तराम्
11
▾
Meaning
Keep
स्फीताञ्जनपदांस्तत्र
पुरग्रामव्रजाकरान्
।
खेटखर्वटवाटीश्च
वनान्युपवनानि
च
12
▾
Meaning
Keep
चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान्
।
जलाशयाञ्छिवजलान्नलिनीः
सुरसेविताः
13
▾
Meaning
Keep
चित्रस्वनैः
पत्ररथैर्विभ्रमद्भ्रमरश्रियः
।
नलवेणुशरस्तम्बकुशकीचकगह्वरम्
14
▾
Meaning
Keep
एक
एवातियातोऽहमद्राक्षं
विपिनं
महत्
।
घोरं
प्रतिभयाकारं
व्यालोलूकशिवाजिरम्
15
▾
Meaning
Keep
परिश्रान्तेन्द्रियात्माहं
तृट्परीतो
बुभुक्षितः
।
स्नात्वा
पीत्वा
ह्रदे
नद्या
उपस्पृष्टो
गतश्रमः
16
▾
Meaning
Keep
तस्मिन्निर्मनुजेऽरण्ये
पिप्पलोपस्थ
आस्थितः
।
आत्मनाऽऽत्मानमात्मस्थं
यथाश्रुतमचिन्तयम्
17
▾
Meaning
Keep
ध्यायतश्चरणाम्भोजं
भावनिर्जितचेतसा
।
औत्कण्ठ्याश्रुकलाक्षस्य
हृद्यासीन्मे
शनैर्हरिः
18
▾
Meaning
Keep
प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृतः
।
आनन्दसंप्लवे
लीनो
नापश्यमुभयं
मुने
19
▾
Meaning
Keep
रूपं
भगवतो
यत्तन्मनःकान्तं
शुचापहम्
।
अपश्यन्
सहसोत्तस्थे
वैक्लव्याद्दुर्मना
इव
20
▾
Meaning
Keep
दिदृक्षुस्तदहं
भूयः
प्रणिधाय
मनो
हृदि
।
वीक्षमाणोऽपि
नापश्यमवितृप्त
इवातुरः
21
▾
Meaning
Keep
एवं
यतन्तं
विजने
मामाहागोचरो
गिराम्
।
गम्भीरश्लक्ष्णया
वाचा
शुचः
प्रशमयन्निव
22
▾
Meaning
Keep
हन्तास्मिञ्जन्मनि
भवान्मा
मां
द्रष्टुमिहार्हति
।
अविपक्वकषायाणां
दुर्दर्शोऽहं
कुयोगिनाम्
23
▾
Meaning
Keep
सकृद्यद्दर्शितं
रूपमेतत्कामाय
तेऽनघ
।
मत्कामः
शनकैः
साधु
सर्वान्
मुञ्चति
हृच्छयान्
24
▾
Meaning
Keep
सत्सेवयादीर्घयापि
जाता
मयि
दृढा
मतिः
।
हित्वावद्यमिमं
लोकं
गन्ता
मज्जनतामसि
25
▾
Meaning
Keep
मतिर्मयि
निबद्धेयं
न
विपद्येत
कर्हिचित्
।
प्रजासर्गनिरोधेऽपि
स्मृतिश्च
मदनुग्रहात्
26
▾
Meaning
Keep
एतावदुक्त्वोपरराम
तन्मह-
द्भूतं
नभोलिङ्गमलिङ्गमीश्वरम्
।
अहं
च
तस्मै
महतां
महीयसे
शीर्ष्णावनामं
विदधेऽनुकम्पितः
27
▾
Meaning
Keep
नामान्यनन्तस्य
हतत्रपः
पठन्
गुह्यानि
भद्राणि
कृतानि
च
स्मरन्
।
गां
पर्यटंस्तुष्टमना
गतस्पृहः
कालं
प्रतीक्षन्
विमदो
विमत्सरः
28
▾
Meaning
Keep
एवं
कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मनः
।
कालः
प्रादुरभूत्काले
तडित्सौदामनी
यथा
29
▾
Meaning
Keep
प्रयुज्यमाने
मयि
तां
शुद्धां
भागवतीं
तनुम्
।
आरब्धकर्मनिर्वाणो
न्यपतत्पाञ्चभौतिकः
30
▾
Meaning
Keep
कल्पान्त
इदमादाय
शयानेऽम्भस्युदन्वतः
।
शिशयिषोरनुप्राणं
विविशेऽन्तरहं
विभोः
31
▾
Meaning
Keep
सहस्रयुगपर्यन्ते
उत्थायेदं
सिसृक्षतः
।
मरीचिमिश्रा
ऋषयः
प्राणेभ्योऽहं
च
जज्ञिरे
32
▾
Meaning
Keep
अन्तर्बहिश्च
लोकांस्त्रीन्
पर्येम्यस्कन्दितव्रतः
।
अनुग्रहान्महाविष्णोरविघातगतिः
क्वचित्
33
▾
Meaning
Keep
देवदत्तामिमां
वीणां
स्वरब्रह्मविभूषिताम्
।
मूर्च्छयित्वा
हरिकथां
गायमानश्चराम्यहम्
34
▾
Meaning
Keep
प्रगायतः
स्ववीर्याणि
तीर्थपादः
प्रियश्रवाः
।
आहूत
इव
मे
शीघ्रं
दर्शनं
याति
चेतसि
35
▾
Meaning
Keep
एतद्ध्यातुरचित्तानां
मात्रास्पर्शेच्छया
मुहुः
।
भवसिन्धुप्लवो
दृष्टो
हरिचर्यानुवर्णनम्
36
▾
Meaning
Keep
यमादिभिर्योगपथैः
कामलोभहतो
मुहुः
।
मुकुन्दसेवया
यद्वत्तथाऽऽत्माद्धा
न
शाम्यति
37
▾
Meaning
Keep
सर्वं
तदिदमाख्यातं
यत्पृष्टोऽहं
त्वयानघ
।
जन्मकर्मरहस्यं
मे
भवतश्चात्मतोषणम्
38
▾
Meaning
Keep
एवं
संभाष्य
भगवान्नारदो
वासवीसुतम्
।
आमन्त्र्य
वीणां
रणयन्
ययौ
यादृच्छिको
मुनिः
39
▾
Meaning
Keep
अहो
देवर्षिर्धन्योऽयं
यत्कीर्तिं
शार्ङ्गधन्वनः
।
गायन्
माद्यन्निदं
तन्त्र्या
रमयत्यातुरं
जगत्
Previous
←
Narada Names What Is Missing
Next
Asvatthaman Punished
→